________________ 544 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका चप्रथमतो बलपदस्यस्वविरोधिबलपरत्वंन कर्तव्यम्, यथाकथञ्चित् बलपरत्वमेव, तेन पूर्वोक्तातिव्याप्तिर्लगति, ततस्तद्वारणार्थं साध्यविरोध्युपस्थापनसमर्थपदंदातव्यम्। एतत्पददानमहिम्नास्वसाध्यविरोधीत्ययमर्थो लभ्यते। अयमर्थः - यदि प्रथमत एव समानबलोपस्थितिपदस्यार्थः स्वसाध्यसिद्धिविरोधीत्ययमर्थः क्रियते तदा तत् साध्यविरुद्धोपस्थापनपदं व्यर्थमेव भवति / ननु केवलबलपदं स्वसाध्यसिद्धिविरोधिबलपरम्, तथा सति किं स्यात् इत्यत आह - विशेषणेति टीका। विशेषणं तु साध्यविरोध्युपस्थापनसमर्थत्वरूपं तस्य वैयर्थ्यं स्यात् यतः समानपदस्यैवार्थः स्वसाध्यविरोधीत्येवार्थः कृतो वर्तते / ननु सम्पूर्णसत्प्रतिपक्षलक्षणं केवलान्वयिसत्प्रतिपक्षेऽव्याप्तम् यथा अयं ज्ञानाभाववान् अचेतनत्वात् अयं ज्ञानवान् वस्तुतत्त्वात् / न च घटे व्यभिचारे(रो) विषयतासम्बन्धेन तत्रापि ज्ञानवत्त्वसत्त्वात् / अत्र साध्यं ज्ञानवत्त्वम्, तद्विरोधि अप्रसिद्धं विषयप्तासम्बन्धेन सर्वस्य साध्यवत्त्वात् इति केवलान्वयिनि सत्प्रतिपक्षेऽव्याप्तिरित्यत आह - साध्यविरोध्युपस्थापनसमर्थत्वं चेति टीका।साध्यस्य या सिद्धिस्तद्विरोधिनी या उपस्थितिमा॑नं साध्यज्ञानविरोधिज्ञानजननसमर्थत्वम्, इदं केवलान्वयिनि वर्तते। कथम् ? अयं ज्ञानवान् वस्तुतत्त्वात् इत्यत्र साध्यसिद्धिविरोधिनी या उपस्थितिः सा कीदृशी ? ज्ञानं नरूपवद्वृत्ति बहिरिन्द्रियाप्रत्यक्षत्वात् रूपादिवत्।पूर्वं ज्ञानवत्त्वं साध्यं तत्साध्यसिद्धिविरोधिन्युपस्थितिरियं भवत्येवेति कृत्वा नाव्याप्तिः / अत्र मूललक्षणे आशङ्कते - नन्विति टीका / शब्दोऽनित्यः कृतकत्वात् शब्दो नित्यः श्रावणत्वात् इत्यत्र परामर्शद्वयं परस्परं साध्यविरोध्युपस्थापनसमर्थम् [280B], यथा एकोऽनित्यत्वव्याप्यकृतकत्ववान् अयम् अपरो नित्यत्वव्याप्यश्रावणत्ववान् अयमितिपरामर्शद्वयेऽनुमितिर्न जायतेपरस्परपरामर्शाभ्यां परस्परकार्यप्रतिबन्धात्। एवं सति तस्मिन्नेवानित्यत्वव्याप्यकृतकत्ववान् अयमिति परामर्श सति नित्यत्वविरुद्धजन्यत्वमपि ज्ञातम्, तत्र जन्यत्वे हेतौ अतिव्याप्तिः / तत्तु सत्प्रतिपक्षरूपं न भवति। कुतो न भवति? यतो जन्यत्वं हेतुर्नित्यत्वविरुद्धत्वेनैव ज्ञातोऽतः कृतकत्वेन सह श्रावणत्वादिवत् सत्प्रतिपक्षो न भवति / यतोऽयं नित्यत्वविरुद्धत्वेनैवज्ञातः ततोऽयंविरुद्धत्वात् अलक्ष्य एव।तत्रजन्यत्वेविरुद्धत्वेन ज्ञायमानेऽतिव्याप्तिरित्यर्थः / ननु जन्यत्वं हेतुर्विरुद्धत्वेन ज्ञायमानो दुर्बलः, कृतकत्वं हेतुस्तु व्याप्तिपक्षधर्मतया ज्ञायमानत्वात् अधिकबल इति समानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वमेव नास्ति, कुतस्तत्रातिव्याप्तिस्तत्र लक्षणाभावादित्यत आह - नित्यत्वरूपेति टीका / तथा च समानत्वं नाम निर्णयाजनकत्वम् / एवं च सति स्वशब्देन जन्यत्वम्, तस्य यत् साध्यं नित्यत्वम् / यथा ह्रदपक्षके वह्नयनुमाने धूमवत्त्वं हेतुः स्वरूपासिद्धः तथा शब्दपक्षकनित्यत्वानुमाने जन्यत्वं हेतुर्विरुद्धः, तस्य विरोधि यदनित्यत्वं तदुपस्थापनसमर्था या बलोपस्थितियथाऽनित्यत्वव्याप्यकृतकत्ववान् अयमिति रूपा सा समाना भवति निर्णयाजनकत्वात् / यद्यपि जन्यत्वहेतुना निर्णयजनिका जन्यत्वस्य विरुद्धत्वेन ज्ञातत्वात् तथापि नित्यत्वव्याप्यत्वेन ज्ञातं यत् श्रावणत्वं तेन प्रतिरुद्धत्वात् निर्णयाजनिका भवतीति