________________ 574 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका शङ्कते - अथेति / तथा चानुमित्यनुत्पादो यः स हेत्वाभासाधीनः / जागरे सुषुप्तौ वा वस्तुगत्या व्याप्तिपक्षधर्मतयोर्विद्यमानत्वेऽपि व्याप्तिपक्षधर्मतानिश्चयाभावात् अनुमितिर्नोत्पद्यते इति कृत्वा व्याप्तिपक्षधर्मतानिश्चयाभाव एवासिद्धिः / ततोऽनुमित्यनुत्पादो हेत्वाभासाधीन इत्यत्र दृष्टान्तमाह - सव्यभिचारादाविति / तथा च यथा व्यभिचारज्ञाने विद्यमानेऽनुमितिर्न जायते तद्वत् व्याप्तिपक्षधर्मतानिश्चयाभावे विद्यमानेऽनुमितिर्न जायत एवेति [294 B] व्याप्तिपक्षधर्मतानिश्चयाभावोऽपि हेत्वाभास एव / अनुमितिप्रतिबन्धकत्वे समानेऽपि व्यभिचारापेक्षयाऽयमेवास्य विशेषः इत्याह - अज्ञाताऽपीति। असिद्धिरज्ञाता एव हेत्वाभासो यतो व्याप्तिपक्षधर्मतानिश्चयाभाव एवापेक्षितः, स एव चासिद्धिरिति भावः / ननु यदि व्याप्तिपक्षधर्मतानिश्चयाभावोऽसिद्धिस्तदा एका, [?अन्यथा] आश्रयासिद्धयादित्रयम्, तथा च हेत्वाभासाधिक्यं स्यात् इत्याशयेन शङ्कते - न चैवमिति / समाधत्ते - क्लृप्तेति / तथा चाश्रयासिद्धियादीनामपि व्याप्तिपक्षधर्मतानिश्चयाभावात्वेनासिद्धे एवान्तर्भाव इति भावः / इदं दूषयति - एवमिति। यदि व्याप्तिपक्षधर्मतानिश्चयाभावत्वेनाश्रयासिद्धयादीनामसिद्धेऽन्तर्भावस्तदा व्यभिचारादेरपि व्याप्तिपक्षधर्मतानिश्चयाभावत्वेनासिद्धे एवान्तर्भावः स्यात् / ननु व्यभिचारस्यासिद्धयुत्पत्तौ उपजीव्यत्वात् पृथग् हेत्वाभासत्वमित्यत आह - उपजीवनादिति / यदि असिद्धयुपजीवनात् व्यभिचारस्य पृथग् हेत्वाभासत्वं तदाऽऽश्रयासिद्धयादीनामप्यसिद्धयुपजीवनात् पृथग् हेत्वाभासत्वं स्यात् इत्यर्थः / सुषुप्तौ इति यत् पूर्वमुक्तं तत् दूषयति - सुषुप्त्यादाविति। तथा च सुषुप्त्यादौ योऽनुमित्यभावः स [न] हेत्वाभासाधीनः किन्तु व्याप्तिपक्षधर्मताज्ञानरूपकारणाभावात् / न हि यावान् कार्यानुत्पादः स प्रतिबन्धकमात्रात् किन्तु कारणाभावादपि, अन्यथा अत्र बाधकमाह - असत्यपीति / तथा च यदा प्रतिबन्धकं किमपि नास्ति तदानीं वयभावे दाहो नास्ति, स दाहानुत्पादः प्रतिबन्धकान्न प्रतिबन्धकस्य तत्रासत्त्वात् किन्तु वह्निरूपकारणाभावादेव / अथानुमित्यनुत्पादो हेत्वाभासप्रयुक्त एवेति चेत्, तर्हि अनुमितौ मनोयोगादिरपि न हेतुः / हेत्वाभासादेवानुमित्यनुत्पादे तद्व्यतिरेकेणानुमित्यनुत्पादाभावात् सिद्धिरेव तद्धेतुत्वे चरमकारणमेव हेतुः स्यात् / अत्राशङ्कते - अथेति / तथा चानुमित्यनुत्पादो हेत्वाभासाधीनः / सुषुप्तौ योऽनुमित्यनुत्पादः सो हेत्वाभासाधीन एवेति / अन्यस्य हेत्वाभासान्तरस्य तत्राभावादसिद्धिरेवोक्तरूपा हेत्वाभास इति / इदं दूषयति - तीति / तदा आत्ममनःसंयोगादीनामप्यनुमितौ कारणत्वं न स्यात् / असिद्धिरूपहेत्वाभासादेव तत्रानुमित्यनुत्पादे आत्ममनःसंयोगादीनामपि कारणत्वं न स्यात् / उपसंहरति - सिद्धेरेवेति / तथा च सिद्धेाप्तिपक्षधर्मतानिश्चय एव कारणं स्यात् न त्वन्यत् / तदभाव एवासिद्धिर्हेत्वाभासः / तथा च चरमकारणं तदेव कारणं सिद्धि