________________ 572 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तथा सिद्धौ सत्यामनुमितिमुक्त्वा सिद्धयभावेऽनुमितिर्नास्तीति तत्र हेत्वाभासोऽसिद्धिरेवेत्याह - न त्विति / तथा च यत्र वस्तुगत्या व्याप्तिः पक्षधर्मता च वर्तते व्याप्तिपक्षधर्मतानिश्चयश्च नास्ति तत्र योऽनुमित्यभावः सो हेत्वाभासोऽसिद्धस्तदधीन एव व्याप्तिपक्षधर्मतानिश्चयाविरह]रूपाया असिद्धेर्विद्यमानत्वात् / न चैवं हेतोरप्याभासत्वं तदाभासस्यापि हेतुत्वं स्यात् / दशाविशेष इष्टत्वात् / सेयं स्वरूपसती दूषिका कारणाभावत्वात् / न च व्याप्त्यादिप्रत्येकनिश्चयाभाव एव दूषक आवश्यकत्वात् इति वाच्यम् / विशिष्टनिश्चयस्य हेतुत्वे तदभावस्य कार्यानुत्पादकत्वादिति / मैवम् / एवं सव्यभिचारादेरप्यत्रैवान्तर्भावप्रसङ्गात्। अत्राशङ्कते - न चेति / तथा च यदि व्याप्तिपक्षधर्मतानिश्चयविरहोऽसिद्धिस्तदा सद्धेतौ यदा व्याप्तिपक्षधर्मतानिश्चयो नास्ति तदा तस्य हेतोर्हेत्वाभासत्वं स्यात् / यदा हेत्वाभासेऽपि व्याप्तिपक्षधर्मतानिश्चयो भ्रमरूपोऽस्ति तदा तस्य सद्धेतुत्वं स्यात् / समाधत्ते - दशेति / दशाविशेषे सद्धेतुरप्याभासः आभासोऽपि सद्धेतुरेवेति भावः / ननु व्याप्तिपक्षधर्मतानिश्चयोऽनुमितिकारणम्, तदभावः कारणाभावत्वेन स्वरूपसन्नेव कारणं स्यादित्यत आह - सेयमिति / तथा चैवमिष्टापत्तिः / असिद्धिः स्वरूपसत्ये[व] दूषणं कारणाभावत्वादिति भावः / अत्राशङ्कते - न चेति / तथा च व्याप्तिपक्षधर्मतोभयनिश्चयाभावापेक्षया प्रत्येकनिश्चयाभाव(वः) दूषणमस्तु आवश्यकत्वात् इत्यर्थः / समाधत्ते - विशिष्टनिश्चयस्येति / तथा च व्याप्तिपक्षधर्मतोभयनिश्चयः कारणम्, तदभावस्यैव कार्यानुत्पादकत्वात् / तथा च यस्य फलोपधानं कार्यं तदभाव एव कार्यानुत्पादकः / विशिष्टनिश्चय एव कारणम्, ततस्तदभाव एव हेत्वाभासत्वेन दूषक इत्यर्थः / एतेनेत्यारभ्य कार्यानुत्पादकत्वादित्येतत्पर्यन्तं मतमुक्तम् / तद् दूषयति - मैवमिति / एवमिति। यदि व्याप्तिपक्षधर्मतानिश्चयाभावोऽसिद्धिस्तदा सव्यभिचारोऽप्यत्रैवान्तर्भूतः स्यात् तत्रापि [294 A] व्याप्तिपक्षधर्मतानिश्चयाभावसत्त्वात्। असिद्धेः स्वरूपसत्या एव दोषत्वे स्वज्ञानार्थं व्यभिचाराद्यनुद्भावनात् / यदि च तस्मात् सिद्धिर्नोपपद्यत इति तस्योपजीव्यत्वं तदा आश्रयासिद्धयादिज्ञानात् सिद्धिर्नेति स एव पृथग् दोषः स्यात् / असिद्धिश्च ज्ञाता परस्योद्भाव्येति स्वज्ञानार्थमुद्भावितासिद्धिनिर्वाहार्थं चाश्रयासिद्धयादिज्ञानमावश्यकम् / किञ्च, कथं हेतुतदाभासविवेकः ?, सिद्धौ द्वयोरपि हेतुत्वात् असिद्धौ तदाभासत्वात् व्यभिचारादेः सद्धेतौ सिद्धिमखण्डयतश्च हेत्वाभासत्वाभावात्।