________________ 560 ___ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नधिकरणज्ञानत्वं ह्रदत्वज्ञानं वर्तत एवेति हृदेऽपि भ्रमरूपाप्यनुमितिर्न स्यात्। सा च वर्तते / एतदेव क्विणोति - साध्याभावेति। उक्तार्थमत्राशङ्कते - न चेति टीका। न हि वस्तुतः साध्याधिकरणानधिकरणं तद(द्)ज्ञानं प्रतिबन्धकं यतो वस्तुगत्या साध्याधिकरणानाधिकरणत्वज्ञाने ह्रदत्वज्ञानेऽपि भ्रमरूपाऽनुमितिर्जायते एव / किन्तु साध्याभावव्याप्यत्वज्ञानमेवानुमितिप्रतिबन्धकम् / ह्रदत्वं तु साध्याभावव्याप्यत्वेन ज्ञातमेव नास्ति, येन च न ज्ञातं तस्यैवानुमिति, येन च ज्ञातं [289 A] साध्य(ध्या)भावव्याप्यत्वेन तस्यानुमितिर्न भवति, सत्प्रतिपक्षे तु साध्याभावव्याप्यत्वज्ञानं वर्तते इति कृत्वा संशयरूपाऽनुमितिर्भवत्येवेत्यर्थः / दूषयति - भवत्विति टीका। तथा च साध्याभावव्याप्यज्ञानत्वेन प्रतिबन्धकत्वं कुत्रापि क्लृप्तं नास्ति। ततस्तेन रूपेण प्रतिबन्धकत्वं कुत्रापि क्लृप्तं नास्ति। यदि च साध्याभावव्याप्यज्ञानं प्रतिबन्धकं स्यात् तदा दूषणमाह - किञ्चेति। यथा स्थाणुत्वाभावव्याप(प्य)करादिमान् अयमितिज्ञाने विद्यमाने आप्तेनोक्तम् अयं स्थाणुरेव तदा स्थाणुत्वज्ञानं न स्यात् स्थाणुत्वाभावव्याप्यज्ञानस्य प्रतिबन्धकस्य विद्यमानत्वात् साध्याभावव्याप्यज्ञानस्य विद्यमानत्वात्। न चेष्टापत्तिः साध्याभावव्याप्यज्ञाने विद्यमाने आप्तवाक्यात्साध्यज्ञानंनजायतएवेतिन चेष्टापत्तिरित्यस्यार्थः। दूषयति-योग्यतेति टीका / आप्तवाक्ये आकाङ्क्षायोग्यतासत्तिज्ञानं चेत् वर्तते तदाऽवश्यं तस्माच्छाब्दज्ञानोत्पत्तिः, ततः साध्याभावव्याप्यज्ञानं प्रतिबन्धकमेव न भवति, ततः साध्यज्ञानं जायत एवेति संशयरूपाऽनुमितिर्भविष्यतीत्यर्थः / सिद्धान्ती शङ्कते - नन्विति टीका। प्रत्यक्षस्थले यास्थाणुत्वपुरुषत्वकोटिस्मृतिः सा कोटिस्मृतिर्न निश्चयत्वावच्छिन्ना सामग्री किन्तु सा ज्ञानमात्रस्यैव सामग्री कोटिस्मृतेः विशेषणज्ञानत्वेन कारणत्वात् / यतः स्थाणुर्वेति संशये विशेष्यः पुरोवर्ती अयम् इति रूपः तत्र स्थाणुत्वपुरुषत्वरूपकोट्योर्विशेषणीभूय भासमानत्वम्, तेन विशेषणज्ञानस्य विशिष्टज्ञानं प्रत्येव कारणत्वम् / तथा च सा ज्ञानमात्रस्य विशिष्टज्ञानमात्रस्यैव सामग्रीति कृत्वा सा यदा साध्याभावव्याप्यज्ञानादिकं प्रतिबन्धकं नास्ति तदा साध्यनिश्चयरूपं ज्ञानं जनयति यदि च तदस्ति तदा संशयरूपं स्थाणुर्वापुरुषो वेति ज्ञानं जनयति। तथा च सैव सामग्री कोटिस्मरणात्मिका यदा निश्चयं जनयति तदा निश्चयसामग्री यदा चान्यत् विरोधिज्ञानादिकं वर्तते तदा संशयमेव जनयति। ततः प्रकृते किमायातमित्यत आह - व्याप्ति(प्य)दर्शनं त्विति टीका।व्याप्यदर्शनं तु निश्चयसामग्री अवधारणात्मिका।पुरुषत्वव्याप(प्य)करादिदर्शनवत् वहिव्याप्यधूमत्वज्ञानं निश्चयसामग्र येव, सा न संशयजनिका। ततः सत्प्रतिपक्षस्थले संशयरूपाऽनुमितिर्न भवत्येवेत्याशङ्कार्थः / समाधत्ते - अवधारणात्मकमिति। तथा चावधारणात्मकत्वं निश्चयात्मकत्वं च। गौरवात्[इति]।अवधारणात्मकत्वे गौरवं निश्चयात्मकत्वे च व्यभिचारः / कथम् ? यथा उभयव्याप्यदर्शनात् संशयस्य जायमानत्वात् न निश्चयत्वं कार्यतावच्छेदकं किन्तु व्याप्यदर्शनजन्यत्वं कार्यतावच्छेदकम्।व्याप्यदर्शनजन्यतावच्छेदकंतु अनुमितित्वमेव, तच्च संशयरूपायामप्यनुमितौ तिष्ठतीति। एतदेवाह - अनुमितित्वं चेति टीका। अनुमितित्वं च संशयरूपाया