________________ 44 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका घटावर्तिगुणवत्त्वम्, तद्धर्मावच्छिन्नं यत् साधनं द्रव्यत्वं तस्यापि व्यापकम्, यथा यत्र घटान्यत्वावच्छिन्नद्रव्यत्वं तत्र घटावर्तिगुणवत्त्वं जलवत् इति कुत्रापि व्यभिचारः / तथा च तद्धर्मावच्छिन्नसाधनाव्यापकत्वविरहादव्याप्तिरेव / न च साधन(ना)व्यापकत्वविरहात् तन्न लक्ष्यमिति वाच्यमित्यत आह - पक्षे इति / तत्र घटावर्तिगुणवत्त्वोपाधौ। उक्तानीति / उक्तानि यत्र साधनाव्यापकत्वेत्यादिपूर्वोक्तानि / तदेव विवृणोति - घटान्यत्वेति / घटान्यत्वावच्छिन्नपृथिवीत्वस्य व्यापकं यद् घटावृत्तिगुणवत्त्वं तस्य यत्र घटे साधनाव्यापकत्वं तद्वृत्तिधर्मावच्छिन्नस्य पृथिवीत्वस्य न व्यापकं घटावर्तिगुणवत्त्वम्, घटे एव व्यभिचारात् / अत्र(त) एव यत्र साधनाव्यापकत्वमुपाधिस्तदृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमित्युक्तनिरुक्ते अव्याप्तिः इत्येक लक्षणमव्याप्तम् / द्वितीयलक्षणेऽव्याप्तिं ददाति - स्वानधिकरणभूतेति / स्वशब्देनोपाधित्वेनाभिमतं यल्लक्ष्यं यद् घटावर्तिगुणवत्त्वं तस्योपाधेरनधिकरणीभूतो यद्घटः तद्वृत्तियों धर्मः घटत्वादिः तदवच्छिन्नसाध्यस्य पृथिवीत्वस्य न व्यापकं घटावृत्तिगुणवत्त्वमिति स्वानधिकरणीभूतधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमिति लक्षणमव्याप्तम् / अलक्ष्यत्वेनाव्याप्तिमुद्धरति - न चेति। अलक्ष्यत्वमेव कुतः ? तदाह - शुद्धसाध्यव्यभिचारेति / शुद्धसाध्यव्यभिचारानुन्नायकत्वेनायमुपाधिरेव न भवति / तस्य लक्ष्यत्वनिर्णायक शुद्धसाध्यव्यभिचारोन्नयनमाह - द्रव्यत्वमिति / द्रव्यत्वं पृथिवीत्वव्यभिचारि। द्रव्यत्वपटत्वप्रमेयत्वेति हेतुः / हेतुस्थविशेषणानां व्यावृत्तिमाह - अत्रेति / स्वरूपासिद्धीति / द्रव्यत्वं व्यभिचारसाधने पक्षः / तत्र यदि घटत्वप्रमेयत्वा(दी)नीति प्रतीतिविशेष्ये सतीत्युच्यते तदा [20 B] द्रव्यत्वे तादृशप्रतीतिविशेष्यत्वाभावात् व्यभिचारसाधनस्य तादृश(शे) सति एतद्विशिष्टस्य उपाधिव्यभिचारित्वस्य घटावृत्तिगुणवत्त्वव्यभिचारस्य विशेषणाभाव(वे) सत(ति) विशिष्टाभावस्य सत्त्वात् पक्षे द्रव्यत्वे निरुक्तसाधनस्याश(स)त्वात् स्वरूपासिद्धिरिति भावः / द्रव्यत्वपददाने तु न स्वरूपासिद्धिः, तद्विशेष्यत्वस्य द्रव्यत्वेऽपि सत्त्वात्। द्रव्यत्वस्य वैद्यर्थ्यमाशझ्यते - न चेति / व्यभिचारवारकस्य विशेषणस्यैव सार्थकत्वमिति मन्वानः तादृशप्रतीतिविशेष्यत्वस्याखण्डत्वेन न वैयर्थ्यमिति समाधत्ते - त्रितयेत्यादि / तथा च तादृशप्रतीतिविशेष्यत्वस्य परिचायकमेव द्रव्यत्वादि, न तु तस्य विशेषणम् येन भवद्भिः वैयर्थ्यमाशयेत / व्यावृत्तिस्तु [इति] / ननु यदि विशेषणं तदा व्यावृत्त(वर्त)कम् / असिद्ध(द्धि)वारणायेत्यादिकं कथमुक्तम् विशेषणस्यैव व्यावर्तकत्वादिति चेत्, न, पटत्वप्रमेयत्वे इति समूहालम्बनात्मिका या धीः तद्विशेष्यत्वं विहाय द्रव्यत्वपटत्वप्रमेयत्वविषयकसमूहालम्बनविशेष्यत्वपरिग्रहे ग्रन्था(न्थ)भावाविष्काराय इत्यर्थः। तथा चपटत्वप्रमेयत्वे इत्याकारिका याधीः तद्विशेष्यत्वात् द्रव्यत्वपटत्वप्रमेयत्वविशेष्यका याधीः सा भिन्नैव न तु एतस्या घटकं पूर्वविशेष्यत्वं येन नीलधूमधूमवत् वैयर्थ्यं स्यादित्यपि ध्येयम् / तथा चपटत्वप्रमेयत्वमात्रविशेष्यका याधी: तद्विशेष्यत्वपरिग्रहे तद्विशेष्यत्वस्य द्रव्यत्वेऽभावात् न तद्घटितव्यभिचारसाधकहेतुर्द्रव्यत्वे इति स्वरूपासिद्धिः / त्रितयवर्तिविशेष्यत्वपरिग्रहे तु न स्वरूपासिद्धिः, तद्विशेष्यत्वस्य