________________ 31 उपाधिवादः द्रव्यत्वाभावात् जन्यमहत्त्वानधिकरणद्रव्यत्वाभावोऽभिन्न एवाखण्डः / न हि तत्राभावे जन्यत्वं विशेषणं यस्य वैयर्थ्यमाशङ्क्येत। एकधर्मिणि व्याप्यत्वावच्छेदकधर्माक्रान्ते व्याप्यतावच्छेदकधर्मेतरघटितात्वामेव वैयर्थ्यबीजं यथा नीलधूमत्वमेकस्मिन् धर्मिणि धूमे धूमत्वरूपव्याप्यतावच्छेदकाक्रान्ते नीलधूमत्वरूपव्याप्यतावच्छेदकाक्रान्ततत्सामानाधिकरण्येन घटितत्वं वैयर्थ्यबीजम् / धूमप्रागभावत्वादौ तु धूमत्वादिव्याप्यतावच्छेदकान्तरघटितत्वेऽपि धूमत्वेन सह धूमप्रागभावत्वस्य सामानाधिकरण्यविरहात् धूमत्वं यदि धूमप्रागभावे वर्तेत तदा सामानाधिकरण्यं स्यात्तथा चतत्र सामानाधिकरण्यविरहात्न वैयर्थ्यम्।वैयर्थ्यं हि सामानाधिकरण्यव्याप्यतावच्छेदकान्तरघटितत्वम्। तथाचजन्यमहत्त्वानधिकरणत्वविशिष्टद्रव्यत्वाभावत्वस्यनसमानाधिकरणव्याप्यतावच्छेदकान्तरघटितत्वमिति भावः / यो महत्त्वानधिकरणद्रव्यत्वाभावः स तु भिन्न एव / न हि तेन घटिते जन्यमहत्त्वानाधिकरणद्रव्यत्वाभावः। तस्य [13B] अखण्डाभावत्वादिति भावः / ननु वह्निमान् नीलधूमात् इत्यत्रापि नीलधूमत्वं व्याप्यताक्च्छेदकं भवत्येव, तदेव व्याप्यतावच्छेदकं यद्धर्मावच्छेदेन व्याप्तिर्गृह्यते, तदेव व्याप्यतावच्छेदकं नीलधूमत्वावच्छेदेन व्याप्तिग्रहे न किञ्चित् बाधकम् / तद्वाधकं तु व्यभिचारादिकं तत्र तत्र वर्तत एव / नीलधूमादितिप्रयोगेतुपुरुषस्तु अधिकेन निगृह्यते, तदप्यन्वयव्याप्तावेव न तु व्यतिरेकव्याप्तौ।नीलधूमाभावस्याखण्डाभावतया न वैयर्थ्यमिति पुरुषदोष एव न तु वस्तुदोषः / तथा च प्रकृतेऽपि जन्यमहत्त्वानाधिकरणद्रव्यत्वं व्याप्यतावच्छेदकमेव / व्यभिचारावारकविशेषणस्यापि व्याप्तिग्रहो(हौ)पयिकत्वाच्च सार्थकत्वमिति भावः / अन्यथा अयमभिधेयः प्रमेयत्वात्, प्रमेयत्वमित्यत्र प्रमाविषयत्वमित्यत्र विषयत्वादित्येवास्तु किं पभापदेन इत्यपि वक्तुं सुकरत्वात् तथा च न अभिधेयत्वप्रमेयत्वयोरपि व्याप्तिग्रहः स्यात् / अन्य इति अस्वरसोद्भावनम्, तद्बीजंतु उपाध्युद्भावनपरार्थतया। वस्तुदोषविरहेऽपिपुरुषदोषस्य अधिकत्वरूपस्य तत्र वर्तमानत्वात् तस्य त्वनुद्धार एवेति।अपरइतिअस्वरसबीजम्।यथाजन्यमहत्त्वत्वस्य जातित्वे जन्यमात्रवृत्तित्वेचजन्यमात्रवृत्तित्वजातेर्जन्यतावच्छेदकत्वनियमेन जन्यमहत्त्वत्वस्य जनकतावच्छेदकं मृग्यम्। तत्तु न सम्भवति। न हि बहुत्वं जनकतावच्छेदकम्, व्यवयवारब्धे महद्घटे व्यभिचारात्। तत्रावयवगतमहत्त्वमेव जन्यमहत्त्वम्।न चअवयवमहत्त्वमेव जनकतावच्छेदमस्तु, त्रसरेणौ व्यभिचारात्।अन्यथा तद्धर्मावच्छिन्नंस्य आकस्मिकतापत्तेः(त्तिः) अन्वेति] / टीका द्रव्यपदमिति।यत्र यत्र अनित्यद्रव्यासमवेतत्वंतत्र तत्र निःस्पर्शसमवेतत्वमित्येवास्तु किं द्रव्यपदेनेत्याहसमव्याप्तीति / यन्मते समव्याप्त एव उपाधिः तन्मतमवलम्ब्य द्रव्यपदं दत्तम् / द्रव्यपदाऽदाने तु समव्याप्तत्वं नास्ति, यत्रनिःस्पर्शसमवेतत्वं सत्तादौ तत्र नानित्यद्रव्य(व्या)समवेतत्वम् अनित्ये घटादौ सत्तायाः समवायादिति न समव्याप्तिः / द्रव्यपदे दत्ते तु यत्र निःस्पर्शद्रव्यसमवेतत्वं तत्रा[नित्यद्रव्यासमवेतत्वम्, परमाणौ स्पर्शस्य विद्यमानत्वान्न तत्र निःस्पर्श[द्रव्यत्वाम् अत एव न व्यणुके निःस्पर्शद्रव्यसमवेतत्वमिति भावः / तथा च 1. शब्दादौ / इति प्रतौ टिप्पणी।