________________ 550 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका अतोऽत्र विरोधिबोधकशब्देन विरोधिबोधफलोपहितत्वं विवक्षितम्, तथा च सत्प्रतिपक्षौ यद्यपि परस्पर विरोधिबोधजनने स्वरूपयोग्यौ भवतः परं फलोपहितौ न भवतः, परस्परं सत्प्रतिपक्षाभ्यामनुमितिप्रतिबन्धात् विरोध्यनुमितिर्न क्रियते इति कृत्वा विरोधिबोधफलोपहितान्यत्वं वर्तते एव, तेनासम्भवदोषो नास्तीत्यर्थः / नन्विदं तथापिकेवलान्वयिनिसत्प्रतिपक्षे यद्यपिसाध्यविरोधीनास्ति अव्याप्तं तत्र साध्यविरोधिनोऽप्रसिद्धरित्यत आह - तदर्थोऽपीति टीका। तथा च विरोधी यो बोधस्तदुपहितान्यत्वम्। ततः केवलान्वयिनि सत्प्रतिपक्षे यद्यपि साध्यविरोधी नास्ति अभिधेयत्वाभावस्याप्रसिद्धेः, परं विरोधिबोधस्तु वर्तते, साध्ये पक्षवृत्तित्वाभावविषयको विरोधिबोधस्तिष्ठत्येवेतिनाव्याप्तिः। नन्वत्रगमकतौपयिकं रूपं किमित्यत आह - व्याप्तिपक्षधर्मतेति टीका। ननु तथापि पूर्वोक्तरीत्याआत्ममनसोरतिव्याप्तिरित्यत आह - अत्रापीति। तथा चलिङ्गपदं व्याप्तिपक्षधर्मतया .. ज्ञातत्वपरम् आत्मादेस्तु व्याप्तिपक्षधर्मतया ज्ञातत्वं नास्ति अवृत्तित्वात् तदभावः / मतान्तरं दूषयति - यत् त्विति टीका। विरोधीत्यत्र लिङ्गपदं यद्यपि नास्त्येव यदि चक्षुरादिकमपि अनुमाने सत्प्रतिपक्षो भवति, यथा अवह्निमान् धूमात् इति अनुमानं चक्षुःप्रवृत्तं वयभावज्ञापनार्थमिति चक्षुः सत्प्रतिपक्षं भवति परं तत्र लक्षणाव्याप्तिर्भविष्यति चक्षुषो लिङ्गत्वाभावात् इति कृत्वा चक्षुषोऽपि सत्प्रतिपक्षत्वसङ्ग्रहार्थं लिङ्गपदमत्र लक्षणे नोक्तमित्यर्थः / एतत् व्याख्यानं [284A] दूषयति- तन्नेति टीका।यद्यपि चक्षुःसङ्ग्रहार्थं लिङ्गपदं त्यक्तं तथापि / लिङ्गपदे त्यक्तेऽपि चक्षुषि लक्षणं न वर्तते। कथम् ? चक्षुषि गमकतौपयिकतया ज्ञायमानत्वमेव नास्ति। चक्षुः ज्ञातं सदेव न प्रतिबन्धकमिति तत्राव्याप्तिस्तदवस्थैवेति तत्परिहारः ।अत्रैवानुकूलमाह - अग्रे इति टीका / तथा चाग्रे मूलकारेण तन्मतं दूष्यमेव, तेन चक्षुषाऽनुमानं सत्प्रतिपक्षो न भवत्येवेति मूलकाराभिधानात्। ततस्तस्य अलक्ष्यत्वात् नाव्याप्तिस्तत्रेति भावः। ननु एकदा निरन्तरयोर्वेति मूलमनुपपन्नम्। यत्रैकदा समूहालम्बनरूपोभयपरामर्शोत्पत्तिः यथा धूमपाषाणौ वह्निवह्नयभावव्याप्यौ इति समूहालम्बनरूप: परामर्शस्तत्राव्यवधानेन क्रमिकत्वं कथं स्यात् एकदैवोभयपरामर्शसत्त्वादित्यत आह - एकदेति टीका। तथा चनात्राव्यवस्थितो विकल्पः किन्तु व्यवस्थित एव, तथा च क्वचिद् एकदा परामर्शयोरुत्पत्तिः क्वचित् क्रमेणेति व्यवस्था ज्ञेया। अत्राशङ्कते - न चेति / यत्र क्रमिकस्थले प्रथमं वह्निव्याप्यधूमवांश्चायमिति परामर्श उत्पन्नस्तदनन्तरं द्वितीयपरामर्शो वढ्यभावव्याप्यपाषाणवत्त्ववान् अयमिति यदा उत्पद्यते तदा तस्मिन् काले पूर्वेण परामर्शेन वह्नयनुमितिः कुतो नोत्पद्यते तदानीं विरोधिपरामर्शस्य पूर्वमभावात् वह्नयनुमितिः स्यादित्याशङ्कार्थः / समाधत्ते - विरोधिपरामर्शेति। तथा च विरोधिपरामर्शो यद्यपि न प्रतिबन्धकस्तथापि तत्सामग्री प्रतिबन्धिकाऽस्त्येव, विरोधिपरामर्शकारणीभूतव्याप्त्यादिज्ञानादिसत्त्वात् न वह्नयनुमितिरित्यर्थः / समाधानान्तरमाह - अग्रिमेति टीका। तथा चप्रतिबन्धकाभावः कार्यभूतः कारणं तेन विरोधिपरामर्शोत्पत्तिकाले विरोधिपरामर्शस्यैव विद्यमानत्वात् /