________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 565 व्याप्तिज्ञानम्, तदनन्तरं कृतकत्वे पक्षधर्मताज्ञानम्, तदनन्तरं शब्दत्वे व्याप्तिपक्षधर्मताज्ञानम्, तदनन्तरमुभाभ्यामनुभवाभ्यामुभौ संस्कारौ उत्पादितौ, ताभ्यां च संस्काराभ्यां परस्परप्रतिबन्धात् नोभयव्याप्तिस्मृतिरित्येव सत्प्रतिपक्षे दूषकताबीजम् / इदं मतं दूषयति - तन्नेति / यदि उभयसंस्काराभ्यां परस्परप्रतिबन्धात् उभयस्मृतिर्नास्ति तदा सत्प्रतिपक्षावतार एव कथं स्यात्, उभयव्याप्तिज्ञाने एव सत्प्रतिपक्षावतारः / यदि च सत्प्रतिपक्षे व्याप्तिस्मरणं नास्ति तदा परस्परं व्याप्तिभ्यां परस्परप्रतिरोधकहेत्वोर्यद्वयाप्त्यभावोपन्यासः क्रियते स न स्यात्, व्याप्तिज्ञानाभावात् व्याप्त्यभावज्ञानं कुतो भवति ?, तथा च व्याप्तिस्मरणमवश्यमेषितव्यम् व्याप्तिस्मरणाभावोऽत्र दूषकताबीजं नेत्यर्थः / तथा च सत्प्रतिपक्षस्थले दूषकताबीजाभावान्न सत्प्रतिपक्षो हेत्वाभास इति पूर्वपक्षार्थः / हेतुद्वयेति / आदौ उभयोाप्त्योः स्मरणं जातं हेतुद्वयसमूहालम्बनपरामर्शात् तदनन्तरमुभयव्याप्तिस्मरणरूपे विशेषणज्ञाने जाते तदा चोभयव्याप्तिसमूहालम्बनस्मरणरूपविशेषणज्ञानेन वहिवढ्यभावव्याप्यवान् अयम् इति एकपरामर्शरूपं ज्ञानमुत्पद्यते समूहालम्बनरूपोभयपरामर्शसत्त्वात् इति / अत एकदा विरुद्धकार्यद्वयकारणात् नैकमपि कार्यमुत्पद्यते, तादृशपरामर्शश्च स्वार्थानुमाने प्रत्यक्षादित:, परस्य तु वाद्युपन्यस्तन्यायोत्थापितप्रमाणावतारात् / अस्य च केवलान्वयिन्यपि सम्भवः, घटोऽभिधेयः प्रमेयत्वात् इत्यत्राभिधेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगिजात्यन्यत्वे सति घटमात्रवृत्त्यन्यधर्मत्वात् घटान्योन्याभाववत् पटरूपवच्च, घटनिष्ठात्यन्ताभावोऽभिधेयत्वप्रतियोगिकः घटवृत्तिनित्याभावत्वात् घटनिष्ठान्योन्याभाववदिति विशेषादर्शनदशायाम्, न च पक्षैक्यमपि तन्त्रम्, विरोधस्यैव दूषकत्वेऽधिकस्य व्यर्थत्वादिति। ___ उपसंहरति - अत इति / यत उभयसमूहालम्बनरूपपरामर्शो वर्ततेऽतो विरुद्धकार्यद्वयकारणात् एकमपि कार्यं न जायते इति सत्प्रतिपक्षो दूषणम् / स्वार्थानुमानपरार्थानुमानस्थले विषयव्यवस्थामाह - तादृशेति / तादृशं(शः) यत् वहिवल्यभावव्याप्यवानयं पर्वत इति समूहालम्बनरूपः परामर्शः स्वार्थानुमानस्थले प्रत्यक्षात् यथा युगपदुभयपक्षधर्मेन्द्रियसन्निकर्षे सति उभयविशेषणज्ञाने सति चैत्रमैत्रौ दण्डिकुण्डलिनौ इति यत् साध्यसाध्याभावोभयव्याप्यवान् इति समूहालम्बनरूपपरामर्शः प्रत्यक्षाज्जायते / परार्थानुमाने विषयव्यवस्थामाह - परस्येति / तथा च परार्थानुमाने वाद्युपन्यस्तन्यायोत्थापितमेकं यत् प्रमाणम् द्वाभ्यां वादिभ्यां प्रत्येकमुपन्यस्तं यत् प्रमागम् तस्मात् प्रमाणात् समूहालम्बनरूपः परामर्शो जायते इति शब्दप्रमाणात् परामर्शो जायते इति /