________________ 546 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका पक्षीकृत्य साध्यपक्षकं सताप्रतिपक्षानुमानं सम्भवत्येव यथा अभिधेयत्वं शब्दावृत्ति रूपवृत्तित्वात् रूपत्ववत् इति / केवलान्वयिनि सत्प्रतिपक्षः सम्भवति / यथा पर्वतो वह्निमान् धूमात् इत्यत्र यथा पर्वतो वह्नयभाववान् पाषाणवत्त्वात् अयं सत्प्रतिपक्षस्तथा वह्निः पर्वतावृत्तिः पाषाणवद्वृत्तित्वात् ह्रदत्ववत् इत्यपि साध्यपक्षकसत्प्रतिपक्षानुमानं सम्भवति / तथा केवलान्वय्यपि साध्यपक्षकसत्प्रतिपक्षः सम्भवत्येव / एवं साध्यसिद्धिविरोध्युपस्थितिजननसमर्थायाबलोपस्थितिस्तयो(या) प्रतिरुद्धकार्यलिङ्गत्वंसत्प्रतिपक्षलक्षणम्।नन्वेतादृशी विवक्षा किमर्थं कर्तव्या इत्यत आह - केवलान्वयीति टीका / अनया विवक्षया केवलान्वयी सत्प्रतिपक्षोऽपि सङ्गृहीतो [281 B] भवति इत्यर्थः / एतदेव विवृणोति - ननु साध्याभावेति टीका। तथा च साध्यसिद्धिविरोध्युपस्थितिजननसमर्थबलोपस्थितित्वेनैव प्रतिबन्धकत्वं वक्तव्यम्, न तु साध्याभावसाधकत्वेनेति / दोषेति / केवलान्वयिसत्प्रतिपक्षो न स्यादित्यर्थः / तथा च साध्यसिद्धिविरोधिनी या उपस्थितिरभिधेयत्वं न शब्दवृत्ति इत्येवंरूपा साध्यसिद्धिविरोधिनी उपस्थितिः तज्जननसमर्थत्वं हेतोर्वर्तत एवेति तत्सङ्ग्रहः / अथ समानपदस्य कृत्यमाह - साध्यविरोधीति टीका। साध्यसिद्धेविरोधिनी या उपस्थितिस्तज्जननस्वरूपयोग्यत्वं हीनबलोपस्थितावपि वर्तते / यतः साध्यसिद्धिविरोध्युपस्थितिजनकतावच्छेदकं किम् ?, व्याप्तिपक्षधर्मतोपस्थितित्वम्, तच्च हीनबलोपस्थितावपि वर्तते एवेति / तया हीनबलोपस्थित्या कदापि अनुमितिरूपकार्यस्य प्रतिरोधो न क्रियते इति कृत्वा साध्यसिद्धिविरोध्युपस्थितिजनकबलोपस्थितित्वमपिन प्रतिबन्धकतावच्छेदकमित्यसम्भव इत्यर्थः / अयमर्थः - साध्यसिद्धिविरोध्युपस्थितिजननसमर्थबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं सत्प्रतिपक्षत्वं वक्तव्यम्, इदं लक्षणमसम्भवग्रस्तम्, कुतः ?, साध्यसिद्धिविरोध्युपस्थितिजननसमर्थबलोपस्थितित्वेन यदि प्रतिबन्धकता स्यात् तदा तया प्रतिरुद्धकार्यलिङ्गत्वं सत्प्रतिपक्षलक्षणं वक्तव्यम्, तच्च न सम्भवति / कथम् ? साध्यसिद्धिविरोध्युपस्थापनसमर्थबलोपस्थितित्वे[न] प्रतिबन्धकत्वं नास्ति हीनबलोपस्थितावपि तथात्वं वर्तते इति कृत्वा तत्त्वं न प्रतिबन्धकतावच्छेदकमित्यसम्भव इत्यर्थः / एतदेवाह - असम्भवतादवस्थ्येनेति टीका। तथा च लक्षणस्यार्थ एव न सम्भवति इत्यसम्भवग्रस्तं लक्षणमित्यर्थः / अत आह - समानपदमिति टीका / तथा च यद्यपि तादृशबलोपस्थितित्वेन प्रतिबन्धकता नास्ति तथापि समानबलोपस्थितित्वेन प्रतिबन्धकता तिष्ठत्येवेति नासम्भवग्रस्तं लक्षणमित्यर्थः / अथ हीनबलोपस्थितौ तु समानत्वं कथं नास्तीत्यत आह - समानत्वं चेति / तथा च प्रतिबन्धकस्य प्रतिबध्यापेक्षया समानत्वं नाम वैलक्षण्येनानिश्चीयमानत्वं ततः किमित्यत आह - न च हीनबलेति टीका / हीनबलोपस्थितौ प्रतिबध्यापेक्षया प्रतिबन्धाकास्यानिर्धार्यमाणत्वं नास्ति किन्तु वैलक्षण्यवत्तया निर्धार्यमाणत्वमेव, एतदेवाह - तदस्तीति टीका। एवं चेति।साध्यविरोधीत्यादिके विशेषणे दत्ते सति बाधसामर यादावप्यतिव्याप्तिरेव नास्तियतो बाधसामग्री समान