________________ 40 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका एवकारो व्यर्थः। तस्यापि उपाधित्वेन उपाधिलक्ष्यत्वस्वीकारेण तत्र पर्यवसितेत्यादिपदादाने अव्याप्तिरिति मन्यसे। [18A] यदिवेत्यादि मन्यसे इत्यन्तयोजना। तदेति। वायुः बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात् इत्यत्रभवदुपदर्शितोपाधेः प्रत्यक्षसामग् यादेः अस्फुरणे अस्फूर्तिदशायामुक्तरीत्या विशेषणदानेन व्यभिचारः / व्यभिचारोन्नायकयोः शुद्धसाध्यव्यभिचारोन्नायकयोः तयोः उद्भूतरूप-शाकपाकजत्वयोः स्फुरणे स्फूर्तिदशायां स्वव्यभिचारेणोन्नीतशुद्धसाध्यव्यभिचारानुमानेनानुमितिप्रतिबन्धात् अनुमितिकारणीभूताव्यभिचरितज्ञानप्रतिबन्धात् तयोरपि उद्भूतरूप-शाकपाकाजात्वयोः उपाधित्वे दूषकताबीजसत्त्वेन उपाधित्वेनाङ्गीकारे तस्य लक्ष्यत्वेनाभिमते एतल्लक्षणस्य साधनाव्यापकधर्मावच्छिन्नसाध्यव्यापकत्वे सतीत्यादिलक्षणस्याव्याप्तेः द्रव्यत्वादेः साधनाव्यापकत्वेनेत्यादि / स्वमतेऽपि विशेषणाव्यभिचारिणि इत्यादिग्रन्थं सङ्गमयति / प्रकृताभिप्रायकम् अवच्छिन्नसाध्यव्यापकोपाध्यभिप्रायकम्, न तुसर्वत्र, शुद्धसाध्यव्यापकोपाधिस्थले विशीषणाव्यभिचारिणीत्यादिविशेषणप्रक्षेपस्यानौचित्यादिति भावः / अन्यत्र शुद्धसाध्यव्यापकोपाधिस्थले प्रकारान्तरेणापि विशेषणाव्यभिचारिणीत्यादिविशेषणप्रक्षेपेणापि शुद्धसाध्यस्य धूमादेर्व्यभिचारोन्नयनं व्यभिचारानुमानम् / तथा च धूमवान् वह्नः इत्यत्र आर्टेन्धनरूपोपाधिस्थले वहिधूमव्यभिचारी आर्टेन्धनव्यभिचारात् इत्येव व्यभिचारानुमानं कर्तव्यम्। ननु अत्रापि विशेषणाव्यभिचारिणीत्यादिविशेषणप्रक्षेपे वैयर्थ्यमेव। न तु प्रयोजनमपि। तथा च स ग्रन्थः अवच्छिन्नसाध्यव्यापकोपाध्यभिप्रायेणैवेति। यत्त्वित्यादि यद्धविच्छेदेनेति पर्यवसितेत्यादि यदुक्तं तत्तुच्छमिति प्रयोजना। यद्धर्मावच्छेदेनेति मूलं साधनवतीति विशेषणेन पूरि(पूरयि)त्वा यत् व्याख्यातं तत् तुच्छम् / वायुरिति / वायुः प्रत्यक्षः वायुत्वात् इत्यत्र उद्भूतरूपोपाधौ अव्याप्तेः / साधनवतीत्यादिविशेषणाभावात् / साधनवति वायौ प्रत्यक्षत्वस्याप्रसिद्धेः। न च तस्यालक्ष्यत्वमित्यत आह - उक्तेति। उक्तं यल्लक्ष्यतावच्छेदकं यद्वयभिचारित्वेनेत्याधुक्तलक्ष्यतावच्छेदकं तत्सङ्गृहीतत्वेन तदाक्रान्तत्वेन दूषकताबीजमप्यानयति-व्यभिचारेति / व्यभिचारोन्नयनं प्रत्यक्षत्वस्य शुद्धसाध्यस्य व्यभिचारोन्नयनम् / तत्र समर्थस्य तद्योग्यताव्याप्तिपक्षधर्मतावद्व्यभिचारप्रतियोगिन अननु(अनु)पाधित्वेनअलक्ष्यत्वेन वक्तुमशक्यत्वात्।नन्विति।उक्तरीत्याविशेषणाव्यभिचारिणीत्याद्युक्तरीत्या व्यभिचारोन्नयनसमर्थस्यैव लक्ष्यत्वं तथापि न नो हनि(हानिः) / सङ्ग्राहकं लक्षणम् / तथा च पर्यवसितेत्यादि मूलम् / पर्यवसितं यद्धविच्छेदेन साध्यं प्रसिद्धं तद्धर्मावच्छिन्नसाध्यव्यापकत्वेसति तद्धर्मावच्छिन्नसाधनाव्यापकत्वमित्युक्तौ तत्रच यत्किञ्चिद्विशेषणप्रक्षेपे व्यञ्जनवत्त्वे अतिव्याप्तिरुपन्यस्ता। तामुद्धरन्नाह - तद्धर्मावच्छिन्नेति। तथा च व्यञ्जनवत्त्वे नातिव्याप्तिः / व्यञ्जनवत्त्वस्य महानसत्वावच्छिन्नसाध्यव्यापकत्वेऽपि महानसत्वावच्छिन्नसाधनव्यापकत्वेन तद्धर्मावच्छिन्नसाधनाव्यापकत्वविरहात् न लक्षणसमन्वय इति नातिव्याप्तिः / प्रकारान्तरेणाव्याप्तिमुद्धरति - यत्रेति / यत्राधिकरणे साधनाव्यापकत्वमुपाधेः तद्वृत्तिः यत्किञ्चित् धर्म एव पर्यवसितपदेन विवक्षितः / तथा च पूर्वलक्षणे लाघवम्, पूर्वलक्षणे पर्यवसितपदस्योभयत्र दानेन / अत्र [18B] पुनरेके त्विति लाघवम् / तथा च इत्थं