________________ 30 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तत्रस्थले द्वयेऽपि पर्यवसितं साध्यं पक्षधर्मावच्छिन्नं साध्यमथ च साधनावच्छिन्नं साध्यं तद्व्यापकत्वात् द्वयोरपि उपाधित्वमिति रत्नकोशकारमते पर्यवसितः अर्थः / एतन्मतं दूषयति - तन्नेति / एवं हीति मूलम् / द्वयणुकं सावयवं जन्यमहत्त्वानधिकरणद्रव्यत्वात् इत्यनेनानुमानेन द्वयणुकस्य सावयवत्वे सिद्धे तद् व्यणुकं पक्ष; अनित्यद्रव्यासमवेतं जन्यमहत्त्वान्य(न)धिकरणद्रव्यत्वात् आकाशवत्। अत्रानुमाने निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् पर्यवसितसाध्यव्यापकत्वात् / तथाहि - पर्यवसितं साध्यं नित्यद्रव्यसमवेतत्वम्, तद्व्यापकत्वं निःस्पर्शद्रव्यसमवेतत्वस्य वर्तते यत्र यत्र नित्यद्रव्यसमवेतत्वं तत्र तत्र निःस्पर्शद्रव्यसमवेतत्वं यथा शब्दे इत्येवं साध्यव्यापकता, साधनाव्यापकता यथा साधनं जन्यमहत्त्वान्य(न)धिकरणद्रव्यत्वं तद्व्यापकता निःस्पर्शद्रव्यसमवेतत्वस्य नास्ति, जन्यमहत्त्वानधिकरणद्रव्यत्वं वर्तते गगने निःस्पर्शद्रव्यसमवेतत्वं नास्ति इति साधनाव्यापकताऽप्यस्तीत्यर्थः। असमवेतत्वेऽपीति टीका। [13AJ व्यणुकस्य सावयवत्वे सिद्धे इति यदि नोच्यते तदा नित्यद्रव्यासमवेतं चेत् तदाऽसमवेतमेवाऽऽयास्यति [इति] कृत्वा असमवेतपर्यवसानवारणाय सावयवत्वे इति उक्तम् / तथा च द्वयणकंसावयवंभवति। अथ चानित्यद्रव्यासमवेतं तदापर्यवसितं नित्यद्रव्यसमवेतमेवेति तद्व्यापकत्वमस्त्येवोपाधेरित्यर्थः। जन्येतीति टीका। जन्यपदकृत्यमाह - अत्रेति। यदिहेतौ जन्यपदं न दीयते तदा महत्त्वान्य(न)धिकरणद्रव्यत्वादित्येव हेतुः पर्यवसितः। तथा च व्याप्तिग्रहस्थलमेव नास्ति यतो महत्त्वानधिकरणद्रव्यत्वं नास्ति / कुतः ? तदभावात् / ननु परमाणुष्वि(ब्वे)व महत्त्वा[?नाधिकरणद्रव्यत्वं वर्तते इत्यत आह - परमाणोः ] एव [आसिद्धीति टीका / तथा च परमाणुरेवासिद्धः / कुत्र महत्त्वा[?न]धिकरणद्रव्यत्वं प्रतीयेत येनानित्यद्रव्यासमवेतत्वरूपसाध्यस्य व्याप्तिग्रहः स्यादित्यर्थः / ननु मनसि महत्त्वानधिकरणद्रव्यत्वं वर्तते अनित्यद्रव्यासमवेतत्वमपि वर्तते, तत्रैव व्याप्तिग्रहो भविष्यति इति किं जन्यपदेनेत्यत आह - मनस इति। तथा चमनसोऽणुत्वासिद्धिदशायां मनोवैभववादिमते मनसि महत्त्वंगगनवत् समागतमेव / तेन मनोऽपिन महत्त्वानधिकरणद्रव्यं येन तत्रानित्यद्रव्यासमवेतत्वस्य महत्त्वानधिकरणद्रव्यत्वेन व्याप्तिग्रहः स्यात् / तथा च जन्यपदे दत्ते महत्त्वानधिकरणद्रव्यत्वस्य गगनादौ प्रसिद्धत्वात् तत्रैव व्याप्तिग्रहः / यद्यपि गगनादौ महत्त्वं वर्तते तथापि तद् महत्त्वं न जन्यं तथा चजन्यत्वरूपविशेषणाभावकृतजन्यत्वविशिष्टमहत्त्वाभावस्य सत्त्वात् तत्र व्याप्तिग्रहः सुकर एवेतिभावः। वस्तुत इति।जन्यमहत्त्वत्वंचजातिरेवसामान्यतो महत्त्वत्वव्याप्यं यथा परममहत्त्वत्वं महत्त्वत्वस्य व्याप्यं तथा च न जन्यपदविशेषणं येन वैयर्थ्यं स्यात् / परमाणुसिद्धिदशायामपि मनसोऽणुत्वसिद्धिदशायामपि जन्यमहत्त्वत्वस्य जातित्वानङ्गीकारेऽपि न क्षतिरित्याह - अखण्डाभाव इति टीका / व्यतिरेकव्याप्तौ यथा यत्रानित्यद्रव्यासमवेतत्वाभावः तत्र जन्यमहत्त्वानधिकरणद्रव्यत्वाभावो घटवत् तत्र च जन्यमहत्त्वानधिकरणद्रव्यत्वाभावो व्यापकः, न हि व्यापके व्यर्थविशेषणं दूषणावह न वा वैयर्थ्यमपि / तथाहि - महत्त्वानधिकरण