________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चान्वयविधयाऽगमकत्वेऽपिघटव्यभिचारित्वस्यव्यतिरेकविधयैव गमकत्वमस्तु। तथा चतत्रातिव्याप्तिरतिदृढवेत्यत आह-साध्यसामानाधिकरण्येति / यद्यभिचारित्वेनेत्यत्र यत्पदार्थः साध्यसा(स)मानाधिकरणत्वेन विशेषणीयः। तथा चघटः नसाध्यसमानाधिकरणोन गगनसमानाधिकरणइतिनघटेऽतिव्याप्तिः गगनस्याधिकरणविरहात्। न साध्यसामानाधिकरण्यं साध्यव्यभिचारित्वमुन्नीयते इत्यत्र साध्यपदं वा वृत्तिमत्पदमित्यर्थः / तथा च नघटेऽतिव्याप्तिः गगनस्यावृत्तिमत्त्वात्।ननु वायुःप्रत्यक्षःप्रत्यक्षस्पर्शाश्रयत्वात्इत्यत्र उद्भूतरूपोपाधौ अव्याप्तिः / न हि उद्भूतरूपवत्त्वव्यभिचारित्वं शुद्धं प्रत्यक्षत्वव्यभिचारोन्नायकम्, रूपादावेव व्यभिचारात् / तथाहि रूपे रूपत्वस्योद्भूतरूपव्यभिचारित्वात् प्रत्यक्षव्यभिचारित्वशून्यत्वाच्च न तयोः प्रत्यक्षव्यभिचारित्वोद्भूतरूपव्यभिचारित्वयोर्व्याप्तिः येन उद्भूतरूपव्यभिचारित्वं प्रत्यक्षत्वव्यभिचारोन्नायकं स्यात् इत्यत आह - साधनपक्षधर्मेति / अये(ग्रे) स्फुटमिति किञ्चिद्विशेषणदानेनेत्यर्थः / यथा प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि बहिर्द्रव्यवति उद्भूतरूपव्यभिचारित्वात् यथा गगनम् / रूपत्वं तु न बहिर्द्रव्यवत् इति न तत्र व्यभिचारः / तथा च इत्थं उद्भूतरूपव्यभिचारित्वस्यापि प्रत्यक्षत्वरूपसाध्यव्यभिचारोन्नायकत्वं सम्भवत्येव / एवं स श्यामो मित्रातनयत्वात् इत्यत्र शाकपाकजत्वमुपाधिः। तत्र यद्यपि शाकपाकजव्यभिचारित्वस्य काकत्वादौ श्यामत्वव्यभिचारित्वं तथापि किञ्चिद्विशेषणदानेन साध्यव्यभिचारोन्नायकत्वंसम्भवत्येव। यथा मित्रातनयत्वं श्यामत्वव्यभिचारि मित्रातनयत्ववति शाकपाकजत्वव्यभिचारित्वात् / इत्थं व्यभिचारोन्नयनसमर्थे साधनपक्षधर्मावच्छिन्नयोः उपाध्योः नातिव्याप्तिरिति भावः / तथा च तत्र लक्ष्यतावच्छेदकसत्त्वात् लक्षणं त्वित्यादिना कृतलक्षणस्य गमनेऽपि नातिव्याप्तिरिति भावः / ननु प्रमीयते इत्यत्र प्रमा विशेषणं वा उपलक्षणं वा ? आद्ये यत्र साध्यव्यभिचारानुमितिर्न [15A]जाता तत्राव्याप्तिः। उपलक्षणत्वे उपलक्ष्यतावच्छेदकधर्मविरहात्नोपलक्षणत्वं वक्तुं शक्यम्, न ह्युपलक्षणतावच्छेदकधर्म(1)संभवे उपलक्षणं सम्भवति। तथा च व्याप्तिरेव स्यात्। तथा च प्रमायोग्यता वाच्या / सा च व्याप्ति(प्तिः) पक्षधर्मता [च]। तथा च प्रमापदं [न] तद्वतितत्प्रकारत्वपरं किन्त्वनुमितिसामान्यपरम्, तद्वतितत्प्रकारत्वस्य विवक्षणे प्रयोजनविरहात्। त(न) हि भ्रमेण तदुन्नायके व्यञ्जनवत्त्वादौ अतिव्याप्तिवारणाय।तव(त्र) भ्रमेणोन्नायकत्वसम्भवेऽपिव्याप्तिपक्षधर्मताविरहात्न तत्रयोग्यतेतिनातिव्याप्तिः / यद्वयभिचारित्वेनेत्यस्य चायमर्थो वक्तव्यः / यद्वयभिचारित्वं यत्सा(स)मानाधिकरणीभूतयत्किञ्चिद्वयक्त्यधिकरणवृत्तित्वं साध्यव्यभिचारित्वव्याप्यसाधनवृत्तित्वं च तत्र साधने उपाधिः / योग्यता व्याप्तिः पक्षधर्मता च / उन्नायकत्वम् उन्नयनयोग्यता / सा च व्याप्तिः पक्षधर्मता [च] / साधनवृत्तीत्यनेन पक्षधर्मता दर्शित(ता), साध्यव्यभिचारित्वसाधने साधनस्यैव पक्षत्वात् / यथा धूमवान् वह्नः इत्यत्र वहिधूमव्यभिचारी आर्टेन्धनव्यभिचारित्वात् इत्यत्र वढेः पक्षत्वम्। यदभावाधिकरणेत्यादिकंतु साधनावच्छिन्नपक्षधर्मतावच्छिन्नसाध्यमात्रव्यापकस्य शुद्धसाध्याव्यापकस्योद्भूतरूपस्य व्यभिचारित्वं यद्यपि न साध्यव्यभिचारित्वव्याप्यं तथापि न