________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 553 न सम्भवति, यदि साध्याभावव्याप्यनिश्चयस्तदा साध्यव्याप्यनिश्चयो न सम्भवति, यदि चोभयसाधकहेत्वोर्निश्चयस्तदानोभयत्रव्याप्तिज्ञानं किन्त्वेकत्रावश्यं व्याप्तिसंशयो भवति तदा चव्याप्तिसंशयात् व्याप्यत्वासिद्धिरेव दोषो न तु सत्प्रतिपक्ष इत्याशङ्कार्थः / समाधत्ते - उभयोरिति। उभयोः साध्यसाध्याभावयोः साध्ययोः व्याप्ययोरेकत्र पक्षे भ्रमादविरोधज्ञानदशायां ज्ञाने जाते सति सत्प्रतिपक्षत्वं पश्चात् विरोधस्फुरणदशायां व्याप्तिसंशयस्तेन व्याप्तिसंशये सत्प्रतिपक्षस्योपजीव्यत्वात् पृथग्हेत्वाभासत्वं तथा व्याप्यत्वासिद्धावुपजीव्यत्वात् सत्प्रतिपक्षत्वम्। अथ सत्प्रतिपक्षयोः किं दूषकताबीजमित्यत आह - समबलेति।सत्प्रतिपक्षयोर्द्वयोः समबला या सामग्री यथा वह्रिव्याप्यधूमवत्त्वज्ञानं वन्यभावव्याप्यपाषाणवत्त्वज्ञानं चेतिरूपातया परस्परप्रतिबन्धेन यत् निर्णयाजनकं तदेव दूषकताबीजम् / परमतं दूषयति - न तु व्याप्तिपक्षधर्मताविरह [285 A] इति। तथा सति यदि वस्तुगत्या व्याप्तिपक्षधर्मताविरहश्चेदत्र दूषकताबीजं स्यात् तदा सद्धेतोः सत्प्रतिपक्षत्वं न स्यात् अत्र व्याप्त्यादिभङ्गोपस्थिति स्ति।व्याप्तिभङ्गज्ञानद्वाराऽप्यस्य दूषकत्वं निराकरोति - एकत्रेतिमूलम्।तथा चयदि व्याप्तिभङ्गज्ञानद्वाराऽस्य दूषकत्वं तदा व्याप्तिभङ्गज्ञानेऽपिसत्प्रतिपक्षस्योपजीव्यत्वात् दूषकत्वंवक्तव्यम्।ततआवश्यकत्वात् सएव दोषोऽस्तु किंव्याप्त्यादिभङ्गज्ञानेनेत्यर्थः / ननु विरोधिव्याप्त्यादिसामग्रीसमवधानवशात् यदि सत्प्रतिपक्षस्य दूषकत्वं तदा चक्षुरादौ सत्प्रतिपक्षे दूषकताबीजाभावात् सत्प्रतिपक्षत्वं न स्यादित्यत आह - चक्षुरादेश्चेति मूलम् / चक्षुरादिकमनुमाने सत्प्रतिपक्षो न भवत्येव किन्तु हेत्वोरेव सत्प्रतिपक्षत्वं न तु चक्षुरनुमानयोः / कुत इत्यत आह - तदुपस्थितावपीति मूलम् / अनुमानोपस्थितावपि चक्षुरादेः सकाशात् फलदर्शनेनानुमानापेक्षया चक्षुरिन्द्रियस्याधिकबलत्वात् नानुमानं चक्षुषि सत्प्रतिपक्षः] श्वैत्यव्याप्यशङ्खत्वदर्शने विद्यमानेऽपि चक्षुषा श्वैत्याभावज्ञानोदयात् / अत्राशङ्कते - नन्वेवमिति मूलम् / तथा च वादस्थले सत्प्रतिपक्ष एव सर्वत्र स्यात् न तु कुत्राप्यनुमितिः स्यात् वादिवाक्यस्य प्रतिरोधस्य विद्यमानत्वात् / अत्राशङ्कते - न चेति मूलम् / विरोधिवाक्यं प्रतिवादिवाक्यम्, तच्च यदि न्यूनबलं तदा तत्र लक्षणमेव नास्ति समानबलयोरेव सत्प्रतिपक्षत्वात्, यदि प्रतिवादिवाक्यस्य समानबलत्वं तदा सप्रतिरोधः सत्प्रतिपक्षे एवेति इष्टापत्ति, यदि तस्याधिकबलत्वं तदा नरः (र)शिरःशौचानुमानवत् शब्देनानुमानस्यैव बाधः प्रबलत्वात् न तु अनुमानेन शब्दस्यापि बाधः शब्दस्य प्रबलत्वात् यथा नरशिरः शुचि प्राण्यङ्गत्वात् इति अनुमानं यथाऽधिकबलेन शब्देन बाध्यते तथा प्रतिरोधकं वादिवाक्यं चेदधिकबलं तदा तेनानुमानस्य बाध एव भविष्यति न तु सत्प्रतिपक्षः / दूषयति - अगृह्यमाणेति। यत्रानुमानापेक्षया शब्दे विशेषो गृहीतो नास्ति तदा प्रतिवादिवाक्येन सर्वस्याप्यनुमानस्य प्रतिरोधापत्तेः / एतदेव विवृणोति - अनुमानेति / अनुमानात् पूर्वं पश्चात् वा न्यूनाधिकत्वबलानिरूपणात् तथा चानुमानेऽपि शब्दः सत्प्रतिपक्षः स्यादेव / यदि चानुमानापेक्षया शब्दे न्यूनबलत्वमधिकबलत्वमवगतं तदाऽनुमानमेव व्यर्थं शब्देन प्रतिरोधा