________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः धूमरूपसद्धेतोरपि सत्प्रतिपक्षत्वमित्यर्थः / अत एवेति टीका / यतो विरोधिपरामर्शः कादाचित्कोऽत एव न सर्वदा हेत्वाभासत्वमित्यर्थः / ननु हेतोर्निर्णयाजनकत्वज्ञानं नानुमितिप्रतिबन्धकं तद्रूषकताबीजं कथं स्यादित्यत आह - न त्विति टीका / वस्तुगत्या निर्णयाजनकत्वं दूषकताबीजं न त्वनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं व्यभिचारादिवत् / कुत इत्यत आह - निर्णयाजनकत्वस्येति टीका / यथा व्यभिचारज्ञानेनानुमितिप्रतिबन्धः क्रियते तत्रानुमित्यजनकत्वज्ञानं न प्रतिबन्धकं किन्तु व्यभिचारादिज्ञानमेव, तद्वत् अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वं च प्रतिहेतुद्वयमेव / ननु अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं प्रतिहेतुद्वयं तथा च एकस्य हेतोरपरत्र हेतावभावात् तद्वत्त्वं हेत्वाभासलक्षणं कथं स्यादित्यत आह - तद्वत्त्वं चेति टीका / तथैवानुमितिलक्षणे उक्तम् - अन्यतरेति टीका / तथा च येन कृत्वा व्याप्त्यादिभङ्गज्ञानमन्यतरस्मिन् भवति तत्र चोपजीव्यं यत् विरोधिव्याप्त्यादिकं तदेव दूषकताबीजं न तु व्याप्त्यादिभङ्गज्ञानमिति सम्पूर्णप्रघट्टकार्थः। बोध्यमिति ग्रन्थपर्यन्तम्। चक्षुषादेश्चेत्युत्तरग्रन्थं योजयति - नन्विति। तथा च चक्षुरादौ लिङ्गत्वाभावात् उभयोर्लक्षणयोरव्याप्तिरित्याशङ्कार्थः / ननु चक्षुरादेश्च यदि न सत्प्रतिपक्षत्वं तदाऽयं घटज्ञानवान् चक्षुर्व(ष्म)त्वात् इत्यत्र चक्षुषः सत्प्रतिपक्षत्वं न स्यात् इत्यत आह - तस्येति टीका। चक्षुरिन्द्रियं यदि सत्प्रतिपक्षस्तदा व्याप्तिपुरस्कारेणैव यथा यत्र चक्षुस्तत्र चाक्षुषज्ञानमिति व्याप्तिपुरस्कारेण सत्प्रतिपक्षत्वं भवति।ननु शब्दे व्याप्तिपक्षधर्मताऽभावात् समानबलत्वंनास्ति, तदभावात् कथं मूलकृतोक्तं शब्दे समानबलत्वे प्रतिरोध एवेत्यत आह - व्याप्त्यादीति टीका। तथा चात्र व्याप्त्यादिरूपबलमभिप्रेत्यैतन्नोक्तं किन्तु व्याप्त्याद्यतिरिक्ताकाङ्क्षायोग्यतादिकं बलम् / अधिकबलेति टीका / शब्दस्याधिकबलत्वं चेज्ज्ञातं तदाऽनुमानस्यैव बाधेऽनुमानं व्यर्थमित्यर्थः [287B] / तादृशेति टीका।व्याप्तिपक्षधर्मतारूपं बलमित्यर्थः / ननु व्याप्तिपक्षधर्मतारूपबलाभावेऽपि अप्रामाण्यशङ्काशून्यं वादिवाक्यजन्यं ज्ञानं तजनकत्वात् शब्दस्येति स्वयमेव शब्दो बलवान् कथं तस्य व्याप्तिपक्षधर्मतारूपबलान्तरस्यापेक्षेत्यत आह - प्रतिवादिवाक्यस्येति टीका। प्रतिवादिवाक्यजन्यं तुज्ञानमप्रामाण्यशङ्काकवलितमितिन तुल्यबलमितिभावः / प्रत्यक्षादिरिति ग्रन्थं योजयति-नन्विति।सत्प्रतिपक्षे यदि सर्वत्र व्याप्तिपक्षधर्मतारूपं बलं विवक्षितं तदा प्रत्यक्षस्य वादे उपन्यासो न स्यात् इत्याभासार्थः / प्रत्यक्षादिति टीका। तथा च वादकथायां यः प्रत्यक्षादेरुपन्यासः सलिङ्गभावेनैव, यथा केनचिदनुमानं कृतंभूतलं घटाभाववत् घटवत्तयाऽनुपलभ्यमानत्वात् इत्यनुामाने] वादिना कृते प्रतिवादी वदति भूतलं घटवत् घटवत्त्वप्रकारकप्रत्यक्षात् इति लिङ्गविधया प्रत्यक्षस्योपन्यासः न तु प्रत्यक्षस्यालिङ्गभावेनोपन्यासोऽस्ति। परप्रमामिति टीका। यस्मिन् प्रमाणे उपन्यस्ते परस्य प्रमा जायते तदेव प्रमाणमुपन्यसनीयम्, तत् प्रमाणं शब्दो वाऽनुमानं वा, न च प्रत्यक्षं परप्रमाणजनकं भवतीति प्रत्यक्षं स्वरूपेण न निरूपणीयम् / ननु प्रत्यक्षस्य परप्रमाजनकत्वाभावात्