________________ हेत्वाभासप्रकरणे असिद्धिः असिद्धिस्तु न व्याप्तिपक्षधर्मताविरहः, प्रत्येकमननुगमात् / अथ प्रत्येकाभावेऽनुगतो व्याप्तिपक्षधर्मताविशिष्टाभावोऽसिद्धिः, यद्यपि विशिष्टस्यान्यत्वे प्रत्येकाभावाव्याप्तिरपसिद्धान्तश्च अनन्यत्वे प्रत्येकाभाव एव स इत्यननुगम: तथापि विशेषणावच्छिन्नप्रतियोगिको विशेष्याभावो विशेषणविशेष्यसम्बन्धाभावो वा विशिष्टाभावोऽनुगत इति चेत् / न, विशिष्टाभावाज्ञानेऽपि व्याप्त्यादिप्रत्येकाभावज्ञाने उद्भावने चानुमितिप्रतिबन्धो वादिनिवृत्तिश्चेति तत्प्रत्येकाभावाव्याप्तिः, अन्यथा तेषां हेत्वाभासान्तरतापत्तेः। ___ यथाक्रममसिद्धिमाह - असिद्धिरिति / तथा च व्याप्तिविरहो वाऽसिद्धिः पक्षधर्मताविरहो वाऽसिद्धिः / दूषयति - तथा च ह्रदो वह्रिमान् धूमात् इत्यत्र स्वरूपासिद्धे व्याप्तिविरहो नास्ति तत्राव्याप्तिः स्यात्, पक्षधर्मताविरहश्च व्यर्थविशेषणे नीलधूमत्वादित्यत्र व्याप्यत्वासिद्धे नास्तीति परस्परमसत्त्वादननुगमः / अत्राशङ्कतेअथेति। यथा दण्डविशिष्टदेवदत्ताभावः तद्वत् व्याप्तिविशिष्टपक्षधर्मताभावो विशिष्टाभावोऽसिद्धिः / यद्यपीति / विशिष्टम् अतिरिक्तं वा प्रत्येकातिरिक्तं वा ? अतिरिक्तपक्षे विशिष्टाभाव एवासिद्धिर्जाता / प्रत्येकाभावो यः स्वरूपासिद्धो वा व्याप्यत्वासिद्धो वा तत्र तु लक्षणं न वर्तत एवेति / विशिष्टस्यातिरिक्तत्वे दूषणान्तरमाह - अपसिद्धान्तश्चेति। न्यायमते विशिष्टमतिरिक्तं नास्तीति भावः / अनतिरिक्तत्वे दूषणमाह - अनन्यत्व इति। .यदि प्रत्येकाभाव एव विशिष्टाभावः पर्यवसन्नः तदा दूषणमाह - अननुगम इति। व्याप्त्यभावः पक्षधर्मताभावे स्ति. पक्षधर्मताभावो व्याप्त्यभावेनास्तीति भावः / समाधत्ते - तथापीति। विशेषणावच्छिन्नप्रतियोगिकविशेष्याभाव एव विशिष्टाभावः / नवीनमतेनाह - विशेषणविशेष्येति / तथा च प्रथमपक्षे दण्डावच्छिन्नदेवदत्ताभावो विशिष्टाभावः / द्वितीयपक्षे दण्डदेवदत्तोभयसम्बन्धाभावो विशिष्टाभावस्तव दि(इ)त्यर्थः / [[292 A] तथा च यथा दण्डावच्छिन्नदेवदत्ताभावः तदुभयसम्बन्धाभावो वा / अयं विशिष्टाभावो विशेषणाभावविशेष्याभावातत्सम्बन्धाभावेषु त्रिष्वपि अनुगत इति न पूर्वोक्ताननुगमो दोषः इत्यर्थः / दूषयति - विशिष्टेति / तथा च एतादृशविशिष्टाभावज्ञानं नास्ति प्रत्येकाभावज्ञानं च वर्तते तदुद्भावनं वर्तते, तदानीं चानुमितिप्रतिबन्धो जायते इति कृत्वा [आभावरूपासिद्धावव्याप्तिः / न च यत्र प्रत्येकाभावस्तिष्ठति तत्रायं विशेषणावच्छिन्नविशेष्यप्रतियोगिकाभावत्वं तदुभयसम्बन्धप्रतियोगिकाभावो वा तिष्ठत्येवेति वाच्यम् / तथापि