________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 555 यथा बाधोऽनुमितौ प्रतिबन्धकः [286 A] तथा साध्याभावसाधिका या सामग्री साऽप्यनुमितौ प्रतिबन्धिका, अतोऽनुमितिरेव न भवति। यदि विरोधिसामा यां विद्यमानायामनुमितिर्जायते तदा बाधेऽप्यनुमितिः स्यादित्याशङ्कार्थः / दूषयति - अधिकबलेति / बाधेऽधिकबलवत्तयाऽनुमितिप्रतिबन्धो] भवतु नाम, सत्प्रतिपक्षे तु तुल्यबलतयोभाभ्यां हेतुभ्यांप्रत्येकमनुमितैः(तिः) संशयरूपास्यादेवेति।अनुमितिप्रतिबन्धस्तु अधिकबलो(ले)नैव क्रियते।सामग्रीसत्त्वात् इति।साध्या(ध्य)साध्याभावोभयरूपसामग्रीसत्त्वात् अनुमितिरुभयसाध्यविषयिणी स्यादेव / अत्र शङ्कते - साध्याभावबोधस्येति मूलम् / तथा च साध्याभावबोधस्यानुमितौ प्रतिबन्धकत्वं न तु तद्बोधकस्य चक्षुरादेः, तथा च निर्णायकत्वेन साध्यसाध्याभावनिर्णायकत्वेनावधारितं यत् विरुद्धव्याप्तिद्वयं तस्मात् संशयरूपा अनुमितिः कथं स्यादित्याशङ्कार्थः / समाधत्ते - प्रत्येकेति मूलम् / प्रत्येकात् साध्यव्याप्यात् वहिव्याप्यात् साध्याभावव्याप्यात् वह्नयभावव्याप्यात् च जायमानं यत् वह्नितदभावोभयज्ञानं तच्चार्थात् संशय एव, न तु प्रत्येकं ज्ञा(जा)यमानं ज्ञानं संशयः, किन्तु उभयसामग्रीसमावेशात् जायमानं समूहालम्बनवत् अर्थात् संशयः, न तु एकस्मात् संशयः, यथा वहिवढ्यभावोभयविषयकं तत्तत्सामग्रीसमाजात् जायमानं ज्ञानं संशयः / नीलघटपदार्थः समाजः, यथा नीलसामा या नीलम्, घटश्च घटसामग्र या, एतदुभयमार्थसमाजसिद्धं नीलघटो भवति उभाभ्यां सामग्रीभ्यां जायमानं ज्ञानं यथा / यथा घटपटोभयज्ञानं समूहालम्बनं तद्वत् अत्र उभाभ्यां सामग्रीभ्यां जायमानं वह्निवह्नयभावज्ञानसामग्रीसमाजात् जायमानं वह्रिवढ्यभावोभयावगाहि यत् ज्ञानं स एव संशयः न तु एकस्मात् संशयः एतदुक्तं भवति। उभाभ्यां सामग्रीभ्यां मिलित्वा [साध्या साध्याभावोभयावगाहिनी याऽनुमिति(स्तद्)रूपमेकं यत् ज्ञानं जायते स एव संशयः, न त्वन्यः / तथा च सत्प्रतिपक्षे या संशयरूपा अनुमितिः सैव दूषकताबीजम् ; निर्णयरूपानुमित्यजननमेव दूषकताबीजम् / दूषयति - तन्नेति मूलम् / साध्येति मूलम् / यथा साध्यज्ञाने साध्याभावव्याप्यज्ञानं प्रतिबन्धकम् / कुतः ? साध्यसाध्याभावयोर्विरोधात्। तथा साध्यसाध्याभावव्याप्ययोः साध्याभावसाध्यव्याप्ययोरपि परस्परविरोधित्वात् / तद्बुद्धेरिति / साध्याभावव्याप्यबुद्धेः साध्यधीप्रतिबन्धकत्वम् / एवं साध्यव्याप्यज्ञानस्य साध्याभावधीप्रतिबन्धकत्वम् / एवं च परस्परप्रतिबन्धात् संशयरूपं ज्ञानं न जायते एव, साध्यव्याप्यज्ञानसाध्याभावव्याप्यज्ञानयोः परस्परप्रतिबन्धकत्वात् उभयजन्यं ज्ञानं संशयरूपं न जायते एव / ननु साध्याभावज्ञानं साध्यज्ञाने प्रतिबन्धकं साध्याभावव्याप्यज्ञानं तु साध्यज्ञाने प्रतिबन्धकमेव नभवतिग्राह्याभावानवगाहित्वादित्यत आह-विरोधिज्ञानत्वस्य चेतिमूलम्। यथा ग्राह्याभावानवग्राहित्वेऽपि [286 B] विरोधिज्ञानत्वेन प्रतिबन्धकता, सा च साध्याभावावगाहिज्ञानवत् साध्य(ध्या)भावव्याप्यज्ञानस्यापि वर्तत इति साध्यज्ञाने साध्याभावव्याप्यज्ञानं प्रतिबन्धकं भवत्येव / तस्मान्न संशयरूपा अनुमिति(तिः) / फलितोऽर्थः।