________________ हेत्वाभासप्रकरणे असिद्धिः 569 व्यभिचारादावसिद्धत्वेऽप्युपजीव्यत्वेन प्राथम्यात् तदुद्भावने वादिनिवृत्तेश्च स स्वत एव दूषकः / तत्र व्याप्त्यसिद्धयर्थमुपाधौ तूद्भाविते विप्रतिपद्यतेऽपि, तस्य दुरूहत्वात् व्यभिचारेणैव तदुन्नयनाच्च / यदि च व्यभिचारादिकमज्ञात्वाऽप्यसिद्धिबुद्धिः तथापि उपधेयसङ्करेऽप्युपाधेरसङ्कर एवेति निरस्तम्। नन्विदं लक्षणं व्यभिचारादावपि तिष्ठतीति व्यभिचारोऽप्यसिद्धेऽन्तर्भूतः स्यादित्यत आह - व्यभिचारादावपीति / तथा च [292 B] व्यभिचारादिकम् असिद्धौ उपजीव्यत्वात् पूथग् दूषणम्, ततोऽसिद्धे नान्तर्भूत इत्यर्थः / व्यभिचारस्य स्वतो दूषकत्वमप्याह - तदुद्भावने इति / यदाऽसिद्धो न ज्ञातो व्यभिचारमात्रमेव ज्ञातं तदापि तेनापि वादिनिवृत्ते स्वतो हेत्वाभासत्वं तस्य / अथ व्यभिचारस्य व्याप्त्याद्यसिद्धोपजीव्यतामाह - तत्रेति / यतो व्यभिचारेण तदुनयनात् असिद्धयुन्नयनात् तथा चासिद्धयुन्नयने व्यभिचारस्योपजीव्यत्वात् पृथग् दूषणत्वम् / व्यभिचारेण कथमसिद्धयुन्नयनमित्यत आह - व्याप्त्यसिद्धयर्थमिति / तथा चोपाध्यभावो व्याप्तिः, तत उपाधिना व्याप्त्यभावानुमानं कर्तव्यम् यथाऽयमनो(नौ)पाधिकत्वरूपव्याप्त्यभाववान् सोपाधिकत्वात् / यद्यपि उपाध्यभावो व्याप्तिस्तदभाव उपाधिरेव तथा च हेतुसाध्ययोरविशेषात् कथमनुमानम् तथापि सोपाधिकत्वं हेतुरुपाध्यभावत्वं तु साध्यतावच्छेदकं तथा च घटत्वघटाभावाभावत्वयोरिव प्रकारभेदात् साध्यसाधनभाव इत्याहुः / तथा चोपाधिना यत्र व्याप्त्यभावानुमानं तत्र विप्रतिपद्यते / उपाधिना व्याप्त्यभावानुमानं सत् शीघ्रं न भवतीत्यर्थः / शीघ्रं कुतो न भवतीत्यत आह - तस्येति / तस्योपाधित्वस्य दुरूहत्वात् साध्यव्यापकत्वसाधनाव्यापकत्वरूपनानापदार्थज्ञानाधीनज्ञानत्वात् इति अस्याः (स्य) उपाध्यपेक्षया व्यभिचारस्य शीघ्रप्रातीतिकत्वात् व्यभिचारापेक्षयोपाधेर्विलम्बप्र(प्रा)तीतिकत्वात् इत्यर्थः / ननु व्यभिचारस्य न सर्वत्र व्याप्त्यभावज्ञानोपजीव्यत्वम्, तेन विनापि 'व्याप्त्यभावज्ञानात् इत्यत आह - व्यभिचारज्ञानं विनापि स्वरूपासिद्धयादिज्ञानसम्भवात् / यदि चेति / तथा च व्यभिचारस्य व्याप्त्यभाव एवान्तर्भावोऽस्तु किं पृथग् हेत्वाभासत्वेन इत्यत आह - तथापीति। तथापि उपधेयेति। उपधेयशब्देन आश्रय एकस्तथाप्यु.पाधेर्दूषकताप्रयोजकस्य भेदात्, यथा एक एवात्मा कर्ता भवति कर्म भवति करणं च भवति / अत्रोपधेयं कर्तृकर्मकरणं चैकं तथापि कर्तृत्वकर्मत्वकरणत्वादयो ये उपाधयस्ते तु भिन्ना भिन्ना एवेत्यर्थः / तद्वत् यद्यपि असिद्धो व्यभिचारश्च एक एव तथापि उपाधेरसङ्कर एव / असिद्धत्वं दूषकताबीजं भिन्नं व्यभिचारत्वं च भिन्नमिति उपाधेरसङ्कर इत्यर्थः। 5. आप्तवाक्यादिना / प्रतौ टिप्पणी।