________________ 563 हेत्वाभासप्रकरणे सत्प्रतिपक्षः भवति / कुतो न भवतीत्याह - व्याप्त्यादीति / अलिङ्गत्वज्ञानं तदैव भवति यदि व्याप्त्यादिबुद्धिर्न भवतीति भावः / विपरीतेति / साध्यभावबुद्धिरित्यर्थः / कुत इत्यत आह - स्वसाध्येति। तथा च साध्याभावानुमितिः सत्प्रतिपक्षे न सम्भवति, तथा च हेतुना साध्याभावानुमितिः कर्तव्या सत्प्रतिपक्षे सा न सम्भवति प्रथमहेतौ साध्यव्याप्यवत्तानुमितेर्विद्यमानत्वात् / स्वशब्देन प्रकृतहेतोः साध्यं यथा कृतकत्वस्या(स्य) हेतोरनित्यत्वं साध्यं तद्विपरीतेन तद्विपरीतसाधकेन हेतुनाऽनियमात् नियमेन साध्याभावानुमानासम्भवात् इत्यर्थः साध्यव्याप्यवत्ताबुद्धेर्विद्यमानत्वादिति भावः / नापीति / सत्प्रतिपक्षस्य संशयः फलमित्यपि न / प्रत्येकमिति / यथा उच्चत्वज्ञानेनोभयकोट्युपस्थापनात् संशयः क्रियते तथा एकेन पूर्वेण अग्रिमेण वा हेतुना कोटिद्वयं नोपस्थाप्यते यथा एकस्य साध्योपस्थापनसामर्थ्यं द्वितीयस्य साध्याभावोपस्थापनसामर्थ्यमिति संशयो न फलमिति भावः / तर्हि सत्प्रतिपक्षस्य किं फलमित्यत आह - जिज्ञासा फलमिति / जिज्ञासा यथा कथमत्र तत्त्वनिर्णयः / उभयोर्हेत्वोर्मध्ये किं तत्त्वमिति जिज्ञासा सत्प्रतिपक्षस्य फलमित्यर्थः / ततः सत्प्रतिपक्षस्य किं लक्षणमित्यत आह - तथा चेति / जिज्ञासाजनिका या व्याप्तिपक्षधर्मतोपस्थितिस्तजनके यो हेतुः स प्रकरणसमः / जिज्ञासास्वरूपमाह - प्रकृतेति / प्रकृते ये साध्ये तयोर्यों हेतू तयोर्हेत्वोः किं तत्त्वमिति जिज्ञासा / यथा कृतकत्वशब्दत्वयोर्मध्ये किं तत्त्वमिति जिज्ञासा सा एव फलम् / इदं लक्षणं [290 B] सद्धेतौ नातिव्याप्तमित्याह - न हीति / यदा द्वितीयो विरोधी हेतुर्नोपस्थितस्तदा एकस्मात] जिज्ञासा उक्तरूपा भवतीति न हि / यदा तु विरोधी नोपस्थिति(त)स्तदा एकस्मानिर्णय एव भवतीति भावः / अत्राशङ्कते - अथेति / सा चेति / तथा च जिज्ञासा ज्ञानेष्टसाधनताज्ञानात् / यथा इदं श्लोकज्ञानं ममेष्टसाधनमिति ज्ञानात् श्लोके जिज्ञासा जायते तद्वत् प्रकृते ज्ञानेष्टसाधनताज्ञानादेव जिज्ञासा वक्तव्या न तु सत्प्रतिपक्षात् / तेनेति / इष्टसाधनताज्ञानेन संशयेन वा विना जिज्ञासा कथं स्यात् तथा च सत्प्रतिपक्षा[] जिज्ञासा न भवति, कथं तद्गर्भं लक्षणमित्याशङ्कार्थः / असतीति / तथा च यथा ज्ञानेष्टसाधनताज्ञानात् जिज्ञासा जायते संशयाद् वा जायते तद्वत् सत्प्रतिपक्षस्थले सत्प्रतिपक्षा[त्] जिज्ञासा जायते अनुभवसिद्धान्वयव्यतिरेकयोर्नियामकत्वादित्यर्थः / शङ्कते - न चेति। अनैकान्तिकेऽपि जिज्ञासा जायते इति अनैकान्तिकेऽतिव्याप्तिः / समाधत्ते - तत्र हीति। तथा चानैकान्तिकात् आदौ अन्वयात् व्यतिरेकाद् वा संशयः तद्द्वारा जिज्ञासा जायते / यथा धूमवान् वह्नि(हे)रिति साधारणस्य धूमवति धूमाभाववत्यपि विद्यमानत्वात् धूमसंशयजनकत्वमेवमसाधारणस्थले उभयव्यावृत्तत्वात् संशयजनकत्वं संशयद्वारा च जिज्ञासाजनकत्वम् / अत्रेति / सत्प्रतिपक्षे संशयद्वारा न जिज्ञासा किन्तु हेतुसमीचीनत्वज्ञानद्वारा इति ततो भेदः / इति निबन्धस्थं फलद्वारकं हेत्वाभासानां लक्षणं निरूपितम्।