________________ 28 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पर्वतेतरत्वं न भवति / पर्वतीयवह्निः पर्वते तत्र वर्तते [पर्वतेतरत्वं नास्तीत्यर्थः / यद्यपीति टीका। यत्रोपाधिस्तत्र व्यभिचारः इति व्यभिचार उपाधेापको भवति / प्रकृते च शब्दोऽनित्यः इति / यदि प्रकृतानुमाने व्यभिचारो नास्ति कथं यत्र यत्र प्रमेयत्वं तत्रानित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवत्त्वं विद्यते ?, यथा प्रमेयत्वं घटेऽस्ति तत्रापि अनित्यतारिक्तपक्षधर्मातिरिक्तधर्मो भवति घटत्वम्, [12A] तद्वर्तत एव व्यभिचार: इति। तथा चोपाधि र्व्यापको भवति, पर्यवसितपदे न भवतीति। पर्यवसितंसाध्यं पक्षधर्मताबलात्, व्यभिचार: उपाधिव्यापकीभूतः, व्यभिचारनिवृत्तौ उपाधेरपि निवृत्तिः [व्याप्यनिवृत्तिः] व्यापकनिवृत्ताविति न्यायात् / तथा च व्यभिचाराभावे कथमत्रानुमाने उपाधिरित्याशङ्कार्थः / मध्ये शङ्कते - नचेति टीका। प्रकृते व्यभिचारोऽपि वर्तते। कथम् ? यद्यपि अनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवत्त्वेन सह व्यभिचारो नास्ति घटत्वपटत्वादिकमादाय सर्वत्र प्रमेयत्वाधिकाराणे साध्यसत्त्वात् तथापिप्रकृतानुमाने पक्षधर्मताबललभ्यंयत् साध्यं तद्वयभिचारमादाय सोपाधिकत्वमुपपाद्यते तदा धूमस्यापि सोपाधिक]त्वापात्तिः। पक्षधर्मताबललभ्यं साध्यं पर्वतीयवह्निः, तेन समं धूमस्यापि व्यभिचारो वर्तते, यथा यत्र यत्र धूमस्तत्र पर्वतीयवह्रिरिति व्याप्तिर्नास्ति महानसादौ पर्वतीयवह्वेरभावात् इति कृत्वा धूमस्यापि पर्यवसितसाध्येन सह व्यभिचारसत्त्वात् सोपाधिाकात्वं स्यादित्यर्थः / तथापीति। सत्प्रतिपक्षे विरोधमात्रं तत्र प्रयोजकम् / तथा चानेन कृतकत्वरूपोपाधिना व्यभिचारानुमानं पूर्वोक्तयुक्त्या कर्तुं यद्यपि न शक्यते तथापि स्वव्यतिरेकद्वारा उपाधिव्यतिरेकद्वारा सत्प्रतिपक्षोन्नयनं कर्तुं शक्यते, यथा शब्दो नानित्यः अकृतकत्वात् [इत्यत्र] उपाधिर्वर्तते कृतकत्वं तदभावेन साध्याभावसाधनं कर्तुं शक्यते, एव इति कृत्वा कृतकत्वसत्प्रतिपक्षोत्थापकतया प्रकृतानुमाने दूषणत्वंपरंव्यभिचाराभावात् व्यभिचारोन्नायकतया न दूषणत्वमिति रत्नकोशकारमततात्पर्यम् / शङ्कते न चेति / कृतकत्वसोपाधेः स्वव्यतिरेकद्वारा कथं सत्प्रतिपक्षोत्थापकतया दूषकत्वम् ?, यतः शब्दो नानित्यः कृतकत्वाभावात् इत्येव हि सत्प्रतिपक्षोत्थापनम् / तत्र च शब्दे कृतकत्वा[भावा]दिति हेतुः स्वरूपासिद्धः शब्दस्य कृतकत्वादित्याशङ्कार्थः / शब्देति। सत्प्रतिपक्षोत्थापनं तु उपाधिदात्रा कर्तव्यम् / प्रकृते चोपाधिदाता शब्दनित्यतावादी मीमांसकः एव / तन्मते अकृतकत्वादिति न स्वरूपासिद्धः / तन्मते शब्दस्य नित्यत्वेनाकृतकत्वात् इत्यर्थः / अत एवेति / यत एव मीमांसकमते शब्दोऽकृतकः अत एव मीमांसकं प्रति शब्देऽकृतकत्वसाधनं यदि चेत्यनेन ग्रन्थेन अग्रे निकटे आशङ्ग्य निषिध्यते / अन्यथा यदि तन्मते शब्दः कृतकः तदा तं प्रति शब्दे कृतकत्वसाधनमनवसरदुःस्थं स्यादित्यर्थः / यदिचेतीति टीका / यदि चेति स्फुटं व्याख्यानम् / मूलव्याख्याने प्राचां संमतिमाह - तदुक्तमिति मूलम् / वाद्युक्तेति / वादिनोक्तं यत् साध्यमनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवत्त्वंतन्नियमच्युतोऽपि तेन नियमच्युतोऽपि तस्याव्यापकोऽपीत्येव / तथाहि - यत्रानित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवत्त्वं तत्र कृतकत्वमिति नास्ति, गगने व्यभिचारात् / गगने अनित्यत्वातिरिक्तेत्यादिधर्मः शब्द ए(इ)वतद्वत्त्वं वर्ततेएवपरंतत्र कृतकत्वंनास्तीति वाद्युक्तसाध्याव्यापकोऽप्यु