________________ 29 उपाधिवादः पाधिरुद्भावनीयः यतो यद्यपि वाद्युक्तसाध्याव्यापकोभवति तथापि पक्षधर्मताबललभ्यं यत् साध्यमनित्यत्वं तस्य व्यापकः कृतकत्वरूप उपाधिर्भवत्येव / तत्र हेतुमाह - दूषाकातेति मूलम् / [12B] दूषकताबीजं यत् सत्प्रतिपक्षोत्थापकत्वाम्]। तेषामेव मते यत्रोपाधिस्तत्रावश्यं व्यभिचार इति उपाधेरवश्यं व्यभिचारव्याप्यता / येषां च मते सत्प्रतिपक्षोत्थापकतया दूषकत्वं तेषां मते व्यभिचारव्याप्यता नास्ति, यथा यत्रोपाधिस्तत्रावश्यं व्यभिचार इति नियमो नास्ति। तथा च शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवानिति अनुमाने व्यभिचारासत्त्वे नोपाधिसत्त्वं विरुद्धमितिभावः / अन्यथापीति टीका।सत्प्रतिपक्षोत्थापकतापक्षेऽपीत्यर्थः / रत्नकोशकारमते शङ्कते - नन्विति। पर्वतो वह्निमान् धूमात् इत्यत्र सदनुमानेऽपि पाषाणवत्त्वमुपाधिः स्यात् / तस्यापि पर्यवसितं साध्यम् / पर्वतीयो वह्निः पक्षधर्मताबलात् पर्वतीय एव वह्निः सिध्यति / यत्र धूमस्तत्र न पाषाणवत्त्वमित्यपि साधनाव्यापकत्वं महानसे व्यभिचारादस्तीति / मध्ये शङ्कते - न चेति / तत्रानुमाने पाषाणवत्त्वमुपाधिर्भवतु। नचसदनुमाने कथमुपाधिरितिवाच्यम्, यथाशब्दोऽनित्यत्वातिरिक्तेत्यत(क्तेत्यादि) सदनुमानेऽपिकृतकत्वमुपाधिः स्यादेव / यथा शब्दोऽनित्यत्वेत्यादि सदनुमाने प्रमेयत्वं हेतुः, तस्याव्यभिचरितस्यापि यथा कृतकत्वलक्षणोपाधिमत्त्वम्, तथा सद्धेतोरपि धूमस्य पाषाणवत्त्वमुपाधिः स्यादित्याशङ्कार्थः / पक्षवृत्तित्वेनेति टीका / प्रमेयत्वहेतौ कृतकत्वोपाधेरस्य पाषाणवत्त्वस्य च महान् विशेषः / यथा कृतकत्वमुपाधिः पक्षे शब्दे नास्ति इति कृत्वा कृतकत्वमुपाधिः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापनक्षमो भवति / पाषाणवत्त्वं च पर्वतेऽपि वर्तते इति न तस्य व्यतिरेकद्वारा सत्प्रतिपक्षोत्थापकत्वं यतः पाषाणवत्त्वस्य पर्वते अभावो नास्तीति / तेन कथं न पर्वतो वह्निमान् पाषाणवत्त्वाभावादित्येवं सत्प्रतिपक्षोत्थापनं कर्तव्यमिति / सत्प्रतिपक्षानुत्थापके पाषाणवत्त्वेऽतिव्याप्तिरिति / रत्नकोशकारमते दोषे सत्येव दूषणान्तरमाहेत्याभासार्थः / एवं हीति टीका। ___ अनेन पक्षधर्मसाधनावच्छिन्नसाध्यव्यापकोपाधिः संगृह्यते तादृशसाध्यस्य पर्यवसितत्वादिति / तन्न। एवं हि द्वयणुकस्य सावयवत्वे सिद्धे द्वयणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरणद्रव्यत्वात् इत्यत्र निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात्, भवति हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यं तस्य व्यापकं साधनाव्यापकं च / किञ्च पक्षधर्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः तदसिद्धौ च कस्य व्यापकः, न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिध्यति यस्य व्यापक उपाधिः स्यादिति। __ अनेनेति मूलम् / पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकमित्युपाधिलक्षणेन पक्षधर्मावच्छिन्नसाध्यव्यापकः अथ च साधनावच्छिन्नसाध्यव्यापकः अनयोरप्युपाधौ सङ्ग्रहः, तयोरपि पक्षधर्मताबललभ्यसाध्यव्यापकत्वात् / तादृशसाध्यस्येति मूलम् / पक्षधर्मतावच्छिन्नसाध्यस्य साधनावच्छिन्नसाध्यस्येत्यर्थः / तथा च