________________ 37 कजत्व उपाधिवादः बहिरिन्द्रियजन्यप्रत्यक्षत्वसाधने उद्भूतरूपं नोपाधिः स्यादिति योजना। यथा वायुः बहिरिन्द्रियजन्यप्रत्यक्षः प्रमेयत्वात् इत्यत्र द्रव्यत्वावच्छिन्नसाध्यव्यापके उद्भूतरूपोपाधौ अव्याप्तिः / बहिरिन्द्रियं मनोऽन्यदिन्द्रियं तेनात्मनि व्यभिचारो नान्यथा आत्मन्यपि द्रव्यत्वावच्छिन्नप्रत्यक्षस्य सत्त्वात् उद्भूतरूपविरहाच्च न द्रव्यत्वावच्छिन्नसाध्यव्यापकमुद्भूतरूपमिति तत्रलक्षणागमनेऽपिनक्षतिः। बहिःपददाने तुद्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वस्य साध्यस्य व्यापकमुद्भूतरूपं भवत्येवेति तत्र अव्याप्तिः सङ्गच्छते / अथ च साधनं प्रमेयत्वम्, तद्व्यापकीभूतो धर्मोऽभिधेयत्वम्, तदवच्छिन्नसाध्यस्य बहिरिन्द्रियजन्यप्रत्यक्षस्य व्यापकम् तो(उ)द्भूतरूपं नास्ति, रूपादौ व्यभिचारात् / यत्तु वर्तते द्रव्यत्वं धर्मो तन्न साधनव्यापकम् / तथा च तत्राव्याप्तिरिति दृढा / केवलान्वयिसाधने दूषणमुक्त्वा व्यतिरेकिसाधने दूषणमाह - कोकिलादीति / कोकिलः श्यामः मित्रापुष्टत्वात् / अत्र मित्रापुष्टत्वं साधनम्, साध्यं च श्यामत्वम्, तत्र शाकपाकजत्वमुपाधिः / तत्र अव्याप्तिः / यथा मित्रातनयत्वं यत् वर्तते तत् न साधनस्य व्यापकम्, मित्रापुष्टत्वं यत्साधनस्य व्यापकं तद्विशिष्टसाध्यस्य श्यामस्य न शाकपाकजत्वं व्यापकं मित्रापुष्टकोकिलायां व्यभिचारात्। कोकिलासाधारणेनेत्यादिना अयमेव भावः प्रकाशितः / तथा च स कोकिलः श्यामः मित्रापुष्टत्वात् इत्यत्र मित्रातनयत्वावच्छिन्नश्यामत्वस्य व्यापके[16B] शाकपाकजत्वरूपोपाधौ अव्याप्तिः, मित्रातनयत्वस्य साधनाव्यापकत्वात / साधनव्यापकीभतधर्मान्तरावच्छिन्नसाध्यस्य व्यापकं शाकपा मित्रापुष्टकोकिलायामेव व्यभिचारः उपाधिर्न स्यात् / तत्राव्याप्तिरित्यर्थः / भ्रान्तः शङ्कते - न चेति / अनयोः द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकोद्भूतरूप-मित्रातनयत्वावच्छिन्नश्यामत्वव्यापकशाकपाकजत्वयोः / शुद्धसाध्येत्यादि। तथा च द्रव्यत्वादिविशिष्टसाध्यव्यभिचारस्य प्रमेयत्वादौ साधने सिद्धौ अपिन शुद्धसाध्यव्यभिचारः सिद्धयति, कदाचिद्विशेषणं यद् द्रव्यत्वादि तद्व्यभिचारमादाव्या(दाया)पि सिद्धयतु, द्रव्यत्वादेः साधनाव्यापकत्वात् तद्व्यभिचारस्यापि साधने सम्भवात् / स्वमते तु न सम्भवति, साधनव्यापकधर्मघटितत्वात् / इत्येवं भ्रमबीजं ध्येयम् / अनुपाधित्वमिश्रमित्यनेनालक्ष्यत्वं दर्शितम् / तथा च तयोर्लक्षणागमनेऽपि न क्षतिरित्याशङ्कार्थः / शुद्धसाध्यव्यभिचारित्वेनानयोर्लक्ष्यत्वं व्यवस्थापयन् पूर्वोक्ताव्याप्तिं दृढीकुर्वन्नाह - प्रमेयत्वं हीति / प्रमेयत्वं साधनम्, अत्र पक्षः बहिरिन्द्रियजन्यप्रत्यक्षत्वम्, यच्छुद्धसाध्यं तद्वयभिचारित्वं साध्यम् / तथा च प्रमेयत्वं बहिरिन्द्रियजन्यप्रत्यक्षत्वात्यन्ताभाववद्वृत्ति / हेतुमाह - द्रव्ये इति / द्रव्ये उद्भूतरूपव्यभिचारित्वात् / द्रव्ये इति विशेषणात् न रूपादौ व्यभिचारः / तत्र यद्यपि उद्भूतरूपव्यभिचारो वर्तते तथापि नासौ द्रव्यत्वविशिष्टः, द्रव्यत्वविशिष्टव्यभिचारस्तु वाय्वादौ / तत्र बहिरिन्द्रियजन्यप्रत्यक्षत्वव्यभिचारो वर्तते एवेति भावः / तथा च शुद्धसाध्यव्यभिचारोन्नायकत्वमुद्भूतरूपोपाधावा?लाक्षणमिति / तस्य लक्ष्यत्वं व्यवस्थापितम् / तत्र च लक्षण(णा)गमने अव्याप्तिरेवेति / द्वितीयस्य शुद्धसाध्यव्यभिचारोन्नायकत्वमाह - मित्रापुष्टत्वमिति / मित्रापुष्टत्वं साधनम्, श्यामत्वस्य शुद्धसाध्यस्य व्यभिचारित्वं साध्यम् / हेतुमाह - मित्रातनये इति / मित्रातनये