________________ हेत्वाभासप्रकरणे असिद्धिः 571 नित्यत्वनिरूपितकृतकत्वनिष्ठा या व्याप्तिपक्षधर्मताप्रमितिस्तदभावो वर्तत एवेति सोऽप्यसिद्धः स्यादित्यर्थः / ननु प्रकृतेति विशेषणं न देयं किन्तु स्वेत्यादिविशेषणं देयम् / स्वपक्षकेत्यादिकं विशेषणं देयमित्यत आह - स्वेति / तथा च स्वसाध्यकव्याप्तिपक्षधर्मताप्रमितिः स्वरूपासिद्धादावप्रसिद्धा / यत्किञ्चित्पक्षे आह - सद्धताविति। ननु सकलव्याप्तिपक्षधर्मताप्रमितिविरह एवास्तु इत्यत आह - सकलेति / तथा च सकलप्रमितिविरहः केनापि ज्ञातुं न शक्यते इति तदाऽसिद्धिर्दूषणमेव न स्यात्, असिद्धर्ज्ञातुमशक्य एवेति। दूषणान्तरमाहव्याप्त्यभावादिति / तथा च विशिष्टाभावापेक्षया व्याप्त्यभावो वा पक्षधर्मताभावो वा उपजीव्यत्वात् दूषणमस्तु / दूषणान्तरमाह - यदीति / व्याप्तिपक्षधर्मताप्रमितिविरहः स्वरूपसत् वा दूषणं तस्य ज्ञानं नापेक्षितम्, अथवा ज्ञातो दूषणम् ? प्रथमे आह - कारणाभावत्वादिति / व्याप्तिपक्षधर्मताज्ञानमनुमितिकारणम्, तदभावः कारणाभाव एव जातः, स च ज्ञातः प्रतिबन्धको न भवति किन्तु स्वरूपसन्नेव / ततः किमित्यत आह - व्याप्त्यादीति / व्याप्त्यादिभ्रमादनुमितिर्न स्यात् / यत्र वस्तुगत्या ह्रदो वह्रिमान् धूमात् इत्यत्र व्याप्तिपक्षधर्मताविरहो वर्तते तत्र व्याप्त्यादिभ्रमात् ह्रदे याऽनुमितिर्जायते सा न स्यात् / यतस्तत्र व्याप्तिपक्षधर्मताप्रमितिविरहो वस्तुगत्या प्रतिबन्धको वर्ततेऽनुमितिर्न स्यात् / 'वस्तुतः' पदं भ्रमाज्जायते सा न स्यात् / दूषणान्तरमाह - न स्याच्चेति / यदि असिद्धिः स्वरूपसती अज्ञाता दूषणं तस्या(दा)ऽसिद्धो हेत्वाभासो न [293 B] स्यात् / यतः स एव हेत्वाभासो यस्य ज्ञानमनुमितिप्रतिबन्धकम्, स्वरूसतोऽसिद्धस्य प्रतिबन्धकत्वेन तज्ज्ञानस्य प्रतिबन्धकत्वाभावात् / एतेन व्याप्तिप्रमितिपक्षधर्मताप्रमितिविरहान्यतरत्वमसिद्धिः, अन्यतरत्वं च तदन्यान्यत्वम्, तेनोभयविरहेऽपि नाव्याप्तिरिति निरस्तम् / व्यर्थविशेषणादेव / स्यादेतत् व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिः तदभावोऽसिद्धिः, अत एवाव्याप्तेऽपक्षधर्मे च तदारोपरूपा सिद्धिरित्यनुमिति: न तु व्याप्तपक्षधर्मादपि तदनिश्चये। - मतान्तरं दूषयति - एतेनेति / तथा च व्याप्तिप्रमितिः पक्षधर्मताप्रमितिश्च अनयोर्यो विरहो तदन्यतरत्वम-सिद्धिः, तदभावश्च सिद्धिः, एतावता सिद्धयसिद्धयोर्विवरणं कृतम् / अत एवेति / यत एव व्याप्तिपक्षधर्मता[प्रमिति]विरहान्यतरत्वमसिद्धिरत एवेत्यर्थः / अत्र व्याप्तिपक्षधर्मताप्रमितिविरह इत्यत्र प्रमितिपदं निश्चयमात्रपरम् / तथा च व्याप्तिपक्षधर्मतोभयनिश्चयविरहान्यतरत्वमसिद्धत्वम्, तदभावः सिद्धिः, अत एव / यतस्तदभाव: सिद्धिरत एवाव्याप्तेऽपक्षधर्मे च [आरोपरूपा व्याप्त्यारोपपक्षधर्मतारोप]रूपा सिद्धिस्तिष्ठति असिद्धयभावरूपा सिद्धिस्तिष्ठति। अत एव तत्र तदनुमितिर्जायते। तथा च व्याप्तिपक्षधर्मतानिश्चयविरहान्यतरत्वम् असिद्धिः,