________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 561 मप्यनुमितौ तिष्ठतीति ताभ्यामुभयव्याप्यदर्शनाभ्यां जनिता [289 B] संशयरूपाऽनुमितिरेका कथं न भवेदिति / रत्नकोषकारमते कश्चिद् दूषणं ददाति - यत् त्विति / यदि साध्याभावव्याप्यवत्त्वबुद्धिः साध्यानुमितिं प्रतिबध्नाति [तदा] संशयरूपाऽनुमितिर्नास्तीत्यत्र साधकमाह - अन्यथेति / तथा च अथ शुक्ति(क्ल)त्वव्याप्यशङ्खत्ववान् अयम् इति व्याप्यदर्शनं चेत् पीतत्वानुमितिप्रतिबन्धकं न, तदा तस्मिन् विद्यमानेऽपि तत्त्वानुमितिः स्यात्। तथा चसाध्याव्यापकत्वे(साध्याभाव)व्याप्यज्ञानंचत(चेत्) आ(अ)नुमितिप्रतिबन्धकां(क) मतिं(तर्हि) कथं संशयानुमितिरित्यत्र / अथ साध्याभावव्याप्यबुद्धेः प्रतिबन्धकत्वेऽनुभु(भ)वसिद्धदृष्टान्तमाह - प्रत्यक्ष एवेति / दूषयति - शङ्ख इति / पीतत्वाभावबुद्धिः (द्धेः) पीतत्वानुमितिप्रतिबन्धकत्वं कीदृशम् ? - पीतत्वव्याप्यपरामर्शदशायां तदभावदशायां वा ? नाद्य इत्याह - संशयरूपापीति।नान्त्य इत्याह - तदेति साध्यतदभावनिश्चयः / अथ मूले रत्नकोषकाराभिप्रायो यथा - सत्प्रतिपक्षस्थले साध्यव्याप्यपरामर्शः साध्याभावव्याप्यपरामर्शश्च भवति। ताभ्यामुभयसामग्रीभ्यां जायमानं ज्ञानमुभयानुमितिसंशयरूपं भवति, यथा शब्दोऽनित्यत्वव्याप्यकृतकत्ववान् नित्यत्व(व्याप्य)श्रोत्रग्राह्यत्ववान् अयम् इत्युभयपरामर्शाभ्यांशब्दे नित्यत्वानित्यत्वोभयरूपाऽनुमितिर्जायमानाऽर्थात् संशय एव / ननु प्रत्येकं संशयः यथा एकस्मादुभयदर्शना[त्] स्थाणुर्वा पुरुषो वेति संशयः तथा प्रकृते नेत्यर्थः / दूषयति - तन्नेति / अत्र साध्येत्यारभ्य तन्त्रत्वादिति पर्यन्तम् / अयमर्थः - यथा साध्यज्ञानं साध्याभावज्ञाने प्रतिबन्धकम् साध्याभावज्ञानं वा साध्यज्ञाने प्रतिबन्धकम् तथा साध्यव्याप्यज्ञानमपि साध्याभावज्ञाने प्रतिबन्धकम् एवं साध्याभावव्याप्यज्ञानमपि साध्यज्ञाने प्रतिबन्धकमिति परस्परप्रतिबन्धकत्वात् नैकमपि ज्ञानमनुमितिरूपमिति कथमुभयानुमितिरूपः संशय इत्यर्थः / एतावता रत्नकोषकारमतं दूषितम् / ' निबन्धे तु हेत्वाभासानां फलद्वारकं लक्षणम्। अनैकान्तिकानामन्वयात् व्यतिरेकात् वा कोट्युपस्थापकतया संशय: फलम्, विरुद्धस्य साध्यविपरीतस्य ज्ञानम्, अपक्षधर्मोऽपि विरुद्धोऽन्यत्र विपरीतज्ञानसमर्थ एव, बाधेऽन्यतोविपरीतज्ञानं न तु हेत्वभिमतादेः, घटो नित्यः कार्यत्वादिति विरुद्ध बाधसङ्करेऽप्यदोषः, असिद्धे अनैकान्तिकादिचतुष्टयज्ञानान्यालिङ्गत्वज्ञानम्, बाधे पक्षधर्महेतौ व्याप्तिबाधः / प्रकरणसमे तु न व्याप्तिपक्षधर्मताबाधः फलं नाप्यलिङ्गत्वज्ञानं व्याप्त्यादिवुद्धिसत्त्वात्, नापि विपरीतबुद्धिः स्वसाध्यविपरीतेनानियमात्, नापि संशयः प्रत्येकं कोटिद्वयानुपनयात्, 1. अतः परं केवलं मूलव्याख्याऽस्ति किन्तु टीकाव्याख्या नास्ति।