________________ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पर्यवसितसाध्यव्यापकत्वं नास्ति। तथाहि पर्यवसितं च साध्यं पक्षधर्मताबललभ्यं साध्यम्, पक्षधर्मताबललभ्यं च साध्यं व्यणुकवृत्ति, यत् साध्यं न हि तस्याव्यापकं निःस्पर्शद्रव्यसमवेतत्वं तत्रैव व्यभिचारादिति भावः / न अतिव्याप्तिरिति टीका।अनिःस्पर्शद्रव्यासमवेतत्वे इतिभावः। तथाच द्वयणुकंसावयवं निःस्पर्शद्रव्यसमवेतत्वे जन्यमहत्त्वानधिकरणद्रव्यत्वात् घटवत् इत्यत्रोपन्यस्ते निःस्पर्शद्रव्यसमवेतत्वरूपोपाधौ नातिव्याप्तिरितिभावः / तदुपाधेः पक्षधर्मताबललभ्यद्वयणुकवृत्तिसाध्यस्याव्यापकत्वादित्यर्थः / इति पूर्वपक्षग्रन्थः / ग्रं. 1350 // ।अथोपाधिवादसिद्धान्तः। अत्रोच्यते यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः, लक्षणं तु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वम्, यद्धर्मावच्छेदेन साध्यं प्रसिद्ध तदवच्छिन्नं पर्यवसितं साध्यम्, स च धर्मः क्वचित् साधनमेव, क्वचित् द्रव्यत्वादि, क्वचित् महानसत्वादि, तथाहि समव्याप्तस्य विषमव्याप्तस्य वा साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः स्फुट एव व्यापकव्यभिचारिणः तद्व्याप्यव्यभिचारनियमात्, साधनावच्छिन्न-पक्षधर्मावच्छिन्नसाध्यव्यापकयो: व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव, यथा ध्वंसस्यानित्यत्वे साध्ये भावस्य, वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च, विशेषणाव्यभिचारिणि साधने विशिष्टव्यभिचारस्य विशेष्यव्यभिचारित्वनियमात्। / अथ सिद्धान्तः / कर्तव्येति टीका। करणीयं यद् उपाधिलक्षणम्। लक्षणं तु पर्यवसितेत्यादिना। तस्य लक्ष्यतावच्छेद[क]माह - [14A] सङ्ग्राह्यं लक्ष्यतावच्छेदकम् / ननु अनुमित्यादिलक्षणे लक्ष्यतावच्छेदकानिरूपणेऽपि यथा लक्षणं कृतं तथा प्रकृतेऽपि उपाधिलक्षणं क्रियताम् किं लक्ष्यतावच्छेदकनिरूपणेनेति चेत् तत्रायमाशयः / लक्षणं त्विदामित्यादिना पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वमिति लक्षणं निरूपितम्, तस्य च लक्षणस्य यन्मते सत्प्रतिपक्षोत्थापकतया उपाधेर्दूषकत्वं तन्मते साधनाव्यापकपदं व्यर्थमेव, हृदो वह्निमान् धूमात्.इत्यत्र वह्रिसामग्रीरूपोपाधौ सत्प्रतिपक्षोन्नायकतया तन्मते लक्ष्यत्वेनाभिमते अव्याप्तिश्च स्यात्, तथा च लक्षणं त्वित्यादिग्रन्थोऽपिन सङ्गच्छते। तस्मात् व्यभिचारोन्नायक एव लक्ष्यत्वेनाभिमत इति मन्वानः सत्प्रतिपक्षोत्थापकतया दूषकोपाधिमलक्ष्यत्वेन परिहरन् लक्ष्यतावच्छेदकं प्रकृते निरूपयतीति भावः / यद्यभिचारित्वेनेति टीका / ननु यद्यभिचारित्वेनेति मूले तृतीयायाः को वाऽर्थः ? यदि करणे तृतीया तदा धूमवान् वह्नः इत्यत्र आर्टेन्धनव्यभिचारित्वं न धूमव्यभिचारित्वे कारणम्। धूमव्यभिचारित्वं हि धूमाभाववद्वृत्तित्वम्। तत्र च वृत्तित्वे