SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ उपाधिवादः स्वरूपसम्बन्धविशेषेधूमाभाववत्संयोगित्वेवाधर्मे आर्दैन्धनाभाववत्संयोगित्वस्यआर्द्रधनव्यभिचारित्वस्य न कारणत्वम्।न हि व्यापकव्यभिचारो व्याप्यव्यभिचारे कारणं येन करणे तृतीयास्यात्। किन्तु ज्ञापके एव तृतीया / ज्ञापकं तु ज्ञानजनकत्वम्। तथा च यद्यभिचारेण यद्वयभिचारज्ञानेनेति। यद्वयभिचारपदं यद्वयभिचारज्ञानपरम् / तथा च यद्वयभिचारज्ञानं यद्वयभिचारप्रमापकमिति मूलस्य भावंप्रकाशयन् लक्षणे प्रमीयते इति पदं पूरयन् आह - लिङ्गेनेति।लिङ्गज्ञानविधया ज्ञापकत्वम्, स्वनिष्ठा व्याप्तिः, पक्षधर्माविषयकज्ञानेन प्रमापकेनेत्यर्थः। प्रमीयते इतिप्रमापदम्।वह्निमान् धूमात् इत्यत्रभ्रमेण व्यज(अ)नवत्त्वव्यभिचारेण यत्रधूमे वहिव्यभिचारित्वस्यभ्रमानुमितिर्जाता तत्रातिव्याप्तिवारणायप्रमापदम्।यद्यभिचारित्वेन लिङ्गेनेत्यत्रापिइत्थंप्रमापदंदेयमेव, अन्यथा धूमवान् वहेः इत्यत्र वह्रिसामग्रीव्यभिचारित्वेन लिङ्गेन भ्रमेण वढेधूमव्यभिचारित्वे प्रमापिते वह्रिसामग्र यामतिव्याप्तिः तद्वारणाय प्रमेति पदमिति भावः। ___ साधनस्येतिसाधनपदंप्रकृतसाधनार्थकम्।अन्यथावह्निमान्धूमात् इत्यत्र वह्निसामग्रीव्यभिचारित्वलिङ्गस्य प्रमेयत्वे द्रव्यत्वादौ वा वहिव्यभिचारोन्नायकत्वेन तत्रातिव्याप्तिः स्यात् तदनुरोधेन तद्वारणाय साधनस्येति। तच्च यद्यपिप्रमेयत्वादौ वहिव्यभिचारोन्नायकं तथापिन लिङ्गस्यधूमात्मनो वहिव्यभिचारोन्नायकमितिन तत्रातिव्याप्तिरिति।साध्येतिप्रकृतसाध्यमित्यर्थः ।अन्यथा वह्निमान्धूमात् इत्यत्र व्यञ्जनवत्त्वव्यभिचारित्वस्य व्याप्यीभूतवहिव्यभिचारित्वोन्नायकत्वस्य प्रकृतलिङ्गे धूमेऽपि सम्भवात् तत्रातिव्याप्तिवारणाय साध्यपदं प्रकृतसाध्यपरम्, तथा चयद्यपि व्यञ्जनवत्त्वव्यभिचारित्वस्य स्वव्याप्यीभूतवह्निविशेषव्यभिचारोन्नायकत्वं तथापि न प्रकृतसाध्यव्यभिचारोन्नायकात्वामिति व्याप्तिः। तत्राकाशेत्यादि। अयमाकाशवान् द्रव्यत्वात् इत्यत्र घटः उपाधिः स्यात्, उपाधित्वेन लक्ष्यः स्यात् / तथा चलक्षणं त्वित्यादिना कृतं लक्षणं तत्र न [14B] गच्छतीति अव्याप्तिः स्यादिति भावः / लक्ष्यतावच्छेदकं तु तत्र .गच्छत्येव / यथा द्रव्यत्वं गगनव्यभिचारि गगनात्यन्ताभाववृत्ति घटव्यभिचारित्वात् / यत्र यत्र घटव्यभिचारित्वं तत्र गगनव्यभिचारित्वं पटत्ववत् वृत्तिमत्सु यावत्स्वेव गगनव्यभिचारित्वस्य वर्तमानत्वात् इत्याशङ्कार्थः / ननु घटव्यभिचारित्वस्य व्यर्थविशेषणत्वेन गगनव्यभिचारित्वोन्नायकमित्याह - घटव्यभिचारित्वं हीति / घटव्यभिचारित्वपदार्थं विवृणोति- घटात्यन्ताभावेति।घटात्यन्ताभावः घटानधिकरणघटत्वावच्छिन्नघटात्यन्ताभावववृत्तित्वं वक्तव्यम्, अन्यथा कपालत्वेऽपि घटविशेषाभावववृत्तित्वात् इत्यत्र हेतौ वृत्तित्वात् इत्यस्यैव सार्थकत्वे अधिकंव्यर्थं गगनव्यभिचारित्वस्य वृत्तिमन्मात्रवृत्तित्वात्।वृत्तित्वस्यैवघटव्यभिचारित्वघटकीभूतस्य सार्थकत्वे शेषवैयर्थ्यादिति भावः / ननु व्यभिचारवारकविशेषणमपि व्याप्तिग्रहो (हौ)पयिकतया सार्थकमेव / यनिष्ठेत्यादिना सिद्धान्तितत्वात् सार्थकत्वस्य। तथा चघटव्यभिचारित्वस्य वैयर्थेऽपिगगनव्यभिचारोन्नायकत्वस्य विद्यमानत्वात् अतिव्याप्तिः स्यात् / यद्वा व्यर्थविशेषणत्वमन्वयव्याप्तावेव, न व्यतिरेकव्याप्ताविति। तथा
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy