________________ हेत्वाभासप्रकरणे असिद्धिः 573 ___ ननु व्यभिचारज्ञानेनासिद्धर्ज्ञानं क्रियते इति कृत्वा असिद्धिज्ञप्तौ उपजीव्यो व्यभिचार इति स स्वातन्त्र्येण दूषणं स्यात् इत्यत आह - असिद्धेरिति / तथा यदि असिद्धिर्ज्ञाता प्रतिबन्धिका स्यात् तदा तज्ज्ञाने व्यभिचारज्ञानमुपजीव्यं स्यात् / सा च ज्ञाता प्रतिबन्धिका न भवत्येव स्वरूपसत्यास्तस्याः प्रतिबन्धकत्वात् / तथा चासिद्धिज्ञानार्थं व्यभिचाराद्यनुद्भाव्यत्वात् व्यभिचारस्यासिद्धे नोपजीव्यत्वम्, तथा च व्यभिचारोऽप्यसिद्धमध्य एवान्तर्भूतः स्यादिति भावः / ननु व्यभिचारस्यासिद्धज्ञप्तावनुपजीव्यत्वेऽप्युत्पत्तावुपजीव्यत्वात् स्वातन्त्र्येण पृथग् हेत्वाभासत्वं स्यादेवेत्यत आह - यदि चेति / तथा च यदि असिद्धयुत्पत्तौ व्यभिचारास्य] उपजीव्यत्वात् पृथग् दूषणं तदा आश्रयासिद्धिस्वरूपासिद्धयोरप्यसिद्धयुत्पत्तौ उपजीव्यत्वात् पृथग् हेत्वाभासत्वं स्यात् तथा च हेत्वाभासाधिक्यापत्तिः / दूषणान्तरमाह व्यभिचारस्यासिद्धयुपजीव्यत्वे एव - किञ्चेति / तथा च सद्धेतुरसद्धेतुरिति विभागो न स्यात् / कथं न स्यादित्यत आह - सिद्धाविति / यदा उभयोर्व्याप्तिपक्षधर्मतानिश्चयो वर्तते तदा उभावपि सद्धेतू, स चोभय(योः) नास्ति चेत् तदा उभावपि असद्धेतू / नु यत्र वस्तुगत्या व्यभिचारादयो विद्यन्ते सोऽसद्धेतुः यत्र च वस्तुगत्या व्यभिचारादयो न विद्यन्ते स सद्धेतुरिति विषयविभागावधारणात् सद्धेतुत्वासद्धेतुत्वविभागो भविष्यति इत्यत आह - व्यभिचारादेरिति / तथा च व्यभिचारिणि व्याप्तिपक्षधर्मतानिश्चयो भ्रमरूपो यदा वर्तते तस्यां दशायां वस्तुगत्या व्यभिचारे विद्यमानेऽपि न हेत्वाभासत्वम् / कुतः ? यतस्तस्य व्यभिचारस्य सिद्धिखण्डनद्वाराऽनुमितिप्रतिबन्धः क्रियते तदा हेत्वाभासत्वं स्यात् / तदेतद्वयभिचारेण वस्तुगत्या विद्यमानेन व्याप्तिपक्षधर्मतानिश्चयरूपा या सिद्धिस्तत्खण्डनद्वाराऽनुमितिप्रतिबन्धो न क्रियते इति कृत्वा तदा न हेत्वाभासत्वमित्यर्थः / मूले सद्धेताविति पदं वर्तते / तत् सिद्धिदशायामेवेति परं कर्तव्यम् / अन्यथा सद्धेतौ व्यभिचारो नास्तीत्यसङ्गतिः स्यादिति भावः।। - अथ सुषुप्तौ जागरेऽपि व्याप्तिपक्षधर्मतासत्त्वे तदनिश्चयेऽनुमित्यनुत्पादो हेत्वाभासप्रयोज्यः सव्यभिचारादौ तथावधारणात् इति असिद्धिरज्ञातापि हेत्वाभासः / न चैवं हेत्वाभासाधिक्यं क्लृप्तान्तर्भावो वा, तेन रूपेण व्याप्त्यसिद्ध्यादेरेव संग्रहादिति चेत्, न, एवं सव्यभिचारादिरप्यसिद्धिः स्यात् इत्युक्तत्वात्, उपजीवनात् भेदे आश्रयासिद्धयादिरपि पृथक् स्यात् / सुषुप्त्यादौ अनुमित्यभावः, कारणाभावात् कार्यानुत्पादो हि, न प्रतिबन्धकमात्रात् किन्तु कारणाभावादपि असति अपि प्रतिबन्धके वन्यभावेन दाहानुत्पत्तेः।