________________ उपाधिवादः चेति / अत्र लक्षणे नातिव्याप्तिरिति योजना / वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपत्वमुपाधिः उदासीनधर्मावच्छिन्नमुद्भूतत्वमुपाधिः / रूपत्वावच्छिन्नेति / रूपत्वावच्छिन्नं यत्र यत्र प्रत्यक्षत्वं तत्र उद्भूतत्वं घटीयरूपवत् इति रूपत्वं धर्मितावच्छेदकं विधाय साध्यव्यापकत्वग्रहः, एवं तदेव रूपत्वं धर्मितावच्छेदकं विधाय ता(वा)यन(व)रूपे अनुभृते रूपत्वावच्छिन्नप्रमेयत्वसाधनवति साधनाव्यापकत्वमुद्भूतत्वाभावात् इति भावः / शुद्धसाध्यव्यभिचारोन्नयनप्रकारमाह - प्रमेयत्वमिति / प्रमेयत्वे प्रत्यक्षत्वं व्यभिचारि / प्रत्यक्षत्वरूपं यत् साध्यं तस्य व्यभिचारिरूपेरूपत्वविशिष्टोद्भूतत्वव्यभिचारित्वंतत्त्वादित्यर्थः / रूपत्वेति व्यभिचारविशेषणात् उद्भूतत्वशून्ये प्रत्यक्षत्ववति घटो न व्यभिचारगुणत्ववदिति। गुणत्वं रूपत्ववति अनुद्भूतेन येन रूपाण] उद्भूतत्वव्यभिचारि प्रत्यक्षत्वस्यव्यभिचारीति दृष्टान्तीकृतं तस्यापि उद्भूतत्वस्यापिस्वव्यभिचारेणशुद्धसाध्यव्यभिचारोन्नयनसम्भवात् एतस्यापि लक्ष्यत्वमेवेति भावः / तस्योद्भूतत्वरूपोपाधेः उदासीनधर्मावच्छिन्नसाध्यव्यापकतया / स्वीकृतेति। स्वीकृतो यस्त्रिविधोपांधिः शुद्धसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकः, एतत्त्रितयात्मकोपाधिबहिर्भूतत्वोपाधिस्वीकारेऽपसिद्धान्त इति सर्वतान्त्रिका (क)सम्मतत्वादिति भावः / समाधत्ते - तस्वेति। तस्य त्रिविधोपाधे: नोपाधित्वव्यापकत्वं किन्तु व्यापकत्वमेव इत अन्यत्रापि तत्सम्भवात् / यथा घटीयरूपं प्रत्यक्ष प्रमेयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नसाध्यव्यापकमुद्भूतरूपत्वम्, तथा चात्र बहिर्द्रव्यत्वं न पक्षधर्मः न वा साधनधर्मः न वा तदुपाधेः शुद्धसाध्यव्यापकत्वम्, तथा चतस्य यथा त्रितयबहिर्भूतामाप्युपाधित्वं तथा प्रकृतेऽपीति भावः / ननु तर्हि अपसिद्धान्तग्रन्थस्य न्यूनता वा पक्षधर्मावच्छिन्न-साधनावच्छिन्नशुद्धसाध्यव्यापकोपाधीनामेवगमनात् ।उदासीनधर्मावच्छिन्नसाध्यव्यापकोपाधेरि(र)निर्देशात् ग्रन्थस्य न्यूनतेत्यत आह - पक्षधर्मेति / पक्षधर्मावच्छिन्नसाध्यव्यापकत्वेनैव तस्य निर्देशात् न ग्रन्थस्य न्यूनता न वाऽपसिद्धान्त इति। ननु वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र [20A] रूपत्वं न पक्षधर्मः, तत्कथं पक्षधर्मावच्छिन्नसाध्यव्यापकोपाधौ प्रवेश इत्यत आह - पक्षधर्मपदेनेति / पक्षधर्मपदेन साधनसमानाधिकरणो यो धर्मस्तस्यैव विवक्षणात् / तथा च रूपत्वं साधनं यत् प्रमेयत्वं तत्समानाधिकरणं भवत्येव / तदवच्छिन्नप्रत्यक्षत्वव्यापकस्योद्भूतत्वस्य पक्षधर्मावच्छिन्नसाध्यव्यापकमध्यप्रवेशात् पक्षधर्मावच्छिन्नेत्यादिग्रन्थेन सिद्धान्तिातात्वात् न तस्योपाधित्वस्य स्वीकारेऽपसिद्धान्तः न वा ग्रन्थस्य न्यूनता / तथा च यद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्धर्मावच्छिन्नसाधनाव्यापकत्वमिति पर्यवसितेत्यादिग्रन्थनिरुक्तरर्थः। तथा च लक्षणे नाव्याप्ति तिव्याप्तिरिति यज्ञपतिमतं पुरस्कृत्य दूषयति - अत्र वदन्ति [इति] / घटः पृथिवी द्रव्यत्वात् इत्यत्र घटजलान्यतरत्वमादायापि न लक्षणसमन्वयः इति / घट: पक्षीकृतः, घटेऽपि साध्यस्य विद्यमानत्वात् / साध्यशून्यस्वर्णघटपक्षीकरणे तु तद्घटान्यतरत्वावच्छिन्नसाध्यस्य व्यापकं [घटावर्तिगुणवत्त्वम्], घटावर्तिगुणवत्त्वादेर्व्यापकत्वान्न लक्षणाव्याप्तिः इति / पृथिव्यात्मकमृद्घट एव पक्षीकृत इति / घटान्यत्वं यो धर्मो घटभेदः तदवच्छिन्नसाध्यस्य व्यापकं