________________ 38 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नरे वेति विशेषणम् [आत्र कोकिलादौ व्यभिचारवारणाय / नरे इति विशेषणपदम् / आयुर्वेदे शाकपाकजन्मा नरः श्याम इत्युपदेशात् धर्मपुरस्कारेणैवात्र लिखितं नर इति। तथा च नरत्वावच्छिन्नश्यामत्वेन कार्यता शाकपाकत्वेन कारणताइति कार्यकारणभावग्रह आयुर्वेदादेवेति। तथा चशाकपाकजन्ये गौरमित्रातनये एव व्यभिचारोध्येयः / इत्थं चापि विशेषणवतीत्यादिग्रन्थोऽपि सङ्गच्छते इति भावः द्रव्ये इति विशेषणात् एवं मित्रातनये नरे वेति विशेषणात् उद्घाटितः / विशेषणवति विशिष्टव्यभिचारसिद्धौ विशेष्यव्यभिचारमादायैव सिद्धयतीति भावः / तच्च विशषणं साधनस्य भवतु मा वा इत्यन्यदेतत्। तथा चाव्याप्तिः दृढैव।अथ घटत्ववत् सामान्यशब्दो विशेषपरः। तथा चाघटो घटभिन्नो गौरमित्रातनय इति प्राञ्चः / नव्यास्तु अघटत्वं घटभिन्नत्वं श्यामत्वव्यभिचारि मित्रातनये नरे वा शाकपाकजत्वव्यभिचारित्वात्। इत्थमपिअघटत्वे साध्यसाधनयोः सत्त्वात् दुतांत(दृष्टान्त)त्वं सम्भवत्येव, किमर्थं सामान्यशब्दो विशेषपरतयेति / तयोर्लक्ष्यत्वानङ्गीकारेणातिव्याप्तिं परिहरति - नेति / उक्तरीत्या पूर्वोक्तरीत्या साधनव्यापकधर्मावच्छिन्नसाध्यव्यापकव्यभिचारित्वादिति पूर्वोक्तरीत्या / तथा चेत्थं तयोर्व्यभिचारोन्नायकत्वं न सम्भवत्येवेति न तयोर्लक्ष्यत्वम् / तत्र लक्षणागमनेऽपि न क्षतिरिति भावः। तथा च [17A] अव्याप्तिास्तु इष्टैव, तयोरलक्ष्यत्वात् / अविशेषितेनेति / अविशेषितेन विशेषणान्तरावच्छिन्नेन यद्वयभिचारित्वेन शुद्धसाध्यव्यभिचारोन्नी(चार उन्नी)यते स एवोपाधिः / तथा च प्रकृते द्रव्येतरे इति विशेषणाभ्यां विशिष्टोपाधिव्यभिचाराभ्यामेव साध्यव्यभिचारोन्नयनात् तयोरलक्ष्यत्वम् / वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र तु अविशेषितस्यैव साधनव्यापकधर्मावच्छिन्नव्यापकव्यभिचारेणाविशेषितेनैव साध्यव्यभिचारोन्नयनसम्भवात् तस्य लक्ष्यत्वमिष्टमेवेति भावः / पक्षधर्मताबलादिति विशेषणवति विशिष्टव्यभिचारसिद्धौ विशेष्यव्यभिचारमादायैव सिद्धयति विशेषणाभावविशेष्याभावयोरेव विशिष्टधीनियामकत्वादिति प्राचां मतमवलम्ब्येति / यद्वा इतरबाधसहकृता या साध्यसिद्धिः सैव पक्षधर्मताबललभ्या, यथा महानसीयादिबाधधीसहकृता पर्वतीयवह्रिसिद्धिः पक्षधर्मताबललभ्येति गीयते, तत्र च पर्वतीयवह्नित्वस्य व्यापकतानवच्छेदकत्वेऽपि पक्षधर्मताबलादेव पर्वतीयवह्नित्वप्रकारेणैव सिद्धिरिति प्राञ्चः / नव्यास्तु वह्नित्वप्रकारेणैव पर्वतीयवह्रिसिद्धिरिति / प्राचां मते तु पर्वतीयवह्नित्वप्रकारेण परामर्शविरहात] कारणबाध एवास्वरस उन्नेयः / तथा च प्रकृते साधनव्यापकधर्मावच्छिन्नसाध्यव्यापकोपाधिव्यभिचारेण साधनवति साधनव्यापकधर्मावच्छिन्नसाध्यव्यभिचारसिद्धौ विशेषणं यत्साधनव्यापको धर्मः तद्व्यभिचारस्य बाधज्ञानसहकारेण शुद्धसाध्यव्यभिचार एव सिद्धयति पक्षधर्मताबलात्। भवन्मते तु तन्नसम्भवति, द्रव्यत्वादेः साधनाव्यापकत्वात् तद्व्यभिचारस्य साधने प्रमेयत्वादौ विद्यमानत्वेन बाधविरहात् न तत्सहकारेण विशेष्यव्यभिचारसिद्धिरितिभावः / न चैवमिति टीका। एवमविशेषितेन यद्वयभिचारित्वेनेत्यादिविवक्षया उद्भूतरूपादेरलक्ष्यत्वेतत्र वायुः प्रत्यक्ष(क्षः) बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात्' 'कोकिलः श्यामोमित्रापुष्टत्वात्' इत्यनुमानद्वये व्यभिचारोऽपिइति उपाधिविरहात्व्यभिचारोऽपिनस्यादित्यन्वयः,