________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 559 इदं दूषयति - एकमात्रेति टीका। यत्रैकमात्रकोटिकविशेषदर्शनं तत्रैवसंशयोन भवति, यत्र चोभयकोटिविशेषदर्शनं तत्रावश्यं संशयजनकत्वमेव। तत उभयकोटिकविशेषदर्शने विद्यमानेऽपि संशयो भवत्येव / स्वमते उपष्टम्भकमाह - अन्यथेति टीका / यदि उभयकोटिविशेषदर्शनं संशयजनकं न भवति तदा स्थाण्वादावुभयकोटिविशेषदर्शने विद्यमाने संशयो न स्यादित्यर्थः / अत्र शङ्कते - नन्विति। विरुद्धा या प्रत्यक्षसामग्री यथा स्थाणुत्वव्याप्यवक्रकोटरादिमान् अयमिति रूपा पुरुषत्वव्याप्यकरादिमान् अयमिति रूपा वा(या) प्रत्यक्षा सामग्री तस्या एव संशयजनकत्वम् / ननु सामा यां प्रत्यक्षत्वविशेषणं गौरवग्रस्तमित्यत आह - अन्यच्चेति टीका / विरुद्धस्मृतिसामग्रीतः संशयरूपानुमित्यापत्तेः, यथाघटसंस्कार उद्बुद्धः घटाभावविषयकः संस्कारोऽप्युद्बुद्धः इति विरुद्धस्मृतिसामग्रीसत्त्वात् तत्रापि संशयारूपा स्मृतिः स्यात् / न [288 B] चेष्टापत्तिः, स्मृतेः संशयरूपत्वं कस्यापि मते नास्तीति भावः / दूषणान्तरमाह - विरुद्धेति टीका / तथा च विरुद्धार्थकशब्दस्थले शाब्दः संशयः स्यात्, यथा एकेनोक्तम् शब्दो नित्य: अपरेणोक्तम् शब्दोऽनित्य इति शब्दश्रवणानन्तरं मध्यस्थस्य शाब्दोऽपि संशयः स्यात् / समाधत्ते -एतन्मते इति टीका / तथा चेष्टापत्तिः एतन्मते विरुद्धसामग्रीतः संशयोऽपि शाब्दो भवतु स्मृतिरपि संशयरूपा भवतु / अत्राशङ्कते - नन्विति टीका / यथा शाब्दः संशयः तथा संशयरूपा स्मृतिरप्यङ्गीक्रियते तदा संशयादपि स्थाणुत्वपुरुषत्वोभयविषयकात् संस्कारः स्यात् / स च न सम्भवति / सन्दिग्धार्थात् कुत्रापि संस्कारो नोत्पद्यते, संशयरूपज्ञानात् स्मरणं कुत्रापि नोत्पद्यते / ततः संशयस्य संस्कारजनकत्वं सर्ववादिनिषिद्धम्, तच्च रत्नकोषकारमते स्यात् यतस्तेन विरुद्धसामग्रीतः संशयोऽङ्गीक्रियते इत्याशङ्कार्थः / दूषयति - एतावतेति टीका / विरुद्धानुभवसामग्रीत्वेन संशयजनकत्वमस्तु न तु विरुद्धप्रत्यक्षसामग्रीत्वेन / तथा च विरुद्धानुभवसामग्री वर्तते सत्प्रतिपक्षस्थले इति कृत्वाऽत्रापि संशयरूपा अनुमितिः स्यादेव / अनुभवत्वापेक्षया प्रत्यक्षत्वस्य गौरवग्रस्तत्वात् न विरुद्धप्रत्यक्षसामग्रीत्वेन विरुद्धसामग्र याः संशयजनकत्वम् / अत्र सिद्धान्ती आशङ्कते - नन्विति टीका / प्रत्यक्षे विषये यत् साध्याभावज्ञानं तत् साध्याभावप्रत्यक्षत्वेन प्रतिबन्धकं साध्यज्ञाने, अनुमितौ तु बाधः साध्याभावज्ञानत्वेनैव, तेन साध्याभावज्ञानस्य प्रतिबन्धकत्वं कल्प(ल्प्य)मानेऽभावप्रवेशं त्यक्त्वा साध्याधिकरणानधिकरणज्ञानत्वेन प्रतिबन्धकत्वसम्भवात् साध्याधिकरणानधिकरणज्ञानत्वंसाध्याभावज्ञानेऽप्यस्ति इतिकृत्वा साध्याभावव्याप्यज्ञानमपिसाध्यज्ञाने प्रतिबन्धकमस्तु / तथा च साध्याभावव्याप्यज्ञाने विद्यमाने साध्यसंशयरूपाऽनुमितिः कथं स्यात् ? यतः साध्याभावव्याप्यज्ञानं तत्र प्रतिबन्धकमस्तीति संशयरूपाऽनुमितिः कथं स्यादित्याशङ्कार्थः। दूषयति - जलहद इति टीका।जलह्रदो वह्निमान् धूमात् इत्यत्र यदि साध्याधिकरणानधिकरणज्ञानत्वेन प्रतिबन्धकत्वं तदा जलह्रद इत्यत्र साध्यो वह्निः, तदधिकरणं महानसः, तदनधिकरणं ह्रदत्वम्, तज्ज्ञाने तस्यज्ञाने विद्यमानेभ्रमरूपाप्यनुमितिर्नस्यात्।साध्याधिकरणा