SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः मनसोरप्यतिव्याप्तिर्नास्तीत्यर्थः / अत्राशङ्कते - न चेति टीका। साध्यपदं स्वसाध्यपरं कर्तव्यम्, अन्यथाऽन्यसाध्यविरोध्युपस्थापनसमर्थबलोपस्थितेः प्रतिबन्धकत्वमेव नास्ति। यथा पाषाणवत्त्वस्य हेतोः स्वसाध्यं भवति वह्नयभावः, तद्विरोधी भवति वह्निः, तदुपस्थापनसमर्थबलोपस्थितिर्वह्रिव्याप्यधूमवांश्चायमितिरूपा इत्थमेव वढ्यभावानुमितौप्रतिबन्धिका, नतुअनित्यत्वव्याप्यकृतकत्ववान् अयमित्यादिरूपा।ततः साध्यसिद्धिविरुद्धोपस्थापनसमर्थबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वम् आत्ममनसोर्नास्ति, आत्ममनसोः पक्षधर्मत्वमेव नास्ति अवृत्तित्वात् तयोरिति भावः। समाधत्ते - साध्यं हीति। साध्यं नाम ज्ञाप्यं न तु जन्यम्, यथाधूमस्य ज्ञाप्यो वह्निस्तथाऽऽत्मादेरपि ज्ञाप्यः सम्भवति तज्ज्ञाने आत्मादेरपि कारणत्वात् इति कृत्वा मूललक्षणं स्वयं समर्थितम् / अथ मूले उत्तरं द्वितीयं लक्षणं योजयितुम् आभासं ददाति - नन्विति टीका।अत्र बलं किम् - सपक्षसत्त्वं विपक्षासत्त्वंवा? आद्ये आह - व्यतिरेकीतिटीका। तथा चव्यतिरेकिणि सपक्षा(क्ष)सत्त्वाभावात् व्यतिरेकी सत्प्रतिपक्षो नस्यात्। द्वितीयमाह - अन्त्ये इति। यदि विपक्षासत्त्वं तदा केवलान्वयिनि अव्याप्तिः, तत्र विपक्षस्याप्रसिद्धत्वात् तदभावो ज्ञातुमशक्य इत्यर्थः / बलं चेतीति टीका / बलं तु न सपक्षसत्त्वं तथा विपक्षासत्त्वं पूर्वदोषात्, परं व्याप्तिपक्षतारूपं बलम्। ननु व्याप्तिरप्येका नास्तीत्यत आह - साचेति टीका। तत उभयोरपि व्याप्तिपक्षतारूपं बलमपेक्षितं तत्रास्तीतिभावः। द्वितीयलक्षणं व्याचष्टे - विरोधीति। विरोधिबोधकं यत्प्रमाणं तदन्यत् यद्गमकतौपयिकरूपवत्तया ज्ञायमानलिङ्गत्वम्।यथावह्निमान्धूमात्वह्नयभाववान्पाषाणवत्त्वात्, अत्रविरोधिशब्देन स्वसाध्यविरोधि, तद्बोधकं यत्र किमपि नास्ति उभयोः परस्परापेक्षयाऽधिकबलं किमपि नास्ति, तदन्यत् यद् गमकतौपयिकरूपवत्तयाज्ञायमानलिङ्गत्वम् इदमुभयोरपिवर्तते इतिअत्रसत्यं तस्य कृत्यमाह- अनापीति टीका / यत्र वन्यभावसाधके वह्रिसाधकापेक्षया अधिकबलोपस्थितिर्जाता तत्राधिकबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गं हीनबलं वह्रिसाधकं तत्रातिव्याप्तिवारणार्थं विरोधिबोधकान्येति। तथा च तत्र हीनबले विरोधिबोधकं [283 B] प्रमाणमपि तिष्ठतीति विरोधिबोधकान्यत्वं नास्ति इति कृत्वा नातिव्याप्तिः / ननु विरोधिबोधकान्येति कस्य विशेषणमित्यत आह - गमकतौपयिकेति। तथा च विरोधिबोधकान्यत् यत् गमकतौपयिक रूपमित्यर्थः / ननु तथापि सत्प्रतिपक्षेऽतिव्याप्तिः विरोधिबोधकस्य प्रतिहेत्वन्तरस्य विद्यमानत्वात् इत्यत आह - बोधकत्वमिति टीका।बोधकत्वं न(? तु) स्वरूपयोग्यत्वं विरोध(धि)बोधकस्य स्वरूपयोग्यस्य विद्यमानत्वात्। यथा वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र परस्परं सत्प्रतिपक्षता वर्तते, अत्र पाषाणवत्त्वं हेतुः सत्प्रतिपक्षो भवति। तत्र विरोधिबोधकान्यत् यत् गमकतौपयिकं रूपंप्रतिहेतुगतंधूमत्वरूपहेतुगतं तदेव विराधिबोधकान्यन्न भवति। यतो वह्नर्विरोधिसाध्यं वह्नयभावः, तद्गमकतौपयिकं वर्तत एव, तथा चोभयोर्हेत्वोः परस्परं विरोधिबोधकत्वात् विरोधिबोधकान्यगमकतौपयिकरूपवत्तयाज्ञायमानत्वं नास्ति इतिसत्प्रतिपक्षलक्षणंपरस्परमव्याप्तम् /
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy