________________ 558 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका . सत्प्रतिपक्षत्वं तदा मास्तु प्रत्यक्षस्य, शब्दस्य तु कुतो न भवति सत्प्रतिपक्षत्वं तस्य तु परप्रमाजनकत्वमस्तीत्यत आह - शब्दस्य तथात्वेऽपीति टीका। परप्रमाजनकत्वेऽपीत्यर्थः / तथा च शब्दस्य परप्रमाजनकत्वेऽपि वादिवाक्यजन्यज्ञानस्याप्रामाण्यशङ्काकवलितत्वेन तज्ज्ञानजनकः शब्दो न तुल्यबलतया सत्प्रतिपक्ष इत्यर्थः / प्रत्येकमिति टीका। तथा च सत्प्रतिपक्षत्वं प्रत्येके वर्तते साध्यतदभावसाधकयोः, असाधारण्यं तु प्रत्येके नास्ति किन्तु समुदितेऽस्ति, समुदिते तु सत्प्रतिपक्षत्वं नास्ति, तथा च यत्रासाधारण्यं तत्र सत्प्रतिपक्षत्वं नास्ति यत्र च सत्प्रतिपक्षत्वं तत्रासाधारण्यं नास्तीति असाधारणविधया सत्प्रतिपक्षस्य दूषकत्वं नास्तीत्यर्थः / रत्नकोषकारमतं दूषयितुमाह - साध्यतदभावयोरिति / मूलं व्याचष्टे - साध्येति। यथा साध्यज्ञानस्य साध्याभावज्ञाने प्रतिबन्धकत्वम् अथ च साध्याभावज्ञानस्य साध्यज्ञाने प्रतिबन्धकत्वं तद्वत् [साध्यव्याप्यज्ञानमपि साध्याभावज्ञानप्रतिबन्धकम् अथ च] साध्याभावव्याप्यज्ञानमपि साध्यज्ञानप्रतिबन्धकम् / तथा चानयोः परस्परप्रतिबन्ध- ' कत्वात्परस्परप्रतिबन्धकत्वस्य विद्यमानत्वात् न साध्यसाध्याभावविषयिणी संशयरूपाअनुमितिरिति मूलार्थः / ननु साध्यज्ञाने साध्याभावज्ञानं यत् बाधज्ञानं तत् प्रतिबन्धकमेव [न भवति] यथा शङ्खो न श्वेतः किन्तु पीत इति चाक्षुषज्ञाने भ्रमरूपे विद्यमानेऽपि शङ्खः श्वेत इति अनमितेरुदयात् शङ्खः श्वेतः शङ्खत्वात् इत्यनुमानात् / ततः साध्याभावज्ञानं [288 A] साध्यज्ञाने प्रतिबन्धकमेव न भवति किन्तु साध्याभावज्ञाने यः प्रमात्वग्रहः स एव साध्यज्ञाने प्रतिबन्धकः। तथा चशङ्खः पीतइतिज्ञानं साध्यम्, श्वेतज्ञानंतस्याभावज्ञाने पीतज्ञानेप्रमात्वग्रहाभावात् पीतज्ञानं श्वेतज्ञाने प्रतिबन्धकं न भवतीति साध्याभावज्ञान प्रतिबन्धकमेव न भवति इत्यत आह - साध्याभाव एव बाधो न तु साध्याभावप्रमा। ननु साध्याभावज्ञानस्य प्रतिबन्धकत्वमेव नास्ति पूर्वोक्तदोषात् इत्यत आह - अप्रामाण्यशङ्केति टीका / तथा चाप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं प्रतिबन्धकम्, तेन यत् पीतज्ञानं तत् अप्रामाण्यशङ्काशून्यं न भवतीति कृत्वा तन्न प्रतिबन्धकम्। तथा च चिन्तामणिकारमते साध्याभावप्रमा बाधः, प्राचीनानां मते अप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं बाधः / न च प्रमात्वमप्रामाण्यशङ्काशून्यत्वं चैकमिति वाच्यम्, प्रमात्वग्रहो भावरूपोऽप्रामाण्यशङ्काशून्यत्वमभावघटितमिति भेदः / तथा च यथाऽप्रामाण्यशङ्काशून्यं साध्याभावज्ञानं बाधस्तथा साध्याभावव्याप्यज्ञानमपि प्रतिबन्धकमित्यर्थः / अत्राशङ्कते - नन्विति टीका / रत्नकोषकारः शङ्कते - विरुद्धनिश्चयेति। यथास्थाणुत्वपुरुषत्वनिश्चियसामर याः प्रत्यक्षस्थले संशयजनकत्वं तद्वत् अत्रापि साध्यज्ञानसामग्रीसाध्याभावज्ञानसामा योरवश्यं संशयजनकत्वकल्पनात् तत्संशयरूपानुमितिर्जन्यत एव। सिद्धान्ती शङ्कते - न चेति टीका। विशेषादर्शनसहिता या निश्चयसामग्री सा एव संशयजनिका, प्रकृते तु विशेषदर्शनं साध्यव्याप्यज्ञानं साध्याभावव्याप्यज्ञानं चास्तीति न तत्र संशयरूपानुमितिजनकत्वमित्याशङ्कार्थः / 1. शब्दस्तुल्यबलाभावात् न सत्प्रतिपक्ष इत्यर्थः इत्याशयः / प्रतौ टिप्पणी।