________________ 568 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका विशेषणावच्छिन्नविशेष्यप्रतियोगिकाभावत्वं तदुभयसम्बन्धप्रतियोगिकाभावत्वं वा प्रत्येकाभावे नास्तीत्यव्याप्तिः / ननु प्रत्येकाभावो नासिद्धिरित्यत आह - अन्यथेति। तेषामिति / प्रत्येकाभावानां व्याप्त्यभावपक्षधर्मताभावतत्सम्बन्धाभावानां हेत्वाभासान्तरतापत्तिः तज्ज्ञानस्य प्रतिबन्धकत्वात् / [अन्यथा यदि असिद्धिमध्येऽन्तर्भावो नास्ति तदा इत्यर्थः। न च विशिष्टाभावधीद्वारा प्रत्येकाभावो दोषो न तु स्वत इति वाच्यम्, प्रत्येकाभावस्य स्वत एव दोषत्वसम्भवात् / वस्तुतो विशिष्टाभावो दोष एव न, प्रत्येकस्य समर्थत्वे तेनैवान्यथासिद्धर्व्यर्थविशेषणत्वात्। . अत्राशङ्कते - न चेति / तथा च व्याप्त्यादिप्रत्येकाभावज्ञानस्य स्वतो दूषकत्वं नास्ति किन्तु तेन यदा विशिष्टाभावोत्थापनं क्रियते तदा एव दूषकत्वम्, तथा च विशिष्टाभावज्ञानद्वारैव दूषकत्वं न तु स्वातन्त्र्येणेति, हेत्वाभासान्तरतापत्ति(ते)रित्यर्थः / दूषयति - प्रत्येकाभावस्येति / तथा च प्रत्येकाभावः स्वत एव दूषणम्, न तु विशिष्टाभावज्ञापनद्वारा दूषकत्वमित्यर्थः / विपरीतमाह - वस्तुत इति / तथा च विशिष्टाभावो दूषणमेव न / यत्रापि विशिष्टाभावो दूषणं तत्रापि प्रत्येकाभाव एव दूषणं न तु विशिष्टाभावत्वेन / प्रत्येकाभावेनैव दूषकतायां विशिष्टाभावस्यान्यथासिद्धेः / व्यर्थेति / तथा च व्याप्त्यवच्छिन्नपक्षधर्मताभावो विशिष्टाभाव इत्यत्र लाघवात् व्याप्त्यभाव एव दूषणमस्तु, लाघवादधिकं व्यर्थमित्यर्थः। .. प्रत्येकाभावमज्ञात्वा न विशिष्टाभावज्ञानमित्युपजीव्यत्वात् विशिष्टाभावानुद्भावनेऽपि प्रत्येकोद्भावने वादिनिवृत्तेच। अत एव व्याप्तिपक्षधर्मताविशिष्टज्ञानविषयाभावत्वं प्रत्येकाभावानुगतमसिद्धत्वम्। दूषणान्तरमाह - प्रत्येकाभावेति / तथा च प्रत्येकाभावमज्ञात्वा न विशिष्टाभावज्ञानं जायते इति प्रत्येकाभावज्ञानमेव दूषणम्, न तु विशिष्टाभावज्ञानम् / प्रत्येकाभावस्य विशिष्टाभावज्ञाने उपजीव्यत्वात् दूषकत्वमित्यर्थः / दूषणान्तरमाह - विशिष्टाभावानुद्भावनेति / व्याप्त्यभावोद्भावने पक्षधर्मताऽभावोद्भावने चेति प्रत्येकाभावोद्भावने वादिनिवृत्तेर्जायमानत्वात् प्रत्येकाभाव एव दूषणं न विशिष्टाभाव इत्यर्थः / मतान्तरेणासिद्धिलक्षणं दूषयति - अत एवेति निरस्तमित्यनेनान्वयः / व्याप्तीति / त्रयाणामनुगमार्थमसिद्धलक्षणमाहव्याप्तिपक्षधर्मतयोः यत् विशिष्टज्ञानं वहिव्याप्यधूमवान् अयम् इति रूपं तद्विषयस्य योऽभाव(वः) (तात्त्वम्, एतच्च व्याप्त्यभावादिषु त्रिष्वप्यनुगतं यतस्त्रयाणामपि व्याप्तिपक्षधर्मतापक्षतावच्छेदकानां त्रयाणां व्याप्तिपक्षधर्मताविशिष्टज्ञानविषयत्वात् तदभावत्वं त्रिष्वप्यभावेषु वर्तते इत्यनुगतं लक्षणम् /