________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रत्यक्षात्मकसाध्यस्य यत् ज्ञानं प्रमेयं प्रत्यक्षमित्याकारं तत्र धर्मितावच्छेदकं प्रमेयत्वम्, तदवच्छिन्नसाध्यस्य प्रमेयत्वावच्छिन्नप्रत्यक्षस्य उद्भूतरूपोपाधेः अव्याप्यत्वात् अत एवोपाधेरव्यापकत्वम्, तथा च पर्यवसितसाध्याव्यापकत्वात् न तत्र लक्षणसमन्वय इत्यव्याप्तिः / नान्त्य इति। अन्त्यः यत्किञ्चिद्धर्मगर्भितः / वह्निमान् धूमात् इत्यत्र धूमेऽपि साधने सद्धेतो(तौ) व्यञ्जनवत्त्वस्य उपाधितापत्तिः / यत्किञ्चिद्धर्मो महानसत्वम्, महानसं वह्निमत् इत्याकारकज्ञाने महानसत्वस्य धर्मितावच्छेदकतया तदवच्छिन्नसाध्यस्य महानसत्वावच्छिन्नवह्वेरपि पर्यवसितसाध्यत्वात् तस्य च व्यञ्जनवत्त्वं व्यापकम्, धूमस्य साधनस्याव्यापकत्वाच्च तत्र लक्षणसमन्वये अतिव्याप्तिः / अत्र अतिव्याप्त्युद्धाराय केचित् यज्ञपत्युपाध्यायाः यत्किञ्चिद्धर्म एवेति, एवकारा[त्] पूर्वकल्पपरित्यागः / पूर्वकल्पस्य यावद्धर्मावच्छिन्नसाध्यस्य व्यापकस्तु शुद्धसाध्यव्यापक उपाधिरेव / तथा च [साधनावच्छिन्नापक्षधर्मावच्छिन्नोदासीनधर्मावच्छिन्नसाध्यव्यापकोपाधिषु उद्भूतरूपादिषु अव्याप्तिरेव / न वा यावत्त्वविवक्षणे फलमपि किञ्चिदस्ति / लाघवात् साध्यव्यापकत्वे सति साधनाव्यापकमेव लक्षणं वक्तुमुचितम्, अव्याप्तिस्तु उभयथाऽपीति, भवन्मते तु गौरवं परमवशिष्यते इति मन्वान एवकारेण सर्वकल्पं परिहरन् अयं यत्किञ्चिदि[त्यादिकल्पः स्वीकरोति]। यत्किञ्चिद्धर्मः किंविशिष्टः ? साधनव्यापकीभूतः। तथा च साधनव्यापकीभूतो यो धर्मः साध्यप्रसिद(सिद्धोऽ)वच्छेदक(कः) साध्यप्रसिद्धो धर्मितावच्छेदकः / एवम्भूतो यः पर्यवसितो यत्किञ्चिद्धर्मः तदवच्छिन्नसाध्यव्यापकत्वेसति इतिसत्यन्तार्थः। अस्मिन्नर्थे अग्रिमग्रन्थस्वरसमाह - विशेषणाव्यभिचारिणीति टीका / विशेषणं साधनव्यापकीभूतो [16A] धर्मः / साधनव्यापकीभूतोऽथ बहिर्द्रव्यत्वादिः तदवच्छिन्नसाध्यस्य व्यापकम् उद्भूतरूपमुपाधिः / तद्व्यभिचारेण उद्भूतरूपव्यभिचारेण साधने उद्भूतस्पर्शे विशिष्टस्य साधनव्यापकीभूतबहिर्द्रव्यत्वविशिष्टस्य प्रत्यक्षत्वरूपसाध्यस्य व्यभिचार: सिध्यति। तत्र च विशेषणस्य बहिर्द्रव्यत्वस्य न व्यभिचारः, तस्य साधनव्यापकत्वात् / किन्तु विशेष्यस्य साध्यस्य प्रत्यक्षत्वस्य व्यभिचारः / तथा च शुद्धसाध्यव्यभिचार: सुतरां सिद्धयतीति अग्रिमग्रन्थोपष्टम्भः स्वमते दर्शितः / तथैव साधनव्यापकीभूतधर्मावच्छिन्नसाध्यव्यापकत्वे सति इत्याकारेणैव लाभात् / अन्यथा साधनाव्यापकधर्मावच्छिन्नसाध्यव्यभिचारसिद्धावपि न शुद्धसाध्यव्यभिचारः सिद्धयति / कदाचित् साधनाव्यापकीभूतो यो धर्मः तद्व्यभिचारमादायैव विशिष्टव्यभिचार: सिद्धयतु न विशेष्यसाध्यव्यभिचारमादाय / इत्थं लक्षणकरणे तु विशेषणस्य पर्यवसितधर्मस्य व्यभिचारः, तस्य साधनव्यापकत्वात् / पूर्वोक्तातिव्याप्तिमुद्धरति - व्यञ्जनवत्त्वमिति टीका / व्यञ्जनवत्त्वं न धूमस्य व्यापकीभूतो यो धर्मः आर्टेन्धनादिः तदवच्छिन्नस्य धूमस्य व्यापकम्, पर्वतादावेव व्यभिचारात् / पर्वतादौ तादृशधर्मावच्छिन्नो वहिरस्ति परं व्यञ्जनवत्त्वं नास्ति इति वह्रिमान् धूमात् इत्यत्र व्यञ्जनवत्त्वे उपाधौ नातिव्याप्तिः / तस्य साधनव्यापकीभूतधर्मावच्छिन्नसाध्याव्यापकत्वात् नोक्तदोषः नातिव्याप्तिरित्यर्थः / नन्विति / एवं साधनव्यापकीभूतधर्मावच्छिन्नसाध्यव्यापकत्वे सति इत्यादिलक्षणकरणे / प्रमेयत्वेनेति / प्रमेयत्वेन हेतुना वायौ प्रत्यक्षत्वे साध्ये