________________ 35 उपाधिवादः / तत्राव्याप्सिः / यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपे उपाधौ उदूतरूपाभावाधिकरणीभूतयत्किञ्चिद्वयक्त्यधिकरणे वायौ यवृत्तित्वसामान्यं वायुवृत्तित्वसामान्यं साध्यव्यभिचारित्वस्य प्रत्यक्षव्यभिचारित्वस्य व्याप्यं भवत्येवेति न तत्रातिव्याप्तिः / सामान्यपदं तु वह्निमान् धूमात् इत्यत्र व्यञ्जनवत्त्वे अतिव्याप्तिवारणाय / तथाहि व्यञ्जनवत्त्वाभावाधिकरणीभूतयत्किञ्चिदधिकरणं पर्वतादिः तद्वृत्तित्वं सत्तादौ वर्तते / तत्र च साध्यव्यभिचारित्वस्य च व्याप्यत्वेऽपि अतिव्याप्तिसम्भवात् / न पर्वतवृत्तित्वसामान्यं साध्यव्यभिचारित्वव्याप्यमिति न तत्रातिव्याप्तिः / पर्वतवृत्तित्वसामान्यमध्यप्रविष्टस्य धूमनिष्ठवृत्तित्वस्य साध्यव्यभिचारित्वव्याप्यविरहात् न तत्र उन्नयनयोग्यतेति भावः / ___ एवं लक्ष्यतावच्छेदकमुक्त्वा लक्षणमाह - लक्षणं त्विति मूलम् / पर्यवसितेति। पर्यवसितपदं साधनावच्छिन्नपक्षधर्मावच्छिन्नोदासीनधर्मावच्छिन्नशुद्धसाध्यानां सङ्ग्रहाय / अन्यथा एकतरोपादाने अन्यतरस्मिन् व्याप्तिः / लक्षणे पर्यवसितपदार्थं निरूपयति - यद्धर्मेति / पर्यवसितं च साध्यं यद्धर्मावच्छेदेन साध्यं प्रसिद्ध तद्धर्मावच्छिन्नसाध्यव्यापकत्वे तद्धर्मावच्छिन्नसाधनाव्यापकत्वम्, न तु पक्षधर्मताबललभ्यं पूर्वोक्तदूषणात् / तच्च व्यणुकं सावयवं जन्यमहत्त्वानधिकरणद्रव्यत्वात् इत्यत्र निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्, तत्र च लक्षणमतिव्याप्तं तदुपाधेः पक्षधर्मताबललभ्यसाध्यव्यापकत्वादिति।सचेति मूलम्। सधर्मः पर्यवसितो धर्मः / क्वचिदिति मूलम् / शुक्लघटं पक्षीकृत्य घटः श्यामो मित्रातनयत्वात् इत्यत्र शाकपाकजत्वमुपा(त्वोपा)धौ साधनं मित्रातनयत्वमेव पर्यवसितो धर्मः / नीलान्यघटपक्षीकरणे तु शुक्लघटश्याममित्रातनयत्वान्यतरत्वधर्ममादाय पक्षधर्मोऽपि सम्भवतीति [15B] नीला?ान्य]घटपक्षीकरणम् / साधनमेवेति अत्र एवकारेण पक्षधर्मावच्छिन्नस्य विवच्छेदः (विच्छेदः)। क्वचिदिति। वायुः प्रत्यक्षः प्रमेयत्वात् इत्यत्र महत्त्वोपाधेव्यत्वावच्छिन्नसाध्यव्यापकत्वात् द्रव्यत्वमेव पर्यवसितो धर्मः / क्वचिदिति मूलम् / पर्वतो महानसीयवह्निमान् धूमात् इत्यत्र व्यञ्जनवत्त्वोपाधौ महानसत्वं पर्यवसितो धर्मः, महानसत्वावच्छिन्नसाध्यव्यापकं व्यञ्जन[वत्]त्वम्, तद्धर्मावच्छिन्नं साधनमयोगोलकीयवहिरूपं तस्याव्यापकमिति। .. नन्विति टीका / साध्यप्रसिद्धयवच्छेदकस्य, साध्यप्रसिद्धिः साध्यज्ञानम्, तस्यावच्छेदकं यद्धर्मितावच्छेदकम्, यथा मित्रातनये श्यामत्वम् इत्यत्र मित्रातनयत्वं धर्मितावच्छेदकम् / तथा च यद्धर्मावच्छेदेनेति अत्र यावद्धर्मावच्छेदेन साध्यं प्रसिद्धं तावद्धर्मावच्छिन्नसाध्यव्यापकत्वं वा यत्किञ्चिद्धर्मावच्छेदेन साध्यं प्रसिद्ध तद्धर्मावच्छिन्नसाध्यव्यापकत्वं वेति विकल्पद्वयम्। तत्र नाद्य इति। आद्यं यावद्गर्भितं दूषयति - वायुरिति। वायुः प्रत्यक्षः इत्यत्र प्रत्यक्षत्वं साध्यम्, तस्यावच्छेदका यावन्तो धर्माः द्रव्यत्वरूपत्वरसत्वादयः तावद्धर्मावच्छिन्नस्य प्रत्यक्षत्वस्य साध्यस्य न व्यापकमुद्भूतरूपत्वम्, रूपादौ व्यभिचारात्। तथा च वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्रापि उद्भूतरूपत्वमुपाधिर्न स्यात्, तावद्धर्मावच्छिन्नसाध्यस्याव्यापकत्वादुद्भूतरूपत्वोपाधेः / तस्येति टीका।