________________ 538 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका इत्युपनयो न सम्भवति। तदेवाह - विशिष्ये(टे)ति मूलम्। विशिष्ट(ष्टः) विशेषाकारेण / यथा नित्यत्वव्याप्यश्रावणत्वस्यारोपो न सम्भवति तस्याप्रसिद्धत्वात्। लक्षणान्तरमाशक्य दूषयति - नापीति मूलम्।न निर्धारितो विशेषो याभ्यां ताभ्यां हेतुभ्यां बोधितौ साध्यतद्विपर्ययौ ययोस्तौ अनिर्धारितेत्यादि। यथा पर्वतो वह्निमान् धूमात् पर्वतो वह्नयभाववान् पाषाणवत्त्वात् इत्यत्र द्वयोः समानव्याप्तिपक्षधर्मतोपस्थितिकाले उभयोर्मध्ये कस्यापि विशेषोऽधिकबलत्वं नावधारितम् / यतस्तन्मध्ये एकेन साध्यं बोध्यतेऽपरेण साध्याभावो बोध्यते / इत्युभयोः परस्परसत्प्रतिपक्षत्वम्। दूषयति - उभयोरिति मूलम् / तथा च समानव्याप्तिपक्षधर्मतोपस्थित्या एकत्र विशेषाभावादुभयोः परस्परकार्यप्रतिबन्धकत्वं यथाधूमेन वन्यभावानुमितिप्रतिबन्धः पाषाणवत्त्वेन चवह्नयनुमितिप्रतिबन्धः इति बोधितसाध्यविपर्ययत्वं नास्ति / उक्तरीत्या एकस्यापि हेतोर्बोधकत्वाभावादसम्भव इत्यर्थः / किञ्च अनिर्धारितविशेषेत्यत्र को वा विशेष इत्याह - विशेषश्चेति / प्रकृते विशेषशब्देन किं व्याप्तिभङ्गो वा व्याप्त्यभङ्गो वा / उभयत्र दूषणमाह - एकत्रेति / तथा चानिर्धारितविशेषत्वं यत उभयोर्मध्ये एकत्र व्याप्तिभङ्गतदभङ्गयोरवश्यं सत्त्वात् / उभयोर्विरुद्धत्वादेकत्र तद्भङ्गश्चावश्यक इत्यर्थः / सत्प्रतिपक्षलक्षणे सिद्धान्तमाह - उच्यते इति / साध्येति / साध्यं च साध्यविरोधि च तयोर्यदुपस्थापनं तत्र समर्था या बलोपस्थितिळप्तिपक्षधर्मतोपस्थितिस्तया बलोपस्थित्या प्रतिरुद्धं कार्यं ययोस्तौ तयोर्भावस्तत्त्वम्, यथा पर्वतो वह्निमान् धूमात् वन्यभाववान् पाषाणवत्त्वात् इत्यत्र साध्यतदभावोपस्थापनसमर्था वा बलोपस्थितिः सा [ताया बलोपस्थित्या प्रतिरुद्ध कार्यमनुमितिरूपमुभयोरप्यनुमितिप्रतिबन्धात् सत्प्रतिपक्षलक्षणमुपपन्नम् / पदकृत्यं यथा बाधेन प्रतिरुद्धकार्यलिङ्गेऽतिव्याप्तिवारणार्थं बलोपस्थित्येति, यतो बाधो न बलोपस्थितिः / बलं तु व्याप्तिपक्षधर्मतारूपमेव / अथ चाधिकव्याप्तिपक्षधर्मतारूपबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गे हीनबलेऽतिव्याप्तिवारणार्थं समानेति पदम् / ततो यत्राधिकबलेन हीनबलस्य प्रतिरोधः क्रियते तत्र [277 A] समानबलोपस्थितिर्नास्तीति कृत्वा नातिव्याप्तिः / अत्र मतान्तरमाशक्य दूषयति - व्याप्तीति मूलम् / स्थापनानुमानस्य व्याप्तिपक्षधर्मतावत्त्वं द्वयोर्वादिनोः सिद्धम् / कथम् ? यतो द्वितीयेन सत्प्रतिपक्षदात्रा वादिना प्रथमानुमाने व्यभिचारो वा बाधो वा आश्रयासिद्धिर्वा नोद्भाविता अत एव ज्ञायते प्रथमानुमाने व्याप्त्यादिभङ्गो नास्ति तदभावात् / प्रथमानुमानं स्थापनानुमानं प्रबलम् / द्वितीयं सत्प्रतिपक्षदात्रा कृतं साध्याभावसाधकम्, तदुभयवादिसिद्धं न भवति। द्वितीयानुमानं पूर्ववादिनोऽसिद्धम्, तेन तदभावानुपन्यासात् व्याप्तिपक्षधर्मतोभयाभावानुपन्यासात् प्रथमानुमानेन तु द्वितीयमनुमानं बाधितमेवेति सत्प्रतिपक्षः परार्थानुमाने दूषणमेव न भवति। तर्हि सकुत्र दूषणमित्यत आह - स्वार्थानुमान इति मूलम्। यस्य पुरुषस्य साध्यतदभावसाधिका या व्याप्तिपक्षधर्मतोपस्थितिर्जाता तत्रैव स्वार्थानुमाने सत्प्रतिपक्षो दोष इति, यथा यस्य धूमे व्याप्तिपक्षधर्मतोपस्थितिर्जाता