________________ 548 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका - प्रतिबन्धकत्वं न स्यात्, किं तर्हि बलोपस्थितौ प्रतिबन्धकतावच्छेदकमित्यत आह - अन्यूनबलत्वमिति टीका ।अत्रयुगपदुपस्थितेरित्यन्तोग्रन्थो शुद्धः पुस्तकान्तरे द्रष्टव्यः।स्वमतमाह - व्याप्तीति।व्याप्तिपक्षधर्मतारूपं बलं तत्केनापि येनकेनापिरूपेण विषयतया यादृशोपस्थितौ अवच्छेदकंतादृश्या उपस्थित्याप्रतिरुद्धकार्यलिङ्गत्वं विवक्षितम् / अथ क्रमेण पदानां व्यावृत्त्य(वर्त्य)म् उक्तदोषनिराकरणमप्याह - तथा चेति टीका। प्रथमं साध्यविरोध्युपस्थापनपदस्यकृत्यं कृतम्। तदेवात्रकृत्यम् - तथाहिधूमोव्याप्तिपक्षधर्मः पर्वतवृत्तित्वात् इत्येकमनुमानम् धूमो न व्याप्तिपक्षधर्मः धूमत्वात् इति द्वितीयम्, तथा च यत्र द्वितीयेनाधिकसहकारणवशादनुमितिः कृता तस्यामनुमितौ व्याप्तिपक्षधर्मतारूपं बलं विषयतया जातमेव। अथवा टीकाभिप्रायेण द्वितीयमनुमानं प्रथममेवानुमानं कर्तव्यम्, तथा धूमो न व्याप्तिपक्षधर्मः, हेतुः स एव तदनन्तरंधूमो व्याप्तिपक्षधर्म इति द्वितीयमनुमानम्, तथा च द्वितीयानुमाने सहकारिवशात्यत्रानुमितिर्जाता तत्र द्वितीयानुमितिः पूर्वस्यानुमितेर्बाधरूपाभवतिग्राह्याभावरूपत्वात्, पूर्वानुमितौ ग्राह्यो व्याप्तिपक्षधर्मताऽभावः तदभावस्तु व्याप्तिपक्षधर्मत्वम्, द्वितीयानुमितौ विषयः स एव व्याप्तिपक्षधर्मतोपस्थितिर्भवति, तयाप्रतिरुद्धकार्ये पर्वतवृत्तित्वादौअतिव्याप्तिस्तत्रापि सत्प्रतिपक्षलक्षणं गतम् इतिअतिव्याप्तिवारणार्थसाध्यविरोधीतिपदम्। तथाचसा साध्यविरोध्युपस्थितिरेव नतु साध्यविरोध्युपस्थितिजननसमर्था / न हि उपस्थितौ उपस्थितिजननयोग्यत्वम्, न हि घटेन घटो जन्यते इति। अथ पूर्वोक्तविरुद्धत्वेन ज्ञाते जन्यत्वे याऽतिव्याप्तिस्तां निराकरोति - अनित्यत्वेति टीका। तथा च नित्यत्वविरुद्धत्वेन ज्ञाते जन्यत्वे बलोपस्थितेः प्रतिबन्धकत्वं बलोपस्थितित्वेन नास्ति किन्तु विरुद्धोपस्थितित्वेनेति / अत्रैवोपोद्वलकमाह - तस्या इति। विरुद्धत्वोपस्थितेः सहचारग्रहप्रतिबन्धद्वाराऽन्यत्र व्याप्तिधीप्रतिबन्धकत्वस्य क्लृप्तत्वात् विरुद्धत्वोपस्थितित्वेन रूपेण प्रतिबन्धकत्वं न तु व्याप्तिपक्षधर्मतोपस्थितित्वेनेत्यर्थः / समाधानान्तरमाह - लिङ्गं चेति / अथवा व्याप्तिपक्षधर्मताप्रतिरुद्धकार्यलिङ्गत्वमित्यत्र लिङ्गपदं व्याप्तिपक्षधर्मतया ज्ञातंत्वपरं कर्तव्यम्। तथा चनित्यत्वविरुद्धत्वेन ज्ञातेजन्यत्वे नित्यत्वव्याप्तिपक्षधर्मतोपस्थितिरेवनास्तीतिकृत्वाऽतिव्याप्तिर्नास्तीति भावः।लिङ्गपदस्यव्याप्तिपक्षधर्मतया ज्ञातत्वपरत्वेऽनुकूलमाह - अतएवेति।यतएवलिङ्गपदंव्याप्तिपक्षधर्मतया ज्ञातत्वपरम् अत एव आत्मनि विरुद्ध मनसि व्यभिचारिणि नातिव्याप्तिः / कुतः ? यतस्तत्रात्मनि मनसि वा व्याप्तिपक्षधर्मतया ज्ञातत्वमेव नास्ति। यथा वह्निमान् धूमात् वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र पाषाणरूपसत्प्रतिपक्षेण [283 A] वह्नयनुमितिलक्षणकार्यस्य प्रतिबन्धः क्रियते / यथा वह्नयनुमितिलक्षणं कार्यं यथा धूमस्य हेतोस्तथाऽऽत्ममनसोरपि कार्यं भवति वह्नयनुमितिः, ज्ञानमात्रेतयोः कारणत्वात्। तथा च यथाप्रतरुद्धकार्यत्वंधूमे तथा आत्ममनसोरपिवर्तते, धूमस्य सत्प्रतिपक्षत्वात् सत्प्रतिपक्षलक्षणमात्मनि मनसि चातिव्याप्तम्, तयोर्हेतुत्वाभावादेव सत्प्रतिपक्षत्वम्, तथा चलिङ्गपदं यदिव्याप्तिपक्षधर्मतया ज्ञातत्वपरं कृतं तदा तत्र आत्म