________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 547 बलोपस्थितिरेवनभवति।यतो बाधसामर यांवैलक्षण्यवत्तयाऽनिर्धार्यमाणत्वं नास्ति किन्तु निर्धार्यमाणत्वमेवेति न तत्रातिव्याप्तिः। चिन्त्यमिति मिश्रमते दूषणमाह - यत् त्वयोक्तं बलोपस्थितित्वेन प्रतिबन्धकता नास्ति स्वबलोपस्थितेरपिस्वानुमितेः प्रतिबन्धकता [282 A]स्यादित्यतउक्तं साध्यविरोध्युपस्थापनसमर्थेतिपदमित्यादि / असम्भववारणार्थं पूर्वोक्तानि सर्वाणि विशेषणानि दत्तानि तथाप्यसम्भवस्तदवस्थ एवेत्याह - तादृशेति टीका। साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थितित्वमपिनप्रतिबन्धकतावच्छेदकम्, वक्ष्यमाणयुक्त्याऽसम्भवस्तदवस्थ एवेति। कुत इत्यत आह - यत्रेति। यत्रोभयोर्हेत्वोः समूहालम्बनरूपः परामर्शो जातो यथा वह्रिव्याप्यधूमवान् अयं वह्नयभावव्याप्यपाषाणवान् अयमित्युभयसामग्रीसमवधाने सति उभयपरामर्शो जातस्तत्रोभयपरामर्शकाले यत्र चोभयत्र बाधावतारो दोषाज्जातो यथाऽयं पर्वतो वह्निवह्नयभावोभयाभाववान् इत्युभयत्र बाधावतारेणोभयो_नबलत्वेन सत्प्रतिपक्षत्वं नास्ति। तत्र साध्यविरोध्युपस्थापनसमर्थबलोपस्थितित्वं वर्तते / यतः सा व्याप्तिपक्षधर्मतोपस्थितिवर्तते, तस्यां च साध्यविरोध्युपस्थापनसमर्थबलोपस्थितित्वमप्यस्ति / ननु तस्याः समानत्वमपि नास्तीत्यत आह - तस्या अपीति टीका / उभयत्र बाधावतारे सति या व्याप्तिपक्षधर्मोपस्थितिास्तास्या इत्यर्थः / प्रतिबध्येति टीका। तथा च तस्याः परस्परवैलक्षण्यवत्तयाऽनिर्धार्यमाणत्वेन समानत्वात् तया परस्परबलोपस्थित्या परस्परप्रतिबन्धस्तु न क्रियते परं साध्यविरोध्युपस्थापनसमर्थबलोपस्थितित्वं तच्च वर्तते एवेति साध्यविरोध्युपस्थापनसमर्थबलोपस्थितिर्भवति परं तया बलोपस्थित्या प्रतिबन्धो न क्रियते इतिकृत्वा साध्यविरोध्युपस्थापनसमर्थबलोपस्थितित्वमपिनानुमितिप्रतिबन्धकतावच्छेदकमिति कृत्वाऽसम्भव एव। अत्राशङ्कते - नचेति टीका। तथा च यत्र बाधावतारो जातस्ताभ्यामपि बलोपस्थितिभ्यां परस्परप्रतिबन्धः क्रियतेएवेति तदानीमपि सत्प्रतिपक्षत्वमिष्टमेवेतिसाध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थितित्वंप्रतिबन्धकतावच्छेदकं भवत्येवेति नासम्भव इत्याशङ्कार्थः / दूषयति - अपसिद्धान्तादिति टीका / यत्रोभयत्र बाधावतारस्तत्र सत्प्रतिपक्षत्वाङ्गीकारादपसिद्धान्त इत्यर्थः / ननु युक्तिसहत्वे किमपसिद्धान्तेनेत्यतआह - बाधादेरिति टीका।यतस्तत्र बाधएव प्रतिबन्धकः परंसासमानबलोपस्थितिः प्रतिबन्धिका न भवति। ननु बाधसमानबलोपस्थित्योरुभयोरपि प्रतिबन्धकत्वमस्तु इत्यत आह - बाधितेनापि इति टीका। यदि बाधे विद्यमानेऽपि समानबलोपस्थितेः प्रतिबन्धकत्वं तदा पर्वतो वह्निमान् धूमात् पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यत्रापि यदा पाषाणवत्त्वे हेतौ यदि वह्नयभावांशे बाधावतारो जातस्तदा तयाऽप्युपस्थित्याऽपरानुमितेवढ्यनुमितेः प्रतिबन्धः स्यात् / अत्राशङ्कते - नचेति। तथा च बाधितेऽपि सत्प्रतिपक्षत्वमिश्र(ष्ट)मेव / दूषयति - आभासान्तरे इति / असिद्धादौ विद्यमानेऽपि सत्प्रतिपक्षत्वं स्यात् [282 B] समानबलत्वस्य तत्राति(पि) विद्यमानत्वात् / दूषणान्तरम् - किञ्चेतिटीका।समानबलोपस्थितित्वमात्रंनप्रतिबन्धकम्।तत्त्वेन प्रतिबन्धकत्वेऽधिकबलोपस्थिते(ते:)