________________ 564 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका / ननु परामर्शयोरेकदा अनुत्पादात् कथं प्रतिरोधः ? क्रमोत्पन्नयोरेकदा सत्त्वादिति चेत्, न, एकानन्तरमपरहेतुव्याप्तिपक्षधर्मताज्ञानाभ्यामग्रिमव्याप्तिविशिष्टज्ञानोत्पत्तिकाले पूर्वपरामर्शनाशात् / न चोभयहेतुव्याप्तिपक्षधर्मताज्ञानानां परस्पराप्रतिबन्धात् / परामर्शोत्पाद इति वाच्यम्, व्याप्त्यादिज्ञानचतुष्टयस्य यौगपद्याभावात्। ___ सत्प्रतिपक्षे शङ्कते - नन्विति / यदा कृतकत्वे व्याप्तिपक्षधर्मताज्ञानानन्तरं शब्दत्वे व्याप्तिज्ञानम्, तदनन्तरं पक्षधर्मताज्ञानं च, तथा च शब्दत्वे हेतौ पक्षधर्मताज्ञानकाले कृतकत्वे व्याप्तिविशिष्टपक्षधर्मताज्ञानस्य विनष्टत्वात् कथं सत्प्रतिपक्षावतारो नष्टस्य प्रतिरोधाभावात् इत्याशङ्कार्थः / मध्ये शङ्कते - क्रमेति मूलम् / यथा एकघटज्ञानोत्तरं पटज्ञानकाले घटज्ञानमपि वर्तते पटज्ञानमपि वर्तते। तथा च क्रमोत्पन्नयोरपि घटपटज्ञानयोरेकदा ' सत्त्वं तद्वत् उभयोः क्रमोत्पन्नयोः परामर्शयोरेकदा सत्त्वं स्यादेवेति कथं सत्प्रतिपक्षता नेत्याशङ्कार्थः / एकेति / तथा चादौ कृतकत्वे व्याप्तिज्ञानम्, तदनन्तरं कृतकत्वे एव पक्षधर्मताज्ञानम्, तथा च कृतकत्वे यत् व्याप्तिज्ञानं तत् पक्षधर्मताज्ञानेन स्वस्थितिक्षणे विनाश्यते / एवं शब्दत्वे व्याप्तिज्ञानेन कृतकत्वनिष्ठं पक्षधर्मताज्ञानं विनाश्यते / एवं शब्दत्वनिष्ठपक्षधर्मताज्ञानेन शब्दत्वनिष्ठं व्याप्तिज्ञानं नाश्यते / इति उत्तरोत्तरविशिष्टज्ञानोत्पत्तिकाले पूर्वपूर्वज्ञानानां विनाशात् एकपरामर्शोत्पत्त्यनन्तरमपरपरामर्शोत्पत्तिकाले पूर्वपरामर्शस्य विनाशान्न सत्प्रतिपक्षावतार इत्याशङ्कार्थः / आशयमविद्वान् शङ्कते - न चेति / तथा च साध्यसाध्याभावज्ञानयोर्विरोधो वर्तते इति कृत्वा [291 A] तयोरेकदाऽनुत्पादः तन्निश्चयसामा योः परस्परप्रतिबन्धकत्वात् / प्रकृते उभयहेतुव्याप्तिपक्षधर्मताज्ञानानां परस्परप्रतिबन्धकत्वाभावात् उभयव्याप्तिपक्षधर्मताज्ञानरूपयोः परामर्शयोरेकदा सत्त्वं स्यादेवेति शङ्कार्थः / आशयमविद्वान् दूषयति - व्याप्त्यादीति / तथा चादौ एकस्मिन् हेतौ व्याप्तिज्ञानम्, तदनन्तरं तत्र पक्षधर्मताज्ञानम्, तदनन्तरं द्वितीयहेतौ प्रथमं व्याप्तिज्ञानम्, तदनन्तरं तत्र पक्षधर्मताज्ञानमिति यत् ज्ञानचतुष्टयं तत् एकदा न सम्भवति / ततः कथं तयोः सत्प्रतिपक्षावतारः एकस्य नष्टत्वात्। यत्तु व्याप्तिद्वयसंस्कारोबोधकहेतुद्वयज्ञानयोः परस्परप्रतिबन्धात् नोभयव्याप्तिस्मृतिरिति दूषकताबीजमिति / तन्न, व्याप्तिस्मृतिं विना सत्प्रतिपक्षाभावात् वादिभ्यां व्याप्त्युद्भावनाच्चेति। मैवम् / हेतुद्वयसमूहालम्बनात् युगपदुभयव्याप्तिस्मृतौ उभयपरामर्शरूपं ज्ञानमुत्पद्यते। अत्र मतान्तरसमाधानमाशक्य दूषयितुमाह - यत् त्विति / तथा च एतन्मतहार्द यथा पूर्वं कृतकत्वे