________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 545 लक्षणं तत्रगतम्, तेन विरुद्धेऽतिव्याप्तिः। शङ्कते - नचेति।जन्यत्वे या विरुद्धोपस्थितिः सा वस्तुगत्या साध्याभावव्याप्त्युपस्थितिलक्षणा बलोपस्थितिर्भवति। यतः साध्याभावव्याप्तो विरुद्ध इति तथापि तस्या विरुद्धत्वोपस्थितेर्बलोपस्थितित्वेन न प्रतिबन्धकता। जन्यत्वेन या नित्यत्वानुमितिः कर्तव्या तत्र तस्या न प्रतिबन्धकता किन्तु सहचारनिश्चयविरोधित्वेनैवेत्यत एव विरुद्धत्वज्ञानेन सहचारज्ञानमेव विघट्यतेऽतो जन्यत्वे नातिव्याप्तिः बलोपस्थितित्वेन प्रतिबन्धकत्वाभावादित्याशङ्कार्थः। दूषयति - एवं हीतिमूलम्। तर्हि साध्यविरोध्युपस्थापनपदं व्यर्थम् / कथम् ? धूमो वह्निव्याप्यो नीलविशेषवत्त्वात्, तदनन्तरं धूमो न व्याप्तपक्षधर्मः इयं याऽनुमितिर्जाता तया पूर्वहेतुः प्रतिरुद्धकार्यलिङ्गो भवति, अत्र प्रतियोग्यंशे व्याप्तिपक्षधर्मतयोतित्वात् बलोपस्थितिरप्यस्ति, तत्प्रतिबद्धकार्यलिङ्गेऽतिव्याप्तिवारणार्थं साध्यविरोध्युपस्थापनपदं दत्तम्, ततो न व्याप्तपक्षधर्मः इतीयं या व्याप्तिपक्षधर्मतोपस्थितिस्तस्या बलोपस्थितित्वेन न प्रतिबन्धकता किन्तु ग्राह्याभावनिश्चयत्वेन, पूर्वानुमाने ग्राह्ये व्याप्तपक्षधर्मत्वं न व्याप्तपक्षधर्म इत्यनेन तदभावोऽवगाह्यते, तथा च साध्यविरोध्युपस्थापनपदं [281 A] व्यर्थमित्याशङ्कार्थः / एतदेवाह - पर्वतवृत्तित्वादाविति टीका / अत्र धूमो व्याप्तपक्षधर्मः पर्वतवृत्तित्वात्।नीलविशेषस्थाने पर्वतवृत्तित्वमुक्तम्। तथा च तत्रातिव्याप्ति स्ति। कथम् ? यतस्तत्रबलोपस्थितित्वेन प्रतिबन्धकता नास्ति, तर्हि नव्याप्तिपक्षधर्म इत्युपस्थितेः केन रूपेण प्रतिबन्धकत्वमित्यत आह - ग्राह्याभावनिश्चयत्वेनेति टीका / तथा च न व्याप्तिपक्षधर्म इत्येतस्या उपस्थितेर्न बलोपस्थितित्वेन प्रतिबन्धकत्वं किन्तु ग्राह्याभावनिश्चितत्वेन, ततस्तत्प्रतिरुद्धे पर्वतवृत्तित्वादौआदिपदान्नीलविशेषादौ चनातिव्याप्तिः, ततस्तद्वारणार्थं साध्यविरोध्युपस्थापनपदं व्यर्थमेवेति पूर्वपक्षसंक्षेपः / अत्राहुरिति पक्षधरमिश्रा इति शेषः / अत्र लक्षणे यानि पदानि दत्तानि तानि सर्वाण्यपि असम्भववारकाणि। तदेव दर्शयति - बलोपस्थितित्वेनेति टीका। यत्रप्रतिरुद्धकार्यलिङ्गत्वमित्युच्यमाने बाधेव्याप्तिस्तेनापि बाध्यो यो हेतुस्तस्य कार्यमनुमितिलक्षणं प्रतिरुध्यते एव, तद्वारणार्थं बलोपस्थितीति। बाधे बलोपस्थितित्वेन प्रतिबन्धकत्वं नास्ति किन्तु साध्याभावत्वेनैव / बलोपस्थित्या प्रतिबद्धकार्यलिङ्गत्वमित्युक्ते पुनरप्यसम्भवो यतः सत्प्रतिपक्षेऽपि बलोपस्थितित्वेनापि प्रतिबन्धकत्वं नास्ति स्वबलोपस्थितित्वेन प्रतिबन्धकत्वाभावात् / अन्यथा वह्निमान् धूमात् इत्यत्र वह्निव्याप्यधूमवान् अयमित्येव आकारिका या बलोपस्थितिः तस्या अपि स्वानुमितौ प्रतिबन्धकत्वं स्यात् / अतः साध्यविरोधीत्युपस्थितिविशेषणम्। तथा च साध्यसिद्धिविरोधिनी या उपस्थितिः अन्वयव्यतिरेकिसाध्याभावोपस्थितिः केवलान्वयिनि तु साध्ये पक्षवृत्तित्वाभावोपस्थितिः यथाऽभिधेयत्वं पक्षवृत्ति न भवति इति पक्षेऽभिधेयत्वे या पक्षवृत्तित्वाभावोपस्थितिः सा साध्यसिद्धिविरोध्युपस्थितिर्भवत्येव।अन्यथा केवलान्वय्यनुमाने सत्प्रतिपक्षता कथं स्यात् / तथाहि - शब्दोऽभिधेयः प्रमेयत्वात् अत्र सत्प्रतिपक्षकरणे साध्याभावानुमानं द्वितीयं यद्यपि न सम्भवति साध्यं