________________ 552 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका नुमितिसामग्रीविघटकत्वेनावधारणात् अन्यथा बाधेऽप्यनुमित्यापत्तेरिति वाच्यम् / अधिकबलतया बाधेन प्रतिबन्धात् तुल्यबलत्वादनुमिति: स्यादेव सामग्रीसत्त्वात् / साध्याभावबोधस्य च तत्र प्रतिबन्धकत्वं न तु तद्बोधकस्य चक्षुरादेः / प्रत्येक निर्णायकत्वेनावधारितात् कथं संशय इति चेत्, न, प्रत्येकाद्धि ज्ञानमुत्पद्यमानमर्थात् संशयो न तु प्रत्येकं संशयजनकत्वमिति मेने, तन्न / साध्यतदभावयोर्विरोधेन यथैकज्ञानस्यापरधीप्रतिबन्धकत्वंतथासाध्याभावव्याप्यवत्त्वस्यापिसाध्यविरोधित्वात तदुद्धरपि साध्यधीप्रतिबन्धकत्वात् विरोधिज्ञानत्वस्य प्रतिबन्धकत्वे तन्त्रत्वात्। . अथ मूलव्याख्या। मूले आशङ्कते - अथेति। एकं वस्तु पर्वताख्यं वह्निमत् वह्नयभाववच्च न सम्भवति / ततोऽवश्यं वह्निव्याप्यपक्षधर्मतावत् स्थास्यति वह्नयभावव्याप्यपाषाणवत्त्ववत् वा स्थास्यति न तूभयं विरोधात् इति युक्त्या उभयोर्मध्ये एकत्रव्याप्तिपक्षधर्मताभङ्गोऽवश्यं वक्तव्यः, तथा चान्यतरव्याप्तिपक्षधर्मताभङ्गः स एव दूषणं प्रतिबन्धकं भवतु न तु सत्प्रतिपक्षः एषा बुद्धिर्वादिप्रतिवादिमध्यस्थानां सम्भवति। मध्ये शङ्कते - न चेति मूलम् / यदा परस्परं साध्ययोर्विरोधो न ज्ञातः परस्परं हेत्वोर्वा विरोधो न ज्ञातस्तदानीं व्याप्तिपक्षधर्मताभङ्गज्ञानाभावात् सत्प्रतिपक्ष एव दूषणमित्याशङ्कार्थः [284 B]।समाधत्ते - अविरोधेति मूलम्। यदि परस्परं साध्ययोर्हेत्वोर्वाऽविरोधस्तदाऽनुमितिरेव भवतु, उभाभ्यां समूहालम्बनरूपाअनुमितिः कर्तव्या, कुतः सत्प्रतिपक्षः ? यदि तयोर्विरोधस्तदा व्याप्त्यादिभङ्गनियम आवश्यकस्तदापि सत्प्रतिपक्षो न भवति समानबलत्वाभावात् / अयं भावः - उभयोरविरोधेऽनुमित्यापत्तिः, विरोधे व्याप्त्यादिभङ्गनियमात् सत्प्रतिपक्ष एव न भवेदित्यर्थः / समाधत्तेप्रतिरुद्धेति / पूर्व प्रतिरुद्धत्वज्ञानं सत्प्रतिपक्षज्ञानं तदनन्तरं व्याप्त्यादिभङ्गज्ञानं जायते इति सत्प्रतिपक्षस्य व्याप्त्यादिभङ्गज्ञाने उपजीव्यत्वात् सत्प्रतिपक्षो दोषः / अयं भावः - पूर्वं सत्प्रतिपक्षास्तेनानुमितिप्रतिबन्धः, पश्चात् सत्प्रतिपक्षज्ञानानन्तरं व्याप्त्यादिभङ्गोऽत्रावश्यकः इति ज्ञाने सत्प्रतिपक्षस्य तदनन्तरभावित्वात् तस्येति सत्प्रतिपक्षः सिद्ध एवेत्यर्थः / अत्र दृष्टान्तमाह - व्यभिचारवदिति / यथा व्यभिचारे विद्यमाने व्याप्त्यादिभङ्गज्ञानमावश्यकं तथा च व्याप्त्यादिभङ्गज्ञाने यथा व्यभिचार उपजीव्यः तद्वत् व्याप्त्यादिभङ्गज्ञाने सत्प्रतिपक्षोऽप्युपजीव्यत्वात् दूषणमित्यर्थः / अत्र शङ्कते - नन्विति। यथा साध्यतदभावज्ञानमेकत्र विरुद्ध साध्यवति ज्ञाते साध्याभाववज्ज्ञानासम्भवात्, एवं साध्यव्याप्यवज्ज्ञाने सति साध्याभावव्याप्यवज्ज्ञानमपि न सम्भवति, तथा च विरोधात् उभयोः साध्यव्याप्यसाध्याभावव्याप्ययोरेकत्र निश्चय एव न सम्भवति किन्तु संशय एव, यदि हेत्वोनिश्चयस्तदोभयत्र व्याप्तिज्ञानं न सम्भवति। अयमर्थः - यदि साध्यव्याप्यनिश्चयस्तदा साध्याभावव्याप्यनिश्चयो