________________ 556 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अथ टीका / स्वपरसाधारणत्वादिति फक्किका व्याचष्टे - तथा चेति टीका। ततः किं सिद्धमित्यत आहतथा चेति टीका / अन्यस्य हेत्वाभासान्तरस्यं यथाऽनुमितिप्रतिबन्धकत्वात् उद्भावनं तथा सत्प्रतिपक्षस्याप्यनुमितिप्रतिबन्धकत्वात् उद्भावनं न विरुद्धमिति भावः / प्रतिरुद्धत्वेति ग्रन्थस्य व्याख्यानम् - विरोधीति। ननूभयविरोधिपरामर्शात् परस्परानुमितिप्रतिरोधे सतिप्रतिरुद्धत्वज्ञानंजायतेन तुप्रतिरुद्धत्वज्ञानात्प्रतिरुद्धत्वज्ञानमित्यतो व्याचष्टे - विरोधीति टीका। विरोधिनौ यौ परामर्शी उभयपरामर्शी तयोर्विषयीभवत् यत् प्रतिसाधनज्ञानं प्रतिहेतुज्ञानं यथा वह्निव्याप्यधूमवत्त्वज्ञानं वह्नयभावव्याप्यपाषाणवत्त्वज्ञानं [च] तदनन्तं व्याप्त्यादिभङ्गज्ञानं जायते, तदेव प्रतिरुद्धत्वज्ञानमित्यर्थः / एतद्व्याख्यानस्य बीजमुद्घाटयति - प्रतिरुद्धत्वज्ञानस्येति टीका।स्पष्टोऽर्थः। उभयोरेकत्रेति व्याचष्टे / अत्र पूर्वपक्षिणा प्रथमत उक्तम् - साध्यसाध्याभावयोर्यथा विरोधस्तथा साध्यव्याप्यसाध्याभावव्याप्ययोरपि परस्परं विरोधस्तिष्ठति, तथा च साध्यसाध्याभावयोर्यथा एकत्र ज्ञानं न / सम्भवति तद्वत् साध्यव्याप्यसाध्याभावव्याप्ययोरप्येकत्र ज्ञानं न सम्भवतीति नायं सत्प्रतिपक्षः इत्येकं दूषणम्, द्वितीयं तु भवतु वा निश्चयः तथापि तत्र व्याप्त्यादिभङ्ग आवश्यक इति व्याप्यत्वासिद्धिरेवेति / तत्र मूलकृता द्वितीयदूषणस्यैव उद्धारः कृतो न तुप्रथमदूषणस्येति। तत्र प्रथमदूषणं शङ्कते - नन्विति। तथा चविरोधात् साध्यव्याप्यसाध्याभावव्याप्ययोः परस्परविरोधात् एकत्र निश्चय एव न सम्भवतीति कथं सत्प्रतिपक्ष इत्याशङ्कार्थः / समाधत्ते - हेत्वोरितिटीका।यदा परस्परं हेतो(त्वो)विरोधस्य परिस्फूतिरेवन जाता साध्यसाध्याभावयोर्विरोधश्च स्फुरितः तद्व्याप्ययोर्विरोधोन स्फुरितः तदानीमुभयहेत्वोर्ज्ञाने सति तत्र साध्यसाध्याभावनिरूपितव्याप्तिज्ञानसम्भवे उभयपरामर्शसम्भवात् सत्प्रतिपक्षः सम्भवत्येव / ननु साध्यासाध्याभावायोर्विरोधस्फूर्ती हेत्वोर्विरोधोऽवश्यं परिस्फुरत्येवेत्यत आह - नहीति।नहि साध्यासाध्याभावाविरोधएवहेत्वोर्विरोधः, तथाच साध्यासाध्याभावाविरोधेज्ञातेऽपि भिन्नसामग्रीकत्वात्[साध्यासाध्याभावसाधकहेत्वोर्विरोधज्ञानंन सम्भवत्येव।समाधानान्तरमाह - उभयेति टीका / तथा चोभयपरामर्शानन्तरं साध्यसाध्याभावयोर्विरोधप्रतिसन्धानं जातं पूर्वं न जातं तदा सत्प्रतिपक्षावतार इत्यर्थः / सत्प्रतिपक्षस्थापनान्तरमाह - किञ्चेति टीका / इयं फक्किका पुस्तकान्तरे दृष्ट्वा व्याख्येया। उत्तरग्रन्थयोजनार्थमाभासं ददाति - नन्विति / सद्धेतुळूमरूपः कथं सत्प्रतिपक्षः ?, हेत्वाभासताप्रयोजकस्य[287AJव्याप्त्यादिविरहस्य तत्राभावात्। तथा चयदि व्याप्त्यादिविरहाभावेऽपि सत्प्रतिपक्षत्वं स्यात् तदा सर्वदाधूमः सत्प्रतिपक्षितः स्यादित्याभासार्थः / दूषकताबीजं व्याचष्टे - हेत्वाभासताप्रयोजकं दूषकताबीजं येन कृत्वा हेतोर्हेत्वाभासत्वं भवतीत्यर्थः / अयमिति / हेतुः विरोधिपरामर्शविषयीभवन् अयं धूमरूपो हेतुर्न निर्णयं जनयति, यथा वह्निवह्नयभावव्याप्यधूमपाषाणवान् अयमिति विरोधिपरामर्शविषयीभवन् अयं हेतुर्न निर्णयजनक इत्यर्थः / तथा च निर्णयाजनकत्वात् सद्धेतोरपि हेत्वाभासत्वं न तु व्याप्त्याद्यभावात्, तथा च