________________ उपाधिवादः द्रव्यत्वेऽपि पक्षेऽपि सत्त्वात्न विशेषणाभावकृतो विशिष्टाभावः व्यभिचारसाधकहेतोर्द्रव्यत्वे पक्षे इति पटत्ववृत्तिविशेष्यत्वपरिग्रहे भावाविष्कारं कुर्वन्नाह - व्यर्थविशेष्यत्वे इति / अयमत्र भावः / द्रव्यत्वप्रमेयत्वमात्रवृत्तिविशेष्यत्वपरिग्रहे द्रव्यत्वं पृथिवीत्वव्यभिचारि द्रव्यत्वप्रमेयत्वमात्रवृत्तिधीविशेष्यत्वात् प्रमेयत्ववत् इत्यस्यैव गमकत्वे घटावृत्तिगुणवत्त्वव्यभिचारित्वस्य विशेष्यस्य वैयर्थ्यम् / द्रव्यत्वपटत्वप्रमेयत्वमात्रविशेष्यकसमूहालम्बनधीविशेष्यत्वपरिग्रहे तु तादृशविशेष्यत्वस्य पटत्वेऽपि सत्त्वात् तत्र पृथिवीत्वव्यभिचारित्वरूपसाध्यस्याभावात् व्यभिचारः, अतस्तद्वारणाय घटावृत्तिगुणवत्त्वव्यभिचारित्वस्य हेतुमध्ये प्रवेशः / तथा च पटत्वे घटावृत्तिगुणवत्त्वस्य व्यभिचारित्वाभावात् विशेष्याभावकृतव्यभिचारसाधकहेतोरपि विशिष्टाभावसत्त्वात् न तत्र व्यभिचारः / साध्याभाववति साधनसत्त्वे एव व्यभिचारात् न तु हेत्वभावेऽपीति भावः / व्याप्तिग्रहेति / व्याप्तिग्रहज्ञानार्थं दृष्टान्ता(न्ती)करणार्थम् / यथा द्रव्यत्वं पृथिवीत्वव्यभिचारि इत्यत्र साध्ये हेतौ यदि द्रव्यत्वपटत्वमात्रविशेष्यका या धीः तद्विशेष्यत्वे सति घटावृत्तिगुणवत्त्वव्यभिचारित्वादिति हेतुः क्रियते तदा तादृशहेतोः द्रव्यत्वे एव सत्त्वात् द्रव्यत्वस्य च पक्षत्वात् तस्य दृष्टान्तत्वस्य विरहात् पक्षे साध्यप्रसिद्धिविरहादेव न दृष्टान्तत्वम्। [21A] यथा च साध्यं साधनं प्रसिद्धं तत्रैव सहचारग्रहो भवतीति सामानाधिकरण्यग्रहार्थम् अन्वये दृष्टान्तत्वम् / यत्र च साध्याभावसाधनाभावयोः सहचारग्रहः तस्य व्यतिरेके दृष्टान्तत्वम्। तथा च प्रकृते दृष्टान्तार्थं प्रमेयत्वनिष्ठविशेष्यत्वपरिग्रहः, तादृशत्रितयनिष्ठविशेष्यत्वपरिग्रहे च हेतोः प्रमेयत्वेऽपि सत्त्वात् तत्रैव साध्यसाधनयोः सामानाधिकरण्यग्रह इति दृष्टान्तत्वमित्यर्थः / ननु यद्यभिचारित्वेनेत्यादिलक्ष्यतावच्छेदके यद्यभिचारित्वेनाविशेषितेन साधने साध्यव्यभिचार उन्नीयते तदेव लक्ष्यतावच्छेदकम् / तथा च प्रकृतोपाधिव्यभिचारेण विशेषितेनैव साधने साध्यव्यभिचारित्वमुन्नीयते इति न तस्य लक्ष्यत्वम्। तथा च तत्रोपाधिलक्षणागमनेऽपि न क्षतिः / लक्ष्यतावच्छेदकशून्यात्न लक्ष्यत्वमितिनाव्याप्तिरिति आशङ्कते -नचेति।समाधत्ते - एवं हीति।लक्ष्यतावच्छेदके यव्यभिचारित्वेनेत्यत्राविशेषितेन यद्वयभिचारित्वेनेति विशेषणप्रक्षेपो न कर्तव्यः येन उक्तोपाध्यसङ्ग्रहे उक्तोपाधेर्लक्ष्यत्वेन तत्साधारणलक्षणकरणासमर्थानां भवतां नायासो भवतीति परिहासेन समाधत्ते - एवं हीति / एवं यद्यभिचारित्वेनेत्यत्राविशेषितेनेति विशेषणप्रक्षेपेण तस्यालक्ष्यत्वव्यवस्थापने एवमित्यस्यार्थः प्रत्यक्षत्वेत्यादिः / वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपवत्त्वमुपाधिर्न स्यात् / अविशेषितेनास्वव्यभिचारित्वे साधने साध्यव्यभिचारसाधकत्वाभावात् निरुक्तलक्ष्यतावच्छेदकविरहेणोपाधिर्न स्यात् इत्यर्थः / तत्सङ्ग्राह्यमुक्तलक्षणेति / तत् उद्भूतरूपवत्त्वं तस्य सङ्ग्राह्यम् / यल्लक्षणं यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमिति यल्लक्षणं कृतं तदतिव्याप्तमिति भावः / तथा च लक्ष्यतावच्छेदके विशेषणप्रक्षेपे वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपवत्त्वलक्ष्यतावच्छेदकविरहेण यद्धर्मावच्छिन्नेत्याद्युक्तलक्षणे अतिव्याप्तिः, विशषणाप्रक्षेपे तु लक्ष्यतावच्छेदके घटः पृथिवी द्रव्यत्वात् इत्यत्र घटावृत्तिगुणवत्त्वस्योक्तप्रकारेण शुद्धसाध्य