________________ 562 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका किन्तु ‘कथमत्र तत्त्वनिर्णयः' इति जिज्ञासा फलम्, तथा च प्रकृतसाध्यहेत्वोः किं तत्त्वमिति जिज्ञासानिका व्याप्तिपक्षधर्मतोपस्थितिः प्रकरणसमः। न हि अनुपस्थिते प्रतिपक्षे एकस्मात् जिज्ञासा किन्तु निर्णय एव / अथ ज्ञातुमिच्छा जिज्ञासा सा च ज्ञानेष्टसाधनताज्ञानात् संशयात् वेति कथं तेन विना विरोधिसाधनज्ञानमात्रादिति चेत्, न, असति प्रतिपक्षेन जिज्ञासा सति तु सा इति अन्वयव्यतिरेकाभ्यां प्रकरणसमस्यापि जिज्ञासाजनकत्वात् / न चानैकान्तिकातिव्याप्तिः, तत्र हि संशयद्वारा साध्ये जिज्ञासा अत्र तु हेतुसमीचीनत्वे इति। निबन्धे त्विति। पञ्चाध्यायीमध्ये प्रथमाध्याये टीकोपरि निबन्ध: उदयनाचार्यकृतः / तत्र हेत्वाभासानां फलद्वारकं लक्षणं फलघटितम् / यथाऽनुमानस्य लक्षणमनुमितिर्यस्य फलं तदनुमानं तद्वत् सर्वेषां हेत्वाभासानां फलदार लक्षणम् / यथाऽनैकान्तिकस्य लक्षणम् अन्वयाद् वा व्यतिरेकाद् वा संशयः फलम् / यथा पर्वतो धूमवान् वह्नः इत्यत्र वह्निहेतुधूमवत्यपि वर्तमानो धूमाभाववत्यपि वर्तमानः तथा च धूमवति वर्तमानो धूम साधयति धूमाभाववति वर्तमानो धूमाभावं च साधयति / एवं शच्दो नित्यः शब्दत्वात् अत्र शब्दत्वं नित्यादपि व्यावत्तम् अनित्यादपि व्यावृत्तम्, ततः शब्दत्वं नित्यत्वं वा साधयिष्यति अनित्यत्वं वा साधयिष्यति / असाधारणे उक्तरूपः संशयः फलम् / अनुपसंहारिणि [290 A] तु अनुपसंहारित्वज्ञानादेव साध्यसाध्याभावविषयकः संशयः फलमित्यनैकान्तिके / विरुद्धस्य तु साध्यविपरीतनिश्चयः फलम् / तत्फलको विरुद्ध इति विरुद्धलक्षणम् / ननु घटोऽश्वो गोत्वात् इत्यत्र गोत्वस्य घटेऽपक्षधर्मत्वेन कथमश्वत्वाभावानुमानम् / तथा चापक्षधर्मे विरुद्धे साध्याभावानुमितिजनकत्वं लक्षणमव्याप्तमित्यत आह - अपक्षधर्मेति मूलम् / तथा च न हि प्रकृतपक्षे साध्यविपरीतानुमितिफलकत्वं विरुद्धत्वम् / तथा च गोत्वेन यद्यपि घटे अश्वत्वाभावानुमितिर्न क्रियते अपक्षधर्मत्वात् तथापि गोव्यक्तौ अश्वत्वाभावानुमितिः क्रियत एवेति विरुद्धस्य साध्यविपरीतनिश्चयरूपं फलम् / अथ निबन्धकारो बाधलक्षणमाह - बाध इति मूलम् / विरुद्धे तु तस्मादेव हेतोर्विपरीतज्ञानम्, बाधेऽन्यतो विपरीतज्ञानम्, यथा वह्निरनुष्णः कृतकत्वात् इत्यत्र कृतकत्वहेतुः, हेतुव्यतिरिक्तं यत् प्रत्यक्ष तेनानुष्णत्वाभाव उष्णत्वं तस्य ज्ञानं कृतम्, इति अन्यतो विपरीतज्ञानं बाधस्य फलम् / निबन्धकार: सत्प्रतिपक्षस्य फलमाह - प्रकरणसमेति / सत्प्रतिपक्षे व्याप्तिपक्षधर्मताबाधः फलं न भवति, उभयोर्हेत्वोः व्याप्तिपक्षधर्मताज्ञाने विद्यमाने एव सत्प्रतिपक्षसम्भवात् / नापीति / अलिङ्गत्वज्ञानमपि सत्प्रतिपक्षस्य फलं न