________________ 566 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ननु केवलान्वयिनि सत्प्रतिपक्षः कथं स्यात् [291 B] साध्याभावाप्रसिद्धरित्यत आह - घट इति / सत्प्रतिपक्षमाह - अभिधेयत्वमिति / अभिधेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिजात्यन्यत्वे सति घटमात्रवृत्त्यन्यधर्मत्वात् / अत्र सत्तायां व्यभिचारवारणाय जात्यन्यत्वे सतीति / कम्बुग्रीवत्वे व्यभिचारवारणाय घटमात्रवृत्त्यन्यधर्मत्वादिति / दृष्टान्तो घटान्योन्याभावो जात्यन्यो भवति घटमात्रवृत्त्यन्यधर्मश्च भवतीति घटनिष्ठात्यन्ताभावप्रतियोग्यपि भवति / न हि घटे घटान्योन्याभावः / अत्यन्ताभावपक्षकमनुमानमाह - घटनिष्ठेत्यादि / अभिधेयत्वं प्रतियोगि यस्य / घटनिष्ठान्योन्याभाववादिति। तथा च यत्र यत्र घटनिष्ठात्यन्ताभावत्वं तत्र तत्र अभिधेयत्वप्रतियोगिकत्वम्, यथा घटनिष्ठाभिधेयत्वान्योन्याभावः / ननु अभिधेयत्वे घटनिष्ठात्यन्ताभावप्रतियोगित्वं नास्त्येव बाधात् द्वितीयस्याव्याप्यत्वात् / यथा यत्र घटनिष्ठात्यन्ताभावत्वं तत्राभिधेयत्वप्रतियोगित्वम् एवं नास्ति पटात्यन्ताभावे व्यभिचारादित्यत आह - विशेषेति / न हि वस्तुगत्या व्याप्तिपक्षधर्मतावत्त्वं व्याप्तिपक्षधर्मताप्रमा वाऽपेक्षिता किन्तु व्याप्तिपक्षधर्मतयोनिमात्रम्, तच्च विशेषादर्शनदशायां वर्तत एवेति सत्प्रतिपक्षो भवत्येवेति / न चेति / ननु हि एकस्मिन् पक्षे विरोधिहेतुद्वयोपस्थापने सत्प्रतिपक्षः / प्रकृते च पक्षक्याभावात् कथं सत्प्रतिपक्षतेत्यत आह - न च पक्षक्यमिति। तथा च सत्प्रतिपक्षे विरोध एव दूषकताबीजम्, न तु पक्षक्यमपीति / समाप्तः सत्प्रतिपक्षग्रन्थः / / समाप्तं सत्प्रतिपक्षनिरूपणम्।