________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 551 यथा दाहोत्पत्तिकाले मणिमन्त्राद्यभावोऽपेक्षितः तद्वत् वह्नयभावव्याप्यपाषाणवान् अयमिति परामर्शस्यानुमितिकाल एवाभावोऽपेक्षितः तदानीं परामर्शस्यैव विद्यमानत्वात्।। ___ अथवस्तुनोऽद्वयात्मकत्वात् व्याप्तिपक्षधर्मताभङ्गएकत्रावश्यक इति स एव दोषः। नचतयोर्विरोधभङ्गेऽप्युपपत्तेर्न व्याप्त्यादिभङ्गनियमइति वाच्यम्।अविरोधेऽप्यनुमित्यविरोधात् विरोधेतुव्याप्त्यादिभङ्गनियमादितिचेत्, न, प्रतिरुद्धत्वज्ञानानन्तरंव्याप्त्यादिभङ्गज्ञानमित्युपजीव्यत्वेन व्यभिचारवदस्यापि दोषत्वात् / ननु साध्यतदभावयोरिव तद्व्याप्यत्वेनावधारितयोर्विरोधादेकत्रन निश्चयः किन्तु संशयः, निर्णयेवान्यतरव्याप्तिसंशय इति व्याप्यत्वासिद्धिरिति चेत्, न, उभयोरेकत्र निश्चयानन्तरमन्यतरव्याप्तिसंशय इत्युपजीव्यत्वेनास्य भिन्नत्वात् दूषकताबीजं तु समबलविरोधिसामग्रीप्रतिबन्धेन निर्णयाजनकत्वम्, न तु व्याप्तिपक्षधर्मताविरह एव सद्धेतोरपिसत्प्रतिपक्षत्वात्, एकत्र व्याप्तिभङ्गज्ञानद्वारा वास्य दूषकत्वम्, चक्षुरादेश्च नानुमानेन प्रतिरोधः तदुपस्थितावपि फलदर्शनेन तस्याधिकबलत्वात् / नन्वेवं वादिवाक्यमात्रस्य प्रतिरोधकत्वेनानुमानमात्रोच्छेदः / न च विरोधिवाक्यस्य न्यूनबलत्वे लक्षणायोगः समबलत्वे प्रतिरोध एव अधिकबलत्वेनरशिरःशौचानुमानवत्तेन बाधएवेति वाच्यम्।अगृह्यमाणविशेषदशायां प्रतिवादिवाक्येन सर्वानुमानप्रतिरोधापत्तेः, अनुमानात् पूर्वं पश्चाद् वा अनुमानान्तरेण तस्य न्यूनाधिकबलत्वानिरूपणात् निरूपणे वानुमानवैयर्थ्यात् मैवम् / विरोधिवाक्यमात्रस्य समबलत्वाभावात्, उक्तं हिव्याप्तिपक्षधर्मते बलमिति।प्रत्यक्षादेर्लिङ्गभावेनैवानुमानप्रतिरोध: कथायां तदुपन्यासानहत्वात् / यत्तु विरोधिव्याप्यद्वयस्यासाधारणत्वात् संशयजनकत्वं दूषकताबीजमिति तन्न / एकैकं हि सत्प्रतिपक्षं न तु विशिष्टम् एकैकंचन संशायकमित्यनुमितिद्वयस्यप्रामाण्यग्राहकाप्रवृत्तिर्दूषकताबीजमित्यन्ये, तन्न, परस्परप्रतिबन्धेनानुमितेरेवानुत्पत्तेः / रत्नकोषकारस्तु सत्प्रतिपक्षाभ्यां प्रत्येकं स्वसाध्यानुतिः संशयरूपा जन्यते विरुद्धोभयज्ञानसामग्याः संशयजनकत्वात् संशयद्वारा अस्य दूषकत्वम् / न च संशयरूपा नानुमिति: बाधस्येव विरोध्युपस्थितेर