SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ 554 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावादनुमानस्यैवासम्भवात्। सिद्धान्ती सत्प्रतिपक्षं समर्थयति - मैवमिति। विरोधिवाक्यस्येति।विरोधिवाक्येन सहानुमानस्य सत्प्रतिपक्षोऽसम्भावित एव समबलत्वाभावात्। समबलत्वं कथं नास्तीत्यत आह - उक्तं हीति। व्याप्तीति। न हि वादिवाक्यरूपे शब्दे व्याप्तिपक्षधर्मतारूपं बलं तिष्ठति, तथा च व्याप्तिपक्षतारूपं बलं शब्दे नास्तीति नससत्प्रतिपक्षः। [285B]व्याप्तिपक्षधर्मताबलं हि अनुमाने एवास्तीति। ननु यत्रव्याप्तिपक्षधर्मतारूपं बलं नास्ति तत्र न सत्प्रतिपक्षता, तदा प्रत्यक्षादेः सत्प्रतिपक्षत्वं न स्यादित्यत आह - प्रत्यक्षादेरिति / यत्रापि प्रत्यक्षेण सत्प्रतिपक्षः तत्रापि तस्य लिङ्गभावेनैव सत्प्रतिपक्षः। यथा अयं घटज्ञानाभाववान् व्यासक्तत्वात् अयं घटज्ञानवान् घटसन्निकृष्टचक्षुर्व(म)त्वात् इत्यत्र चक्षुर्लिङ्गविधया सत्प्रतिपक्षः न तु चक्षुःस्वरूपेण। कुत इत्यत आह - कथायामिति मूलम् / न हि चक्षुषः स्वरूपसतो व्याप्तिपक्षधर्मताशून्यस्योपन्यासः कर्तुं शक्यः / अत एवोक्तं चक्षुरनुमाने स्वरूपेण सत्प्रतिपक्षो नभवति, यदिचभवति तदा लिङ्गविधया इतिभावः।सत्प्रतिपक्षस्थापकं मतान्तरं दूषयति - यत् त्विति मूलम् / तथा च विरोधिव्याप्यद्वयं यथा वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इति द्वयं यत् वर्तते तत् असाधारणं वर्तते। तथाहि इदं यत् द्वयं धूमवत्त्वपाषाणवत्त्वरूपं द्वयं समुदितमसाधारणं भवति। उभयं सपक्षात् व्यावृत्तं विपक्षाच्च व्यावृत्तम्।धूमस्य सपक्षो महानसम्, पाषाणवत्त्वस्य सपक्षो हदः। न च महानसहदयोरुभयं वर्तते इति ततोऽसाधारणे संशयजनकत्वं दूषकताबीजम्, तदेवात्र दूषकताबीजमिति / असाधारणे एवेति। द्वित्वावच्छिन्नपक्षमात्रवृत्तित्वात् इदं द्वयमसाधारणम् / दूषयति - तन्नेति मूलम् / एकैकमिति मूलम् / न हि द्वित्वावच्छिन्नं सत्प्रतिपक्षः किन्तु एकैकमेव सत्प्रतिपक्ष इति नासाधारण्यमेकैकस्य सपक्षव्यावृत्तत्वाभावात् इत्यर्थः / मतान्तरमाह - अनुमितिद्वयस्येति मूलम्। तथा च पाषाणवत्त्वेन या वह्नयभावानुमिति निताधूमवत्त्वेन चयावयनुमिति निता इत्यनुमितिद्वयस्यप्रामाण्यग्राहकमानस्याप्रवृत्तिर्यतस्तत्रेदं प्रमाणमिदं चे(च) [ने]ति निर्णयः कर्तुं न शक्यते इत्यनुमितिद्वयस्य प्रामाण्यग्राहकमानाप्रवृत्तिरेव सत्प्रतिपक्षे दूषकताबीजमित्यर्थः / दूषयति- तन्नेतिमूलम्। परस्परप्रतिबन्धेनेतिमूलम्।परस्परानुमितिप्रतिबन्धेनानुमितिरेव नोत्पद्यते कुतस्तदनन्तरभाविप्रामाण्यग्राहकाप्रवृत्तिः।यदि अनुमितिरुत्पन्नास्यात् तदा तत्रप्रामाण्यग्राहकाप्रवृत्तिवक्तव्या, सैवन जातेति कुतस्तत्प्रामाण्याग्राहकत्वमित्यर्थः। सत्प्रतिपक्षे दूषकताबीजं रत्नकोषकारोक्तमन्यत् य(त्) दूषयितुमाह - सत्प्रतिपक्षाभ्यामिति। तथा चोभाभ्यां सत्प्रतिपक्षाभ्यां प्रत्येकं स्वसाध्यानुमितिः संशयरूपा पूर्वं जन्यते, तथा वह्निमान् वन्यभाववान् वेति संशयरूपानुमितिर्जन्यते / कुत इत्यत आह - विरुद्धेति मूलम् / विरुद्धोभयज्ञानसामा योः स्थाणुत्वपुरुषत्वोभयज्ञानसामा योः संशयजनकत्वस्य दृष्टत्वात् / एतावान् परं विशेषो यतस्तत्र विरुद्धोभयज्ञानसामग्री प्रत्यक्षरूपा प्रकृते तु आनुमानिकीति / तथा चोक्तरूपसंशयद्वाराऽस्य दूषकत्वं सिद्धम्, संशयजनकत्वमेव दूषकताबीजम्।अत्र शङ्कते - नचेति। अनुमितिस्तु संशयरूपैव न भवति।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy