________________ हेत्वाभासप्रकरणे सत्प्रतिपक्षः 543 भयोरपि प्रतिबन्धकत्वं न स्यात् / यथा हेत्वाभासान्तरज्ञानकालेऽपरहेत्वाभासज्ञानस्यापि प्रतिबन्धकत्वं तथा दोषान्तरसङ्कीर्णाया अपि बाधसामा याः प्रतिबन्धकत्वमित्यत आह - दोषान्तरेति टीका। यदि यत्र बाधसामग्री प्रतिबन्धिका तत्र दोषान्तरमपि प्रतिबन्धकं भवतु बाधसामग्री अपि प्रतिबन्धिका भवतु विनिगमकाभावात् / ननु बाधसामा या अनुमितिप्रतिबन्धकत्वे हेत्वाभासान्तरता स्यात् इत्यत आह - तद्विषयस्येति टीका / अत्र पाठः पुस्तकान्तरात् द्रष्टव्यः / अत्र समाधानग्रन्थो विलोक्यः। अथ साध्यविरोध्युपस्थापनसमर्थपदस्य प्रयोजनमाह - धूमोऽयमिति / एकमनुमानं यथा धूमो न वह्निनिरूपितव्याप्तिपक्षधर्मः धूमत्वात् / द्वितीयमनुमानं पूर्वानुमानपरामर्शादनुमितिर्जाता, ततः तत्रधूमो न व्याप्तिपक्षाधर्मः], इयं याऽनुमितिः सैव व्याप्तिपक्षधर्मोपस्थितिः, तया प्रतिरुद्धकार्योभवति।वहिव्याप्यधूमवान् अयमितिधूमो वह्रिव्याप्यपक्षधर्मो नीलविशेषवत्त्वात् इत्येकमनुमानम् / द्वितीयं चधूमो न व्याप्तपक्षधर्मः धूमत्वात् इत्यत्र धूमो न व्याप्तपक्षधर्म इति यदाऽनुमितिरनुकूलतर्कादिना जाता तदा साऽनुमितिः समानबलोपस्थितिर्भवति यतस्तत्रापि व्याप्तिपक्षधर्मोपस्थितिर्भासते येन धूमो न व्याप्यपक्षाधर्मः] इत्यनुमितिर्जाता / अनया प्रतिरुद्धकार्यो भवति नीलविशेषवत्त्वादिति हेतुः / अयं च दुर्बलो भवति यतः प्रथमानुमाने एवानुकूलतर्कावतारो जातोऽत्रतुन जात इति तस्य दुर्बलत्वं परंस सत्प्रतिपक्षो न भवति एकस्य दुर्बलत्वात् / सत्प्रतिपक्षत्वं तु समानबलत्वे एव भवति / अतस्तत्र हीनबलेन] सत्प्रतिपक्षलक्षणातिव्याप्तिरित्यर्थः / ननु द्वितीयानुमितिर्न धूमो व्याप्तिपक्षधर्म इत्यनुमितिः समाना कथं स्यादित्यत आह - स्वयमिति टीका।समानत्वं नाम निर्णयाजनकत्वम्, इयं त्वनुमिति(तिः) निर्णयरूपैवेति कृत्वा निर्णयाजनिकैवेति / ननु साध्यविरोध्युपस्थापनसमर्थत्वं कस्य विशेषणमित्याह - उपस्थित्याविति टीका। तथा च साध्यविरोधियत् साध्याभावस्तस्य यदुपस्थापनं ज्ञापनं तत्र समर्था या बलोपस्थितिस्तया प्रतिरुद्धकार्यलिङ्गत्वम् / [280 A] एतावता साध्यविरोध्युपस्थापनसमर्थपदेनपूर्वोक्तातिव्याप्तिपरिहारः कथंजातइत्यतआह-बाधरूपोपस्थितिस्त्विति टीका / तथा च पूर्वोक्ता या बाधरूपोपस्थितिः सा साध्यविरोध्युपस्थापनसमर्था न किन्तु सा साध्यविरोध्युपस्थितिरेव यतः साध्यं प्रथमानुमाने व्याप्तपक्षधर्मत्वम्, तदभावरूपोपस्थितिरियं बाधरूपानुमितिः, ततस्तत्रातिव्याप्तिर्न भवतीत्यर्थः / अत्राशङ्कते - नचेति टीका। बलपदेन स्वसाध्यं स्वस्य हेतोः साध्यं यत् तस्य यत् विरुद्धं साध्याभावस्तस्य बलं व्याप्तिपक्षाधर्म]ते तदुपस्थितिः, तथा च प्रकृते व्याप्तपक्षधर्मत्वं साध्यम्, तदभावो व्याप्तपक्षधर्मत्वाभावः, ततोव्याप्तपक्षधर्मत्वाभावनिरूपिता या व्याप्तपक्षधर्मतोपस्थितिः साऽपेक्षिता भवति। न व्याप्तिपक्षधर्माता] इति।बाधरूपानुमितौ प्रतियोगिविधया या व्याप्तपक्षधर्मतोपस्थितिः सा व्याप्तिपक्षधर्मता[5]भावस्य व्याप्तिपक्षधर्मतोपस्थितिर्न भवतिइति कृत्वा तत्रातिव्याप्तिर्न भवतीतिन चवाच्यमित्याशङ्कार्थः ।समाधत्ते - उक्तविशेषणदानेनेति। उक्तविशेषणंसाध्यविरोध्युपस्थापनसमर्थपदम्, तद्दानेन। तथा