________________ . 39 उपाधिवादः व्यभिचारे चावश्यमुपाधिरिति नियमात् / तस्य व्यभिचारस्य उपाधिव्याप्यत्वात्। तथा च व्यापकस्योपाधेविरहात् व्याप्यस्य व्यभिचारस्यापिविरहोऽस्त्वित्याशङ्कार्थः।नहीति। तत्रानुमानद्वये उपाधिरेव नास्ति।उपाधिसामान्याभावं ब्रूमः / ततः साध्यस्य साध्यवत्त्वप्रकारकप्रमाविशेष्यत्वस्य वोपाधित्वसम्भवात् / एतयोरिति / एतयोः उद्भूतरूपशाकपाकजत्वयोः साधनाव्यापकधर्मावच्छिन्नसाध्यव्यापकयोरितरविशेषणासहकृतसाध्यव्यभिचारोनायकव्यभिचाराप्रतियोगिनोः अनुपाधित्वम् उपाधिलक्ष्यतावच्छेदकशून्यत्वं ब्रूम इति योजना। तथा च तयोरलक्ष्यत्वे तत्र लक्षणागमनेऽपि न क्षतिरिति भावः / अनुमानद्वये साधनाव्यापकधर्मावच्छिन्नसाध्यव्यापकोपाधिं [17B] दर्शयति - प्रत्यक्षसामण्यादेरिति / अत्र प्रत्यक्षसामग्री उपाधिः, आदिपदात् बहिरिन्द्रियजन्यप्रत्यक्षम्, तस्य व्यापिका प्रत्यक्षसामग्री एवं साधनस्याव्यापिका, तस्याः शुद्धसाध्यव्यापकत्वात् अवच्छिन्नसाध्यव्यापकत्वं सुतरामेव / इदं पुनरिहावधेयम् / यत् साधनाव्यापकबहिरिन्द्रियजन्यप्रत्यक्षत्वं न व्याप्यतावच्छेदकम् / स्तव(त्व)दुपदर्शितप्रत्यक्षसामा याः लाघवात् बहिरिन्द्रियजन्यप्रत्यक्षत्वस्यैव व्यापकतावच्छेदकत्वात्। अभिधेयत्वादेर्व्यर्थविशेषणत्वात् नीलधूमत्वादिवदिति। तत्रापि अनुमानद्वयेऽपि तयोरेव प्रत्यक्षसामायोः उपाधित्वसम्भवात् / अविशेषितस्वव्यभिचारेण साध्यव्यभिचारोन्नायकत्वादिति शेषः / तन्मतं दूषयति-तन्नेति / शुद्धसाध्येति शुद्धसाध्यव्यभिचारस्य बहिरिन्द्रियजन्यप्रत्यक्षत्वश्यामत्वव्यभिचारस्य यदुन्नयनमनुमानं तत्क्षमं तल्लिङ्गम्, यत्स्वव्यभिचारः तत्प्रतियोगित्वस्य उपाधेर्दूषकताबीजस्य सत्त्वेन तयोर्लक्ष्यत्वम् / अत एवानुपाधित्वमलक्ष्यत्वं वक्तुमशक्यमिति / निरुक्तेति / निरुक्तं यल्लक्ष्यतावच्छेदकं यद्यभिचारित्वेनादितेन धर्मेण तयोरुपदर्शितोपाध्योः लक्ष्यत्वेन स्वीकार इति। न हि लक्ष्यतावच्छेदके यद्वयभिचारेणेत्यादौ अविशेषितेन, यद्वयभिचारेणेति विशेषितं येन तयोरलक्ष्यत्वं स्यात् / केचित् तु इत्यादिवादिनं परिहसति स्वयमित्यादि / स्वयं स्वस्य लक्षणकरणासामर्थ्येन उपाधिलक्षणनिर्वचनासामर्थ्येन जाड्यादिना / एतदिति / उपदर्शितोपाधिद्वयव्यावर्तनाय तत्र लक्ष्यतावच्छेदकनिरुक्तौ विशेषणान्तरप्रक्षेपः / विशेषणान्तरमितराविशेषितेन यद्वयभिचारित्वेनेत्यादि / अनुचितत्वात् अयुक्तत्वात् / तद्विशेषणप्रक्षेपस्य स्वासामर्थ्यप्रकाशत्वादिति भावः / अन्यथेति / यदि विशेषणप्रक्षेपेणानयोरलक्ष्यत्वमित्युच्यते तदा इतोऽपि लघुप्रकारः सम्भवति। शुद्धसाध्येति / अवच्छिन्नसाध्यव्यापकोपाध्यसङ्ग्राहकशुद्धसाध्यव्यापकोपाधिसङ्ग्राहकलक्ष्यतावच्छेदकनिर्वचनेन उपदर्शितोपाधिद्वयवत् सर्वेषामेवोपाधीनामलक्ष्यत्वमस्तु, किमेतावता प्रयासेनेत्यर्थः / शुद्धसाध्येत्यादि / तथा च पर्यवसितेत्यादिपदं न देयमित्येव सौकर्यम्। यदिचेति तदस्फुरणेऽपीति। तदस्फुरणे शुद्धसाध्यव्यापकोपाध्यस्फुरणे। पक्षधर्मेति / बहिर्द्रव्यत्वावच्छिन्नोद्भूतप्रत्यक्षत्वव्यापकोद्भूतरूपोपाधिस्फुरणे पक्षधर्मादीत्यादिपदात् साधनावच्छिन्नोदासीनधर्मावच्छिन्नादिपरिग्रहः / व्यभिचारेति / स्वव्यापकोपाधिना स्वव्यभिचारेण लिङ्गेन साध्यव्यभिचारोन्नयनेन अनुमितिप्रतिबन्धात् अनुमितिकारणीभूतव्याप्तिज्ञानप्रतिबन्धादित्यर्थः / तस्यैव अवच्छिन्नसाध्यव्यापकस्य उद्भूतरूपादेः