________________ उपाधिवादः विवक्षायामपिव्यञ्जनवत्त्वेनातिव्याप्तिः। यत्रपर्वते व्यञ्जनवत्त्वस्यसाधनाव्यापकत्वंतत्तिर्यो धर्मः पर्वतत्वादिः तदवच्छिन्नसाध्यस्य तद्विशिष्टसाध्यस्य वह्नः व्यञ्जनवत्त्वस्य अव्यापकत्वात् नातिव्याप्तिः गिरिपर्वते व्यञ्जने / एवं वायुः प्रत्यक्षः प्रमेयत्वात्इत्यादौ यत्रअधिकरणेवायौ साधनाव्यापकत्वमुद्भूतरूपस्य तद्वृत्तिर्योधर्मः यत्किञ्चिद्रव्यत्वादेः तदवच्छिन्नबहिरिन्द्रियजन्यप्रत्यक्षस्य साध्यस्य व्यापकमुद्भूतरूपमिति, न तत्रातिव्याप्तिः / एवं कोकिलः श्यामः मित्रापुष्टत्वात् इत्यत्र शाकपाकजत्वस्य साधनाव्यापकं यत्रापि गौरमित्रातनये तद्वृत्तिर्यो धर्मः मित्रातनयत्वं नरत्वं वा तदवच्छिन्नसाध्यस्य श्यामत्वस्य व्यापकमेव शाकपाकजत्वमिति नाव्याप्तिरिति पूर्वलक्षणेऽपि ध्येयम् / साधनाव्यापकत्वापेक्षया स्वानधिकरणत्वस्य लघुत्वेन तद्घटितं लक्षणान्तरमाह - स्वानधिकरणेति / स्वं लक्ष्यत्वेनाभिमतमुपाधिरिति यावत्, तस्यानधिकरणं यत्साधनाधिकरणम्, तद्वृत्तियों धर्मः स एव पर्यवसितपदेन विवक्षितः। तथा च तदवच्छिन्नसाध्यव्यापकत्वे सतिसाधनाव्यापकत्वम् इत्येव लक्षणं जातम्। तथा च व्यञ्जनवत्त्वे नातिव्याप्तिः।यथाव्यञ्जनवत्त्वंलक्ष्यत्वेन भवदभिमतम्, तस्यानधिकरणं पर्वतादिः यत्साधनाधिकरणम्, तद्वृत्तिः यो धर्मः पर्वतत्वं तदवच्छिन्नसाध्यस्य वह्नः अव्यापकमेव व्यञ्जनवत्त्वमिति नातिव्याप्तिः। एवं वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र उद्भूतरूपस्यानधिकरणं यत्साधनाधिकरणं वायुः, तद्वृत्तिधर्मो द्रव्यत्वम्, तदवच्छिन्नसाध्यस्य बहिरिन्द्रियजन्यप्रत्यक्षत्वस्य व्यापकमेवोद्भूतरूपमिति नाव्याप्तिः / एवं कोकिलः श्यामः मित्रापुष्टत्वात् इत्यत्र शाकपाकजत्वस्यानधिकरणं यत्साधनाधिकरणं गौरमित्रातनयः, तद्वृत्तियों धर्मः मित्रातनयत्वं नरत्वं वा तदवच्छिन्नसाध्यस्य व्यापकं शाकपाकजत्वमिति नाव्याप्तिरिति भावः / कृतलक्षणत्रितये अव्याप्तिमाशङ्कते - अथेति ।एवं पर्यवसितपदार्थनिर्वचनेन लक्षणत्रितयेऽपिकृते। गन्धप्रागभावावच्छिन्नेति।गन्धप्रागभावावच्छिन्नो गन्धप्रागभावकालीनो यो गन्धः तद्वानित्यर्थः / यो घटः पक्षीकृतः तदृत्तिर्य आद्यगन्धः तदीयो यः प्रागभावः तदवच्छिन्न इत्यर्थः / अन्यथा अन्यदीयगन्धप्रागाभाव]कालीनगन्धवत्त्वमादाय बाधितमपि न स्यात् / एवं तद्घटस्यैव पाकदशायां जायमानो यो गन्धस्तद्गन्धप्राक्कालीना(न)दशावर्तिगन्धमादायापि अबाधितमेव स्यादिति ध्येयम् / अवच्छिन्नत्वं तु न साध्यतावच्छेदकम्, तथा सति पृथिवीत्वहेतोर्व्यभिचारित्वमेव स्यात् / तथा च सति तस्य व्यभिचारित्वे तत्रोपाधेरवश्यंभावस्वीकारे कुतोऽतिव्याप्तिरित्युच्यते / तस्यापि लक्ष्यत्वात् न हि लक्ष्ये लक्षणगमनमतिव्याप्तिरिति।किन्तु यथा घटः पृथिवीकम्बूग्रीवादिमत्त्वात् इत्यत्र घटत्वरूपोयः पक्षधर्मः पक्षता तदवच्छेदेन साध्यसिद्धिरिति। तथा प्रकृतेऽपि तदीयाद्यगन्धप्रागभावः पक्षतावच्छेदकः तदवच्छेदेन गन्धः साध्यः, अवच्छिन्नत्वं तु प्रकृते स्वरूपसम्बन्धविशेषः तद्गन्धप्रागभावकालीनत्वमेव पर्यवसितः इति भावः / अत एव [19AJ तत्र बाधः / अन्यथा साध्यस्य विद्यमानत्वादबाधितत्वमेव स्यात् / एतदिति / एतदुक्तगन्धप्रागभावः तत्कालीनं यद्रूपवत्त्वं तस्य तस्मिन् घटे तृतीयक्षणे घटान्तरे वा। तत्र च तत्प्रागभावकालीनगन्धस्य विद्यमानत्वात् रूपवत्त्वस्य व्यापकत्वम् / साधनाव्यापकत्वं च पृथिवीत्ववति पक्षे एव / तादृशगन्धप्रागभावावच्छिन्नत्वं साध्यतावच्छेदकत्वं