________________ उपाधिवादः वर्तते अथ च पक्षधर्मावच्छिन्नसाध्यव्यापका.न्धनव्यभिचारोऽपि वर्तते इति कृत्वा पक्षधर्मावच्छिन्नसाध्यव्यापकव्यभिचारस्यैवोद्भावनं कर्तव्यं न उपाधेः, व्यभिचारेण सह व्यधिकरणत्वात् / तदव्याप्यतया वेति टीका।उपाधेः विशिष्टसाध्यव्यभिचारो व्याप्यत्वेनेत्यर्थः / कथम् ? यत्र यत्रोपाधिस्तत्र तत्र विशिष्टसाध्यव्यभिचारोव्याप्यत्वेनेत्यर्थः / यत्र यत्रोपाधिस्तत्र विशिष्टसाध्यव्यभिचार इति नास्ति / कथम् ? यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र उद्भूतरूपवत्त्वम् उपाधिर्भवति / स उपाधिर्वर्तते घटे / तत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यभिचारो नास्तीत्युपाधि(धेः) विशिष्टसाध्यव्यभिचाराव्याप्यता / तथा च विशिष्टसाध्यव्यभिचारस्य व्याप्यो यो विशिष्टसाध्यव्यापकव्यभिचारः स एवोद्भावनीयः, परमुपाधिनो(धेर्नो)द्भावनमित्यर्थः। स्यादेतत् पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः / पर्यवसितं साध्यं पक्षधर्मताबललभ्यं यथा शब्दः अनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् मेयत्वात् इत्यत्र पर्यवसितं यत् साध्यम् अनित्यत्वंतस्यव्यापकं कृतकत्वमुपाधिः। यदि चतथैवकृतकत्वमपिशब्दे साध्यते तदाअनित्यत्वमुपाधिः। तदुक्तम् - “वाद्युक्तसाध्यनियमच्युतोऽपिकथकैरुपाधिरुद्भाव्यः पर्यवसितं नियमयन् दूषकताबीजसाम्राज्यात्' इति। __ पर्यवसितेति मूलम् / पर्यवसितं यत् साध्यं तस्य व्यापकत्वे सति साधनस्याव्यापक उपाधिः / पर्यवसितमित्यस्यार्थमाह-पर्यवसितेऽपीति / पक्षाधर्मातेति मूलम् / तथा च पक्षधर्मताबललभ्यं यत् साध्य तस्य व्यापकत्वे साधनाव्यापक उपाधिरित्यर्थः / उदाहरति - यथेतिमूलम्। शब्दः पक्षः।अनित्यत्वातिरिक्ता ये शब्दधर्माःगुणावशब्दत्वसत्तादयः तदतिरिक्तो यो धर्मः तद्वान् इत्तिसाध्यम्।प्रमेयत्वादिति हेतुः।अत्रानित्यत्वातिरिक्तो योधर्मः गुणत्वादिः, तदतिरिक्तो धर्मो भवति घटत्वम् अनित्यत्वंच, तत्रघटत्वंशब्दे बाधादेवन सिध्यति / अर्थात् अनित्यत्वमेव सिध्यतीति।अनित्यत्वं पक्षधर्मताबललभ्यम्, तस्य व्यापकं भवतिकृतकत्वं यत्रानित्यत्वं तत्र [कृतकत्वम्], कृतकत्वमुपाधिः / यदि चेति मूलम् / यदि कृतकत्वमपि शब्दे तथैव साधनीयम् यथा शब्दः कृतकत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् प्रमेयत्वात् इत्याकारेण साध्यते, तदा अनित्यत्वमुपाधिः स्यात्। अत्र पक्षधर्मताबललभ्यं साध्यं कृतकत्वम्, तस्य व्यापकं भवति अनित्यत्वं यत्र कृतकत्वं तत्रानित्यत्वम्, अथ च साधनं प्रमेयत्वं तस्याव्यापकं यथा यत्र यत्र प्रमेयत्वंतत्र तत्र अनित्यत्वमिति नास्तिआकाशे व्यभिचारादित्यर्थः / तथा चेति टीका। बाधानुन्नीतः पक्षेतरः पर्वतेतरत्वादिः तत्र अव्याप्तिर्न भवति। पर्यवसितपदाभावे यथाश्रुते तत्रातिव्याप्तिः भवति, पर्यवसितपदे न भवतीति। पर्यवसितं साध्यं पक्षधर्मताबलात् पर्वतीयो वह्निः, तद्व्यापकं